08 - शतृशानचोः प्रक्रियाचिन्तनम्
वस्तुतः यद्यपि 'सार्वधातुकप्रकरणम्' इति नामकरणं प्रसिद्धं किन्तु सार्वधातुकम् इति प्रक्रिया अस्ति न तु प्रकरणम् | यथा जानीमः, प्रकरणम् इति नाम्ना अष्टाध्याय्यां समानप्रकारकसूत्राणि सङ्गृहीतानि सन्ति; अयं समानप्रकारकसूत्रसङ्ग्रहः एव प्रकरणम् | 'इत्संज्ञाप्रकरणम्', 'इडागमप्रकरणं', 'नुमागमप्रकरणं', 'णत्वप्रकरणम्' इति अष्टाध्याय्यां प्रकरणानि | तत्र एकप्रकारकसूत्रसङ्ग्रहः एव दीयते न तु पदनिर्माणप्रक्रिया | अष्टाध्याय्याम् एकस्मिन् प्रकोष्ठे एकमेव कार्यम् इति प्रकरणस्य लक्षणम् |
यत्र विभिन्नेभ्यः प्रकरणेभ्यः सूत्राणि स्वीक्रियन्ते पदस्य निर्माणार्थं, तत्र 'प्रक्रिया' इत्युच्यते | तथा च कर्त्रर्थक-सार्वधातुकप्रत्यये परे यत्र कर्तरि शप् (३.१.६८) इत्यनेन शप्, धातुगणम् अनुसृत्य शपं प्रबाध्य अन्ये अन्ये च विकरणप्रत्ययाः विधीयन्ते, यस्य फलं लटि लोटि लङि विधिलिङि तिङन्तपदं, शतृशानचोः च सुबन्तं, सा तु प्रक्रिया एव— पदनिर्माणविधिः | नूनं सार्वधातुकम् एका प्रक्रिया; फलं तिङन्तं सुबन्तं वा भवतु, प्रक्रिया उभयत्र समाना एका एव | तदन्तर्गते च चतस्रः उपप्रक्रियाः— अजादिपित्, हलादिपित्, अजाद्यपित्, हलाद्यपित् |
सार्वधातुकप्रक्रियायां यत्र यत्र प्रत्ययः अजादिपित्, तत्र तत्र एकप्रकारकं कार्यं भवति | तच्च कार्यं कुत्रापि भवतु, कार्यम् एकमेव | तद्वत् हलादिपित्, अजाद्यपित्, हलाद्यपित् | एवं च सार्वधातुकप्रक्रिया एका एव, तस्यां च चतस्रः उपप्रक्रियाः |
सार्वधातुकप्रक्रियायां चतस्रः उपप्रक्रियाः सन्ति इति कथं जानीमः, किं प्रमाणम् ? इदं वर्गीकरणं पाणिनिना सिध्यति सूत्रभेदेन | सूत्राणां निमित्तं दृष्ट्वा चतस्रः प्रक्रियाः स्फुटाः भवन्ति | यथा श्नाभ्यस्तयोरातः (६.४.११२) किति ङिति सार्वधातुकप्रत्यये परे [अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके], किन्तु ई हल्यघोः (६.४.११३) इत्यस्मिन् हलि किति ङिति उच्यते [अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः], यस्मात् श्नाभ्यस्तयोरातः इत्यस्य केवलं अजादि किति ङिति भवति | अनेन अजाद्यपित् हलाद्यपित् इत्यनयोः उपप्रकिययोः प्रमाणं सिद्धं— पाणिनेः सूत्रैः एव सिध्यति |
तदा उतो वृद्धिर्लुकि हलि (७.३.८९) हलि पिति भवति [उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य], नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) अचि पिति भवति [अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके]— आभ्यां सूत्राभ्यां हलादि पित्, अजादि पित् इति निमित्तं दृश्यते | चतुर्भिः सूत्रैः प्रमाणम् अस्ति यत् हलादिपित्, अजादिपित्, हलाद्यपित्, अजाद्यपित् इत्येभिः चतुर्भिः चतस्रः पृथक् प्रक्रियाः निष्पन्नाः |
अन्यच्च मूलरूपेण सार्वधातुकप्रक्रियायाः द्वौ विभागौ— यत्र अङ्गम् अदन्तं, पुनः यत्र अङ्गम् अनदन्तम् | अयं भेदः अपि सूत्रनिमित्तम् अवलम्ब्य सिध्यति | यथा आने मुक् (७.२.८२) इत्यस्य निमित्तम् अदन्तम् अङ्गम् [अतः अङ्गस्य मुक् आने] इति अग्रे वक्ष्यमाणम् |
शानच्
अधुना शानच्-प्रत्ययः कीदृशः ? अनुबन्धलोपे 'आन' अवशिष्यते | अयं प्रत्ययः शित्त्वात् सार्वधातुकः, अजादिः अपित् च इति कृत्वा 'अजाद्यपित् सार्वधातुकः' | सार्वधातुकप्रक्रियायां यत्र यत्र अजाद्यपित् इत्यस्य कार्यं प्रवर्तमानं, तच्च कार्यम् एकप्रकारकं समानं च, यतोहि निमित्तम् 'अजाद्यति' अतः येषां सूत्राणाम् अजाद्यपित् इति निमित्तं, तेषां प्रसक्तिः | अतः तिङन्तस्य क्षेत्रे यत्र तिङ्-प्रत्ययः अजाद्यपित्, तत्र यादृशकार्यं भवति, तादृश एव कार्यं भवति 'आन' इति प्रत्ययं निमित्तीकृत्य | न कोऽपि भेदः |
एतदर्थं तिङन्तकृदन्तयोः प्रक्रियादृष्ट्या द्वैविध्यं नास्ति | तिङन्तक्षेत्रे यत्र प्रत्ययः अजाद्यपित्, कृदन्तक्षेत्रे यत्र प्रत्ययः अजाद्यपित्, उभयत्र कार्यं समानं— प्रक्रिया एका एव |
अत्र 'प्रक्रिया समाना' इत्यनेन किं विवक्षितम् ? तिङन्तस्य तिङन्तपद-व्युत्पत्तिः, कृदन्तस्य प्रातिपदिक-व्युत्पत्तिः— उभयत्र साम्यम् | ततः अग्रे यदा कृदन्तप्रातिपदिकात् सुबन्तं भवति, तत्र सुबन्तप्रक्रिया पुनः भिन्ना | किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्तप्रातिपदिकनिष्पादनं, तस्य च पद्धतिः | सा च प्रक्रिया, सार्वधातुकतिङन्तप्रक्रिया च समाना, समाननिमित्तकत्वात् |
प्रथमगणसमूहः— अदन्ताङ्गस्य रूपाणि
तर्हि शानच्-प्रत्ययः इति यथा, तथा तिङन्तस्य अदन्तक्षेत्रे तादृशप्रत्ययः कः ? अङ्गम् अदन्तम् अस्ति चेत्, आने मुक् (७.२.८२) इत्यनेन मुक्-आगमो भवति— मुक् + आन → मान | अनेन हलाद्यपित् प्रत्ययो भवति | तिङन्तस्य आत्मनेपदस्य अदन्तक्षेत्रे 'ते'-प्रत्ययः अपि तथा हलाद्यपित् | अतः ते-प्रत्यये परे यत् कार्यं भवति, तदेव कार्यं भवति मान-प्रत्यये परे |
सङ्क्षेपे एधते → ते-स्थाने मान → एधमान | सुबन्तप्रक्रियायाम् एधमानः, एधमाना, एधमानम् |
आने मुक् (७.२.८२) = अदन्ताङ्गस्य मुक्-आगमो भवति आन-प्रत्यये परे | आने सप्तम्यन्तं, मुक् प्रथमान्तं, द्विपदमिदं सूत्रम् | अतो येयः (७.२.८०) इत्यस्मात् अतः इति विपरिणामेन षष्ठ्यन्त्म् अनुवर्तते | अङ्गस्य (६.४,१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य मुक् आने |
कित्त्वात् आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अदन्ताङ्गस्य अन्ते विधीयते | तत्र प्रक्रियायाः सौकर्यार्थं प्रत्ययस्य आदौ स्थापयामः |
भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च धातुविकरणप्रत्ययोः संयोगजनेन निष्पन्नम् अङ्गम् अदन्तम् | अतः एषु चतुर्षु धातुगणेषु समानचिन्तनम् |
भ्वादौ
वृधु + शप् → वर्ध इति अदन्तम् अङ्गम् → वर्ध + मान → वर्धमान | वर्धमानः, वर्धमाना, वर्धमानम् |
दिवादौ
जनी + श्यन् → जन् + य → ज्ञाजनोर्जा (७.३.७९) इत्यनेन शिति परे धात्वादेशः → जा + य → जाय इति अदन्तम् अङ्गम् → जाय + मान → जायमान | जायमानः, जायमाना, जायमानम् |
तुदादौ
ओलस्जी + श → लस्ज् + अ → स्तोः श्चुना श्चुः (८.४.४०) → लश्ज् + अ → झलां जश् झशि (८.४.५३) → लज्ज् + → लज्ज इति अङ्गम् → लज्ज + मान → लज्जमान | लज्जमानः, लज्जमाना, लज्जमानम् |
चुरादौ
चुर + णिच् → चुर् + इ → चोरि इति धातुः → चोरि + शप् → चोरय इति अङ्गम् → चोरय + मान → चोरयमाण | चोरयमाणः, चोरयमाणा, चोरयमाणम् |
द्वितीयगणसमूहः — अनदन्ताङ्गस्य रूपाणि
अत्र अङ्गम् अदन्तं नास्ति अतः आने मुक् न भवति |
आने मुक् (७.२.८२) = अदन्ताङ्गस्य मुक्-आगमो भवति आन-प्रत्यये परे |
तर्हि शानच्-प्रत्ययस्य अनुबन्धलोपे 'आन' इति | मुक्-आगमः च अत्र नास्ति, आन इत्येव तिष्ठति |
शानच् अजाद्यपित् सार्वधातुकः | अत्र शानच् इति यथा, तथा तिङन्तस्य अनदन्तक्षेत्रे तादृशप्रत्ययः कः ? 'आते', लटि प्रथमपुरुषस्य द्विवचने यः प्रत्ययः | आते इति प्रत्ययः अजाद्यपित्, आन अपि तथा | प्रक्रिया न आते-प्रत्ययस्य, न वा आन-प्रत्ययस्य; प्रक्रिया अचि अपित् इत्यस्य— अजाद्यपित् इत्यस्य | यस्मात् यस्मात् धातोः, आते-प्रत्यये परे यथा कार्यं भवति यथा च रूपं निष्पन्नं, तथैव शानजन्तरूपमपि निष्पद्यते |
तर्हि अङ्गम् अनदन्तम् कुत्र ? स्वादिगणे, तनादिगणे, क्र्यादिगणे, रुधादिगणे, अदादिगणे, जुहोत्यागणे च |
स्वादौ—
चिनु + आते → चिन्वाते
चिनु + आन → चिन्वान | चिन्वानः, चिन्वाना, चिन्वानम् |
हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके |
तनादौ—
तनु + आते → तन्वाते
तनु + आन → तन्वान | तन्वानः, तन्वाना, तन्वानम् |
इको यणचि (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे अकः सवर्णे दीर्घः इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
क्र्यादौ—
क्रीणा + आते → क्रीणाते
क्रीणा + आन → क्रीणान | क्रीणानः, क्रीणाना, क्रीणानम् |
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | श्नसोरल्लोपः (६.४.१११) इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके |
रुधादौ—
रुन्ध् + आते → रुन्धाते
रुन्ध् + आन → रुन्धान | रुन्धानः, रुन्धाना, रुन्धानम् |
अदादौ—
[शीङ् स्वप्ने इति धातुः]
शी + आते → शे + आते → श् + अय् + आते → शयाते
शी + आन → शे + आन → श् + अय् + आन → शयान | शयानः, शयाना, शयानम् |
शीङः सार्वधातुके गुणः (७.४.२१) = शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शीङः अङ्गस्य गुणः सार्वधातुके |
जुहोत्यादौ—
दा + आते → ददा + आते → ददाते
दा + आन → ददा + आन → ददान | ददानः, ददाना, ददानम् |
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके |
अतः यया प्रक्रियया आते विधीयते तया एव प्रक्रियया आन अपि विधीयते | सर्वत्र कार्यं समानम् एव | किमर्थं तथा ? यतोहि प्रक्रिया न आते पश्यति, न वा आन; प्रक्रिया अजाद्यपित् सार्वधातुकप्रत्ययम् एव पश्यति | प्रक्रियायाः निमित्तं तदेव अस्ति अजाद्यपित् सार्वधातुकः |
केवलम् एकं विशिष्टं सूत्रं भवति ईदासः (७.२.८३), यस्य कार्यं केवलं शानच्-प्रत्यये परे एव भवति | आस्-धातोः यदा शानजनरूपं निष्पद्यते, तदा 'आन' इत्यस्य स्थाने 'ईन' भवति, आस् + आन → आस् + ईन → आसीन | लटि आस्ते आसाते, किन्तु शानच्-प्रत्यये आसीन | एकमात्रः अपवादः |
ईदासः (७.२.८३) = आस उत्तरस्यानशब्दस्य ईकारादेशो भवति | आदेः परस्य (१.१.५४) इति परिभाषासूत्रेण परस्य कार्यम् आदेः अलः इति कृत्वा ईकारादेशः सम्पूर्ण-आन-प्रत्ययस्य स्थाने न अपि तु आदिमवर्णस्य आकारस्य स्थाने | ईत् प्रथमान्तम्, आसः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आने मुक् (७.२.८२) इत्यस्मात् आने इत्यस्य अनुवृत्तिः; विभक्ति-विपरिणामेन षष्ठ्यन्तं आनस्य | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— आसः अङ्गात् आनस्य ईत् |
अनेन सर्वाणि शानजन्तरूपाणि निष्पन्नानि |
धेयं यत् तदानीं सार्वधातुकप्रक्रिया प्रवर्तनीया भवति यदा कर्त्रर्थकः सार्वधातुकप्रत्ययः परो भवति | तत्र च सार्वधातुकप्रक्रियायाः लक्षणम् इदं यत् धातुभ्यः कर्त्रर्थक-सार्वधातुकप्रत्यये परे कर्तरि शप् (३.१.६८) इत्यनेन शप् विधीयते, तत्तद्धातुगणम् अनुसृत्य च शपं प्रबाध्य विकरणप्रत्ययो विधीयते |
अधुना शानच् प्रत्ययः न केवलं कर्त्रर्थे भवति अपि तु विवक्षानुगुण्येन कर्मण्यर्थेऽपि भवति | कर्मण्यर्थे सति कर्तरि शप् (३.१.६८) इत्यनेन शप् न भवति, तदर्थं च धातुगणानुगुण्येन अन्ये विकरणप्रत्ययाः अपि न विधीयन्ते, अपि तु सार्वधातुके यक् (६.१.६७) इत्यनेन यक् एव भवति | सर्वेषां धातूनां यक् एव भवति | भ्वादौ पा-धातोः कर्त्रर्थे पिबति किन्तु कर्मणि शानचि पीयमानः, तथैव जुहोत्यादौ दा-धातोः ददाति किन्तु दीयमानः, क्र्यादौ च क्रीणाति किन्तु क्रीयमाणः | अनेन विस्पष्टं भवति यत् कर्त्रर्थे सार्वधातुकप्रक्रियावशात् धातुगणम् अनुसृत्य रूपभेदः (पिबति, ददाति, क्रीणाति) किन्तु कार्मणि शानचि आर्धधातुकप्रक्रियावशत् धातुगणम् अनुसृत्य रूपभेदो नास्ति (पीयमानः, दीयमानः, क्रीयमाणः) | सर्वेभ्यः धातुभ्यः यक् भवति यदा, तदा प्रत्ययः कर्मण्यर्थे अस्ति, तदर्थं च कर्तरि शप् (३.१.६८) न भवति, सार्वधातुकप्रक्रिया च न भवति |
शतृ
शतृ-प्रत्ययः कर्त्रर्थकः, शित्त्वात् सार्वधातुकः च | एतस्मात् सार्वधातुकप्रक्रिया अत्र भवति | अयं शतृ-प्रत्ययः अनुबन्धलोपे अत्, अजाद्यपित् | तिङन्तक्षेत्रे कर्त्रर्थक-सार्वधातुक-प्रत्ययं निमित्तीकृत्य यत् कार्यं भवति, तदेव कार्यम् अत्रापि भवति | नाम, शपः विधानम् |
वद् + अत् → कर्तरि शप् (३.१.६८) → वद् + शप् + अत् → वद् + अ + अत् → वद + अत्
गणम् अनुसृत्य शपं प्रबाध्य विभिन्न-विकरणप्रत्ययाः विधीयन्ते |
ततः अग्रे शतृ-प्रत्ययः अजाद्यपित् इति कारणेन अङ्ग-अजाद्यपित्प्रत्यययोः संयोजनं यथा भवति तिङन्तक्षेत्रे, तथैव अत्रापि कार्यं समानम् | शतृ अजाद्यपित्; परस्मैपदतिङन्तक्षेत्रे तादृशप्रत्ययः कः ? लट्-लकरस्य 'अन्ति' इति प्रत्ययः समानः अजाद्यपित् | अतः अन्ति-प्रत्यये परे यत् कार्यं भवति, तदेव कार्यम् अत्-प्रत्यये परे भवति | शतृ-प्रत्ययः कृत्-प्रत्ययः, झि-स्थाने अन्ति-अति प्रत्ययौ तिङौ, अयं भेदः (कृत्-तिङ् इत्यनयोः) अस्यां प्रक्रियायां नास्ति | अत्, अति, अन्ति— इमे प्रत्ययाः प्रक्रियादृष्ट्या सर्वे समानाः | येन विधिना अति अन्ति च संयुज्येते, तेन एव विधिना अत् अपि | मुख्यम् अस्ति अजाद्यपिति किं कार्यम् इति |
यथा भ्वादिगणे नी-धातोः अङ्गं नय | नय + अन्ति → अतो गुणे (६.१.९७) इत्यनेन पररूपादेशः → नयन्ति | एवमेव नय + अत् → अतो गुणे (६.१.९७) → नयत् इति प्रातिपदिकम् |
अतो गुणे (६.१.९७) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम् | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् |
प्रथमगणसमूहः — अदन्ताङ्गस्य रूपाणि
प्रथमगणसमूहे चत्वारः धातुगणाः सन्ति, तेषां च प्रातिपदिकं यथा लट्-लकारस्य प्रथमपुरुषबहुवचनातरूपं निष्पद्यते, तद्वत् अत्रापि कार्यं समानम्—
भ्वादौ
भू + अत् → भू + शप् + अत् → भू + अ + अत् → भव + अत् → अतो गुणे (६.१.९७) → भवत्
दिवादौ
नृत् + अत् → नृत् + श्यन् + अत् → नृत् + य + अत् → नृत्य + अत् → अतो गुणे (६.१.९७) → नृत्यत्
तुदादौ
लिख् + अत् → लिख् + श + अत् → लिख + अत् → अतो गुणे (६.१.९७) → लिखत्
चुरादौ
चुर् + णिच् → चोरि → चोरि + शप् + अत् → चोरय + अत् → अतो गुणे (६.१.९७) → चोरयत्
अनेन पुंलिङ्गे नपुंसके च शत्रन्तप्रातिपदिकचिन्तनं सिध्यति परिसमाप्यते च | स्त्रीप्रातिपदिकम् अग्रे उच्यते, तच्च रूपं नपुंसकलिङ्गस्य सुबन्तचिन्तनावसरे एवेमेव सिध्यति; किमर्थमिति अग्रे वक्ष्यमाणम् |
अधुना नुमागमस्य चिन्तनम् अपेक्षितम् | यद्यपि पुंसि नपुंसके च नुमागमस्य चिन्तनं सार्वधातुकप्रक्रियायाः भागो नास्ति अपि तु सुबन्तप्रक्रियायाः, किन्तु शत्रन्तरूपस्य सम्यक् बोधनार्थम् अस्मिन् अपि चिन्तनम् अतीव व्यावहारिकम् |
नुमागमचिन्तनम्
शत्रन्तप्रसङ्गे नुमागमस्य बोधनार्थं पञ्च सूत्राणि आवश्यकानि | तेषु त्रीणि प्रयुज्यन्ते यत्र अङ्गम् अदन्तम् अस्ति |
शत्रन्तानां नुम्-आगम-व्यवस्था
शत्रन्तानां कृते पञ्च नुम्-विधायक-सूत्राणि—
उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) = धातुभिन्न-उगितः नुमागमो भवति सर्वनामस्थानसंज्ञक-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अधातोः उगिदचाम् अङ्गानां नुम् सर्वनामस्थाने |
नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति 'सर्वनामस्थाने' | अनुवृत्ति-सहितसूत्रम्— न अभ्यस्तात् अङ्गात् शतुः नुम् |
नपुंसकस्य झलचः (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्— नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने |
वा नपुंसकस्य (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्-आगमो भवति | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने |
आच्छीनद्योर्नुम् (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— आत् अङ्गात् शतुः वा नुम् शीनद्योः |
शप्श्यनोर्नित्यम् (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः |
शत्रन्तानां नुमागमचिन्तनं त्रिषु भागेषु विभज्यते— अदन्ताङ्गम्, अभ्यस्तसंज्ञक-अनदन्ताङ्गम्, अनभ्यस्तसंज्ञक-अनदन्ताङ्गम् | प्रथमतया अदन्ताङ्गस्य चिन्तनं कुर्मः | अदन्ताङ्गं कुत्र भवति ? भ्वादौ, दिवादौ, तुदादौ, चुरादौ च | उपरि एषां धातुगणानां शत्रन्तानां प्रातिपदिकरूपं प्रदर्शितम् |
अदन्ताङ्गस्य शत्रन्तप्रातिपदिकस्य नुमागमचिन्तन्तम्
अधुना क्रमेण पुंलिङ्गे, नपुंसके, स्त्रियां च पश्येम कुत्र कुत्र नुमागमो भवति |
पुंलिङ्गे
उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) = धातुभिन्न-उगितः नुमागमो भवति सर्वनामस्थानसंज्ञक-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अधातोः उगिदचाम् अङ्गानां नुम् सर्वनामस्थाने |
पुंलिङ्गे सर्वनामस्थान-संज्ञक-सुप्-प्रत्ययाः पञ्च सन्ति— सु इत्यस्मात् आरभ्य औट् इति यावत् |
सु औ जस्
अम् औट् शस्
सुडनपुंसकस्य (१.१.४३) = सुट्-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न |
उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन अङ्गम् अदन्तम् अथवा अनदन्तम् अनयोः मध्ये एकं भवेत् इति तादृशं किमपि नोक्तम्, अतः सर्वनामस्थाने परे उभयत्र अदन्ते अनदन्ते च नुनागमः | अनेन दशानाम् अपि धातुगणानां सर्वनामस्थाने परे नुनागमः भवति स्म | किन्तु अग्रे नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकानां नुमागमनिषेधः अतः येषाम् अभ्यस्तसंज्ञा भवति तेषाम् अत्र नुमागमो न भवति; तान् धातून् विहाय सर्वेषां नुमामो भवति— नवानां धातुगणानां पुंलिङ्गस्य सर्वनामस्थाने नुमागमः | अस्य कथनेन अदन्ताङ्गानामपि ग्रहणम् |
भ्वादौ— भवन् भवन्तौ भवन्तः भवन्तम् भवन्तौ
दिवादौ— नृत्यन् नृत्यन्तौ नृत्यन्तः नृत्यन्तम् नृत्यन्तौ
तुदादौ— लिखन् लिखन्तौ लिखन्तः लिखन्तम् लिखन्तौ
चुरादौ— चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तम् चोरयन्तौ
ततः अग्रे अवशिष्टानां विभक्त्यन्तरूपाणां साधनार्थं न कुत्रापि नुमागमः; अत्र प्रातिपदिकं च सुप्-प्रत्ययस्य च संयोजनार्थं केवलं सन्धिकार्यं भवति |
सु औ जस् भवन् भवन्तौ भवन्तः
अम् औट् शस् भवन्तम् भवन्तौ भवतः
टा भ्याम् भिस् भवता भवद्भ्याम् भवद्भिः
ङे भ्याम् भ्यस् भवते भवद्भ्याम् भवद्भ्यः
ङसि भ्याम् भ्यस् भवतः भवद्भ्याम् भवद्भ्यः
ङस् ओस् आम् भवतः भवतोः भवाम्
ङि ओस् सुप् भवति भवतोः भवत्सु
नपुंसकलिङ्गे
नपुंसकलिङ्गे सुप्-प्रत्ययाः—
शून्यं शी शि
शून्यं शी शि
[ततः अग्रे पुंलिङ्गे यथा, तथा]
नपुंसकाच्च (७.१.१९) = नपुंसकात् अङ्गात् औ-प्रत्ययस्य स्थाने शी-आदेशो भवति |
जश्शसोः शिः (७.१.२०) = नपुंसकात् अङ्गात् जस्, शस् इत्यनयोः स्थाने शि-आदेशो भवति |
शि सर्वनामस्थानम् (१.१.४२) = शि इति आदेशस्य सर्वनामसंज्ञा भवति |
अयं शि-प्रत्ययः बहुवचनस्य प्रथमाविभक्तौ द्वितीयाविभक्तौ च भवति | शि सर्वनामस्थानम् (१.१.४२) इत्यनेन सर्वनामस्थानसंज्ञकः च | आहत्य सप्त सर्वनामस्थानसंज्ञकप्रत्ययाः सन्ति— पुंलिङ्गे पञ्च (सु, औ, जस्, अम्, औट्), नपुंशकलिङ्गे द्वौ शि-प्रत्ययौ च |
नपुंसकस्य झलचः (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्— नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने |
अतः यथा पुंलिङ्गे सर्वनामस्थानसंज्ञक-प्रत्ययानां कार्यम्, अत्रापि तथैव | नपुंसकस्य झलचः (७.१.७२) इत्यनेन अङ्गम् अदन्तम् वा अनदन्तं वा, उभयत्र अदन्तस्य अनदन्तस्य च सर्वनामस्थाने परे नुमागमः | पुंलिङ्गस्य इव, नपुंसकलिङ्गस्य अपि स्थितिः समाना— सर्वनामस्थाने परे नुमागमः |
द्विवचने शी-प्रत्ययः सर्वनामस्थानसंज्ञकः नास्ति, अतः नपुंसकस्य झलचः (७.१.७२) इति सूत्रेण नुमागमो न भवति | किन्तु सूत्रद्वयेन शी-प्रत्यये परे नुमागमस्य विधानम्—
१. भ्वादौ, दिवादौ, चुरादौ
शप्श्यनोर्नित्यम् (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः |
सूत्रे 'शप्' इत्यस्य कथनेन भ्वादिगणस्य धातवः चुरादिगणस्य धातवः च; श्यन् इत्यनेन दिवादिगणस्य धातवः | अतः भ्वादौ, दिवादौ, चुरादौ च नपुंसकलिङ्गस्य शी-प्रत्यये परे नुमागमो भवति |
आहत्य रूपाणि एतादृशानि—
भ्वादिगणे पचत् पचन्ती पचन्ति प्रथमाविभक्तिः, द्वितीयाविभक्तिः च
दिवादिगणे नृत्यत् नृत्यन्ती नृत्यन्ति प्रथमाविभक्तिः, द्वितीयाविभक्तिः च
चुरादिगणे चोरयत् चोरयन्ती चोरयन्ति प्रथमाविभक्तिः, द्वितीयाविभक्तिः च
प्रथमाविभक्तौ पचत् मित्रम् पचन्ती मित्रे पचन्ति मित्राणि
द्वितीयाविभक्तौ पचत् मित्रम् पचन्ती मित्रे पचन्ति मित्राणि
अतः गच्छत् गच्छन्ती गच्छन्ति | प्रथमाविभक्तौ द्वितीयाविभक्तौ च | ततः अग्रे नुमागमः न कुत्रापि; केवलं सन्धिकार्यं गच्छता, गच्छद्भ्याम् गच्छद्भिः इत्यादिकम् | तृतीयविभक्तिः इत्यस्मात् सप्तमीविभक्ति-पर्यन्तं पुंलिङ्गशब्दवत् |
२. तुदादौ
द्वितीयं सूत्रम् अस्ति—
आच्छीनद्योर्नुम् (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— आत् अङ्गात् शतुः वा नुम् शीनद्योः |
अनेन अवर्णात् अङ्गात् विकल्पेन नुम् आगमः | किन्तु शप्श्यनोर्नित्यम् (७.१.८१) इत्यनेन शपि श्यनि च नित्यं नुमागमः, अतः अवशिष्टम् अस्ति केवलं श इति विकरणप्रत्ययः, नाम तुदादिगणः |
अतः शप्श्यन् अतिरिच्य यत् अवर्णान्तम् अङ्गं, तस्य विकल्पेन नुमागमः शी-प्रत्यये परे नदी-प्रत्यये परे च |
लिखत् लिखती/लिखन्ती लिखन्ति इति तुदादिगणस्य धातवः
धेयं यत् अनेन सूत्रेण 'आत्' इत्यनेन अवर्णात्, न तु ह्रस्वाकारात् | अवर्णात् इत्यनेन दीर्घ-आकारात् इत्यस्यापि ग्रहणम् | ततः अदादिगणे चतुर्दश आकारान्तधातवः सन्ति येषाम् अपि शी-प्रत्यये परे नुमागमो भवति | अनदन्ताङ्गस्य कर्यमिदं, किन्तु अत्र सौकर्यार्थं प्रदर्श्यते—
यात् याती/यान्ती यान्ति इति अदादिगणस्य चतुर्दश आकारान्तधातवः |
या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा एतेषां धातूनाम् अपि नुमागमो भवति शी-प्रत्यये परे |
स्त्रीलिङ्गे
अत्र धेयं यत् नपुंसकलिङ्गे नुम्-विधायकसूत्रे द्वे स्तः— शप्श्यनोर्नित्यम् (७.१.८१), आच्छीनद्योर्नुम् (७.१.८०) | उभयत्र निमित्तम् अस्ति शीनद्योः— शी च नदी च, अनयोः | अयं नदी-संज्ञा स्त्रीप्रत्ययस्य | अनेन सूत्रेण अस्माकं महत् सौकर्यं भवति यतोहि यत्र नपुंसकलिङ्गस्य द्विवचने नुमागमो भवति, तत्र स्त्रियां प्रातिपदिकस्यापि नुमागमो भवति | अपि च द्वयोः रूपं समानम् | सर्वत्र समानम् |
अतः नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ 'पचन्ती' इति रूपं, तदेव रूपं शत्रन्तस्य स्त्री-प्रातिपदिकम् अपि भवति | अयं सिद्धान्तः सङ्गच्छते सर्वेषु स्थलेषु— अदन्ताङ्गेषु, अनदन्ताङ्गेषु, अभस्तसंज्ञकेषु च | सर्वत्र नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ यत् रूपं, तदेव रूपं स्त्रीप्रातिपदिकम् |
तर्हि भ्वादिगणे 'पचन्ती' नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ अपि अस्ति, स्त्रीप्रातिपदिकमपि अस्ति | तथैव नृत्यन्ती इति शत्रन्तस्य स्त्रीप्रातिपदिकं दिवादिगणे, चोरयन्ती इति शत्रन्तस्य स्त्रीप्रातिपदिकं चुरादिगणे | यतोहि
सूत्रे 'शीनद्योः' इति उक्तम् | शी-प्रत्यये परे यत् कार्यं, तदेव कार्यं नदी-प्रत्यये परेऽपि | अनेन अग्रे गत्वाऽपि कुत्रापि पृथक्तया स्त्रीरूपं न निष्पादनीयम् | नपुंस्कलिङ्गस्य द्विवचने रूपं यत्, तदेव स्त्रीप्रातिपदिकं सर्वत्र | तदर्थं शत्रन्तानां कृते केवलं पुंलिङ्गे नपुंसकलिङ्गे च रूपाणि साधनीयानि| स्त्रियां रूपाणि एवमेव भवन्ति तस्मिन् क्रमे | अपि च एकवारं स्त्रीप्रातिपदिकम् आगतं, ततः अग्रे सुबन्तरूपाणि नदी-शब्दवत्—
भ्वादिगणे, दिवादिगणे, चुरादिगणे—
पचन्ती पचन्त्यौ पचन्त्यः
पचन्तीम् पचन्त्यौ पचन्तीः
पचन्त्या पचन्तीभ्याम् पचन्तीभिः
पचन्त्यै पचन्तीभ्याम् पचन्तीभ्यः
पचन्त्याः पचन्तीभ्याम् पचन्तीभ्यः
पचन्त्याः पचन्त्योः पचन्तीनाम्
पचन्त्याम् पचन्त्योः पचन्तीषु
तुदादिगणे नपुंसकलिङ्गस्य द्विवचने यत् रूपं, तदेव पुनः स्त्रीप्रातिपदिं भवति | तुदादौ नपुंसकलिङ्गस्य द्विवचने नुमागमः वैकल्पिकः | अतः स्त्रियाम् अपि तथा—
लिखती/लिखन्ती लिखत्यौ/लिखन्त्यौ लिखत्यः/लिखन्त्यः
लिखतीम्/लिखन्तीम् लिखत्यौ/लिखन्त्यौ लिखतीः/लिखन्तीः
ततः अग्रे नदी-शब्दवत्
इति प्रथमगणसमूहे नुमागमचिन्तन्तं समाप्तम् |
द्वितीयगणसमूहः — अनदन्ताङ्गस्य रूपाणि
द्वितीयगणसमूहे शत्रन्तप्रातिपदिकम्
द्वितीयगणसमूहे षड् धातुगणाः सन्ति, तेषां च प्रातिपदिकं यथा लट्-लकारस्य प्रथमपुरुषबहुवचनान्तरूपं निष्पद्यते, तद्वत् अत्रापि कार्यं समानम् | किमर्थम् इति चेत्, शतृ-प्रत्ययः अपि अजाद्यपित्, अति/अन्ति अपि अजाद्यपित् | अतः कार्यम् एतादृशम्—
प्रातिपदिकनिर्माणविधिः
सङ्क्षेपे यथा अति/अन्ति इत्यस्य कार्यं, तथैव अत् इत्यस्यापि | अतः अति/अन्ति इत्यनयोः स्थाने अत् स्थाप्यते चेत् रूपं सिध्यति—
अदादिगणे सन्ति → सत्
जुहोत्यादिगणे ददति → ददत्
स्वादिगणे चिन्वन्ति → चिन्वत्
रुधादिगणे रुन्धन्ति → रुन्धत्
तनादिगणे कुर्वन्ति → कुर्वत्
क्र्यादिगणे क्रीणन्ति → क्रीणत्
शास्त्रीयक्रमः तिङन्तप्रसङ्गे आसीत् यथा, तथैव शत्रन्तस्यापि यतोहि 'अजादिः अपित्' इति प्रक्रिया समाना—
अदादिगणे
वा + अत् → कर्तरि शप् (३.१.६८) → अदिप्रभृतिभ्यः शपः (२.४.७२) → वा + अत् → अकः सवर्णे दीर्घः (६.१.१०१) → वात्
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे |
अदिप्रभृतिभ्यः शपः (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति |
अस् + अत् → अपित्सु श्नसोरल्लोपः (६.४.१११) इत्यनेन अस्-धातोः अकार-लोपः → स् + अत् → सत्
श्नसोरल्लोपः (६.४.१११) = श्नम्-प्रत्ययस्य अपि च अस्-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे |
जुहोत्यादिगणे
डुदाञ् → दा + अत् → कर्तरि शप् (३.१.६८) → जुहोत्यादिभ्यः श्लुः (२.४.७५)→ श्लौ (६.१.१०) इत्यनेन द्वित्वम् → दादा → ह्रस्वः (७.४.५९) इत्यनेन अभ्यासय ह्रस्वत्वम् → ददा इत्यङ्गम् → ददा + अत् → अजाद्यपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकार-लोपः → ददा + अत् → दद् + अत् → ददत्
जुहोत्यादिभ्यः श्लुः (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य श्लु भवति |
श्लौ (६.१.१०) = श्लौ परे धातोः द्वित्वं भवति |
ह्रस्वः (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् |
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके |
स्वादिगणे
हलन्तधातूनां कार्यम्—
शक् + श्नु + अत् → शक्नु + अत् → अपित्सु गुण-निषेधः → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्-आदेशः → शक्न् + उव् + अत् → शक्नुवत्
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे |
अजन्तधातूनां कार्यम्—
चि + श्नु + अत् → चिनु + अत् → अपित्सु गुण-निषेधः → अजाद्यपित्सु हुश्नुवोः सार्वधातुके (६.४.८७) इत्यनेन यण्-आदेशः → चिन् + व् + अत् → चिन्वत्
हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे |
रुधादिगणे
रुधिर् → रुध् + श्नम् + अत् → मिदचोऽन्त्यात्परः (१.१.४७) → रुनध् → श्नसोरल्लोपः (६.४.१११) → रुन्ध् इत्यङ्गम् → रुन्ध् + अत् → रुन्धत्
रुधादिभ्यः श्नम् (३.१.७८) = रुधादिगणे पठितेभ्यः धातुभ्यः श्नम्-प्रत्ययो भवति, कर्त्रर्थके सार्वधातुकप्रत्यये परे |
मिदचोऽन्त्यात्परः (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति |
श्नसोरल्लोपः (६.४.१११) = श्नम्-प्रत्ययस्य अपि च अस्-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे |
तनादिगणे
तन् + उ + अत् → तनु + अत् → अपित्सु गुण-निषेधः → अजाद्यपित्सु इको यणचि (६.१.७७) इत्यनेन यण्-आदेशः → तन् + व् + अत् → तन्वत्
कृ + उ + अत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इकः गुणः → कर् + उ → करु → अत उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम् → कुरु + अत् → इको यणचि (६.१.७७) इत्यनेन यण्-आदेशः → कुर्वत्
अत उत्सार्वधातुके (६.४.११०) = उप्रत्ययान्तकृ-धातोः ह्रस्व-अकारस्य स्थाने उकारादेशो भवति किति ङिति सार्वधातुक-प्रत्यये परे |
क्र्यादिगणे
क्री + श्ना + अत् → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वम् → क्रीणा इति अङ्गम् → क्रीणा + अत् → श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकार-लोपः → क्रीण् + अत् → क्रीणत्
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके |
ग्रह् + श्ना = ग् + र् + अ + ह् + श्ना → ग्रहि ज्या (३.१.१३) इत्यनेन सम्प्रसारणम् (र् -> ऋ, अकारस्य पूर्वरूपादेशः) → ग् + ऋ + ह् + ना → गृह् + ना → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वम् → गृह्णा इति अङ्गम् → गृह्णा + अत् → श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकार-लोपः → गृह्ण् + अत् → गृह्णत्
द्वितीयगणसमूहे नुमागमचिन्तनम्
अत्र अनदन्तेषु पुनः विभागद्वयम्— अभ्यस्तम्, अनभ्यस्तं च |
सर्वप्रथमम् अस्माकं पञ्च नुमागमविधायकसूत्राणि कानि; एषु पञ्चसु च केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तम् अस्ति | तत्र च अभ्यस्तम् अनदन्तम् अङ्गम् इति चेत् केषां प्रसक्तिः, अनभ्यस्तम् अनदन्तम् अङ्गम् इति चेत् केषां प्रसक्तिः |
उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) = धातुभिन्न-उगितः नुमागमो भवति सर्वनामस्थानसंज्ञक-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अधातोः उगिदचाम् अङ्गानां नुम् सर्वनामस्थाने |
नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति 'सर्वनामस्थाने' | अनुवृत्ति-सहितसूत्रम्— न अभ्यस्तात् अङ्गात् शतुः नुम् |
वा नपुंसकस्य (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्-आगमो भवति | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने |
आच्छीनद्योर्नुम् (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— आत् अङ्गात् शतुः वा नुम् शीनद्योः |
शप्श्यनोर्नित्यम् (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्— शप्श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनद्योः |
१. एषु पञ्चसु केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तम् ?
२. यत्र अङ्गम् अभ्यस्तम् अनदन्तम् ?
३. यत्र अङ्गम् अनभ्यस्तम् अनदन्तम् ?
अभ्यस्तम् अनदन्तम् अङ्गम्
पुंलिङ्गे
नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अस्य च सूत्रस्य निमित्तम् अस्ति 'सर्वनामस्थाने', उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यस्मात् | अनुवृत्ति-सहितसूत्रम्— न अभ्यस्तात् अङात् शतुः नुम् |
अनेन जुहोत्यादिगणे अत्र नुमागमो न भवति |
ददत् ददतौ ददतः
ददतं ददतौ ददतः
अत्र अस्माभिः स्मर्तव्यं यत् सूत्रे 'जुहोत्यादिगणीयधातुभ्यः' नुम् न भवति इति नोक्तम्; 'अभ्यस्तसंज्ञकात्' इत्येव उक्तम् | तर्हि अभ्यस्तसंज्ञकात् इत्यस्य कथनेन केषां केषां ग्रहणम् इति एकवारं चिन्तनीयम् | यतोहि समग्रं चिन्तनम् इति लक्ष्यं चेत्, केषाम् अभ्यस्तसंज्ञा भवति इति ज्ञेयम् |
जक्षित्यादयः षट् (६.१.६)
लिटि धातोरनभ्यासस्य (६.१.८)
सन्यङोः (६.१.९)
शलौ (६.१.१०)
चङि (६.१.११)
एषु एव स्थलेषु अभस्तसंज्ञा भवति— अदादिगणे सप्तधातवः (जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ्), लिट्-लकारे, सनन्तरूपेषु, यङन्तरूपेषु, यङ्-लुगन्तरूपेषु, जुहोत्यादिगणे, लुङ्-लकारे च | चङ् इति विकरणप्रत्ययः लुङि इत्यस्मात् 'चङ्' इत्यस्य कथनेन लुङ्-लकारस्य ग्रहणम् | तर्हि एषां मध्ये कुत्र कुत्र नाभ्यस्ताच्छतुः (७.१.७८) इत्यस्य प्रसक्तिः ? प्रथमतया चिन्तनीयं केषु केषु प्रसङ्गेषु शत्रन्तरूपं सम्भवति |
'शत्रन्तम्' इत्यस्य कथनेन सुबन्तम् एव न तु तिङन्तम् | अतः यत्र यत्र तिङन्तमेव भवति, तत्र तत्र शतृ-प्रत्ययः न विधीयते एव | लिट्-लकारः, लुङ्-लकारः चेत्यनयोः लकारत्वात् नित्यं तिङन्तम्, अतः तत्र शतृ न भवति | अवशिष्यते अदादिगणस्य सप्त धातवः, सनन्ताः, यङन्ताः, यङ्-लुगन्ताः, जुहोत्यादिगणीयधातवः च | एते सर्वे धातवः एव, अतः तेभ्यः सर्वेभ्यः तिङ्-प्रत्ययाः अपि कृत्-प्रत्ययाः अपि विधीयन्ते |
सनन्तान् अवलोकयामः | यः धातुः सनन्तः, सः आतिदेशिकधातुः | औपदेशिकधातुभ्यः आतिदेशिकधातवः निर्मीयन्ते | गमॢ इति औपदेशिकधातुं दृष्टान्तत्वेन स्वीकुर्मः |
गमॢ + सन् → अनुबन्धलोपे → गम् + स → सन्यङोः (६.१.९), एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन द्वित्वम् → गम् + गम् + स → हलादि शेषः (७.४.६०) → ग + गम् + स → कुहोश्चुः (७.४.६२) → ज + गम् + स → सन्यतः (७.४.७९) इत्यनेन सन्-विशिष्ट-अभ्यासकार्येण अभ्यासस्य अन्तिम-अकारस्य स्थाने इकारादेशः → जि + गम् + स → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति → जि + गम् + इ + स → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्-प्रत्याहारात् अपदान्त-प्रत्ययावयव-सकारस्य षत्वम् → जिगमिष इति आतिदेशिकधातुः |
जिगमिष + शतृ → जिगमिष + अत्
नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति 'सर्वनामस्थाने' | अनुवृत्ति-सहितसूत्रम्— न अभ्यस्तात् अङ्गात् शतुः नुम् |
अत्र तस्मादित्युत्तरस्य (१.१.६७) इत्यनेन 'न अभ्यस्तात्' इत्यस्य पञ्चमीविभक्त्या शतृ-प्रत्ययः साक्षात् अनन्तरं भवेत् | किन्तु अत्र तथा नास्ति, यतोहि अभ्यस्तसंज्ञक-'जिगम्', शतृ-प्रत्ययः चेत्यनयोः मध्ये इडागमसहित-सन्-प्रत्ययः अस्ति | तदर्थं यद्यपि कश्चन अभ्यस्तसंज्ञक-भागः अस्ति, तथापि नाभ्यस्ताच्छतुः (७.१.७८) इति सूत्रस्य प्रसक्तिः नास्ति |
जिगमिष + शतृ → जिगमिष + अत् → कर्तरि शप् (३.१.६८) → जिगमिष + अ + अत् → अतो गुणे (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः पररूपमेकादेशः → जिगमिष + अत् → अतो गुणे (६.१.९७) → जिगमिषत् इति शत्रन्तप्रातिपदिकम् |
सर्वेभ्यः सनन्तधातुभ्यः शप् इति विकरणप्रत्ययः विधीयते, तदर्थं सनन्तधातवः भावादिकाः | जिगमिष इति अङ्गं तु अदन्तम् एव— भव, नृत्य, लिख, चोरय इति यथा, तथा |
अतः पुंलिङ्गे सर्वनामस्थानसंज्ञक-प्रत्ययेषु परेषु उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन नुमागमो भवति—
जिगमिषन् जिगमिषन्तौ जिगमिषन्तः
जिगमिषन्तम् जिगमिषन्तौ जिगमिषतः
आहत्य सनन्तप्रक्रियायां द्वित्वं यद्यपि भवति, अभ्यस्तम् अङ्गं च यद्यपि भवति, किन्तु मध्ये सन्-प्रत्ययः अस्ति इति कारणतः नुमागमः न निषिद्धः |
अग्रे यङन्ताः धातवः नित्यम् आत्मनेपदिनः इत्यस्मात् शतृ न विधीयते | अपि च यङन्ताः यदि परस्मैपदिनः अभविष्यन्, तत्र यद्यपि अभ्यस्तम् अङ्गम् अस्ति, किन्तु सन्वत् अत्रापि मध्ये यङ्-प्रत्ययः अस्ति अतः अभ्यस्तात् शतृ साक्षात् न भवति, नाभ्यस्ताच्छतुः (७.१.७८) इति सूत्रं न प्रसक्तम् |
किन्तु यङ्-लुगन्ताः परस्मैपदिधातवः भवन्ति, यङ-प्रत्ययस्य लुक् अपि भवति | अतः अभ्यस्तसंज्ञकम् अङ्गं, शतृ-प्रत्ययः इत्यनयोर्मध्ये न कापि बाधा, तदर्थम् अत्र नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन नुमागम-निषेधः |
आहत्य अदादिगणस्य सप्त धातवः, यङ्-लुगन्तधातवः, जुहोत्यादिगणीयधातवः च, एषु त्रिषु स्थलेषु नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन पुंलिङ्गे नुमागमस्य निषेधः |
नपुंसकलिङ्गे
नपुंसकलिङ्गे सुप्-प्रत्ययाः इमे—
शून्यं शी शि
शून्यं शी शि
द्विवचने नुम्-विधायकसूत्रद्वयम् अस्ति— आच्छीनद्योर्नुम् (७.१.८०), शप्श्यनोर्नित्यम् (७.१.८१) च | उभयत्र अङ्गम् अवर्णान्तम् | ददा + अत् इति स्थितौ आच्छीनद्योर्नुम् (७.१.८०) इत्यस्य प्रसक्तिः भवति स्म, किन्तु अजाद्यपित्सु श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकार-लोपः → ददा + अत् → दद् + अत् | अधुना अवर्णान्तम् अङ्गं नास्ति, वर्णमेलने ददत् | युगपत् द्वयोः सूत्रयोः प्रसक्तिः, आच्छीनद्योर्नुम् (७.१.८०) इत्यस्य परत्वात् नुमागमो किमर्थं न स्यात् इति चेत्, युगपन्नास्ति | प्रथमतया प्रातिपदिकं निष्पादनीयं, तदा एव शी इव सुप्-प्रत्ययाः विधीयन्ते | अतः द्विवचने अभ्यस्ताङ्गस्य प्रसङ्गे किमपि नुम्-विधायकसूत्रं नास्ति |
अभ्यस्तसंज्ञकस्य सर्वनामस्थाने विकल्पेन नुमागः |
वा नपुंसकस्य (७.१.७९) = नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे, अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम्-आगमो भवति | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने |
ददत् ददती ददति/ददन्ति
ददत् ददती ददति/ददन्ति
स्त्रियाम्
नपुंसकलिङ्गे, प्रथमाविभक्तेः द्विवचनान्तं यत् रूपं सुबन्तं, तदेव सदा स्त्रीलिङ्गस्य प्रातिपदिकम् अपि भवति | तस्य कारणं तु पूर्वमपि दृष्टम् | शी नदी चेति एते द्वे नुमागमनिमित्ते सदैव मिलित्वा भवतः— शीनद्योः इति | यत्र शी-प्रत्यये परे नुमागमः विधीयते, तत्र नदी-प्रत्ययोऽपि तथा | यत्र शी-प्रत्यये परे नुमागमः न विधीयते, तत्र नदी-प्रत्ययोऽपि नुमागमो नास्ति | अपि च नपुंसकलिङ्गे, प्रथमाविभक्तेः द्विवचने नुम्-विधायकसूत्रद्वयमेव भवति— आच्छीनद्योर्नुम् (७.१.८०), शप्श्यनोर्नित्यम् (७.१.८१) इति | उभयत्र अङ्गम् अवर्णान्तम् | अनेन ज्ञायते यत् यत्र अङ्गम् अवर्णान्तं, तत्र नुमागमः यथासङ्गं स्यात्; यत्र च अङ्गम् अवर्णान्तं न, तत्र नुमागमः न कदापि भवति |
अतः ददती इति प्रातिपदिकं; विभक्त्यन्तरूपाणि नदी-शब्दवत्—
ददती ददत्यौ ददत्यः
ददतीम् ददत्यौ ददतीः
ददत्या ददतीभ्याम् ददतीभिः इत्यादीनि रूपाणि सप्तसु विभक्तिषु नदी-शब्दवत् |
अत्र कश्चन प्रश्नः उदेति यत् ददती + सु इत्यादयः सुट्-प्रत्ययाः अपि च वक्ष्यमाणं कुर्वती + सु इत्यादयः सुट्-प्रत्ययाः, उभयत्र सु, औ, जस्, अम् औट् इति प्रत्ययाः स्त्रियाम् अपि सर्वनामस्थानसंज्ञकाः | अतः किमर्थं न उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन नुम् आगमो भवेत् ? अनुवृत्ति-सहितसूत्रम् अवलोकताम्— अधातोः उगिदचाम् अङ्गानां नुम् सर्वनामस्थाने | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'उगिदचाम् अङ्गानां' नाम यस्य अङ्गस्य अन्ते इत्-संज्ञक-उक् स्यात्; तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यनेन सप्तमीविभक्त्यन्तात् 'सर्वनामस्थाने' इत्यस्मात् साक्षात् पूर्वं भवेत् | अत्र तथा नास्ति यतोहि शत्रन्ताङ्गं ददत्, सुट्-प्रत्ययाः चेत्यनयोः मध्ये नदी-प्रत्ययः वर्तते | 'ददत् + नदी + सु' | अतः उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इति सूत्रस्य प्रसक्तिः एव नास्ति |
अनभ्यस्तम् अनदन्तम् अङ्गम्
पुंलिङ्गे
पुंलिङ्गे अदन्ताङ्गानाम् अनदन्ताङ्गानां च उभयत्र नुमागमो भवति; उभयत्र सिद्धान्तः समानः | यतोहि नुम्-विधायकसूत्रे 'अदन्तम्-अनदन्तं' तादृशं किमपि निमित्तं नोक्तम् |
उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | अनुवृत्ति-सहितसूत्रम्— सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम् |
सु औ जस्
अम् औट् शस्
कुर्वन् कुर्वन्तौ कुर्वन्तः
कुर्वन्तम् कुर्वन्तौ कुर्वतः
एवमेव पञ्चानाम् अनभ्यस्त-अनदन्ताङ्गानां पुंलिङ्गस्य सर्वनामस्थाने नुमागमः |
अदादिगणे - सन् सन्तौ सन्तः
स्वादिगणे - चिन्वन् चिन्वन्तौ चिन्वन्तः
रुधादिगणे - रुन्धन् रुन्धन्तौ रुन्धन्तः
तनादिगणे - कुर्वन् कुर्वन्तौ कुर्वन्तः
क्र्यादिगणे - क्रीणन् क्रीणन्तौ क्रीणन्तः
नपुंसकलिङ्गे
द्विवचने नुम्-विधायकसूत्रद्वयम् अस्ति— आच्छीनद्योर्नुम् (७.१.८०), शप्श्यनोर्नित्यम् (७.१.८१) च | उभयत्र अङ्गम् अवर्णान्तम् | अत्र अस्माकम् अङ्गम् अनदन्तम्, अतः द्विवचने नुम्-विधायकसूत्रं नास्ति |
प्रथमाविभक्तौ द्वितीयविभक्तौ द्विवचने—
अदादिगणे - सत् + शी → सती
स्वादिगणे - चिन्वत् + शी → चिन्वती
रुधादिगणे - रुन्धत् + शी → रुन्धती
तनादिगणे - कुर्वत् + शी → कुर्वती
क्र्यादिगणे - क्रीणत् + शी → क्रीणती
प्रथमाविभक्तौ द्वितीयविभक्तौ बहुवचने, नुमागमो भवति सामान्यसूत्रेण—
नपुंसकस्य झलचः (७.१.७२) = नपुंसकलिङ्गे, सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुम्-आगमो भवति | अनुवृत्ति-सहितं सूत्रम्— नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने |
अदादिगणे - सत् + शि → सन्ति
स्वादिगणे - चिन्वत् + शि → चिन्वन्ति
रुधादिगणे - रुन्धत् + शि → रुन्धन्ति
तनादिगणे - कुर्वत् + शि → कुर्वन्ति
क्र्यादिगणे - क्रीणत् + शि → क्रीणन्ति
आहत्य—
कुर्वत् कुर्वती कुर्वन्ति
कुर्वत् कुर्वती कुर्वन्ति
पञ्चसु अपि धतुगणेषु तथा—
सत् सती सन्ति
चिन्वत् चिन्वती चिन्वन्ति
रुन्धत् रुन्धती रुन्धन्ति
कुर्वत् कुर्वती कुर्वन्ति
क्रीणत् क्रीणती क्रीणन्ति
वैशिष्ट्यम् एकम् अस्ति अदादिगणे | धेयं यत् आच्छीनद्योर्नुम् (७.१.८०) इति सूत्रेण 'आत्' इत्यनेन अवर्णात्, न तु ह्रस्वाकारात् | अवर्णात् इत्यनेन दीर्घ-आकारात् इत्यस्यापि ग्रहणम् | ततः अदादिगणे चतुर्दश आकारान्तधातवः सन्ति येषाम् अपि शी-प्रत्यये परे विकल्पेन नुमागमो भवति—
यात् याती/यान्ती यान्ति
या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा इत्येषां चतुर्दशानां धातूनाम् अपि नुमागमो विकल्पेन भवति शी-प्रत्यये परे |
अदादिगणे अन्यः आकारन्तधातुः वर्तते— दरिद्रा | तस्य विकल्पेन नुम्-आगमः किमर्थं न भवति ? पूर्वं दृष्टं यत् जक्षित्यादयः षट् (६.१.६) इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा भवति | अतः अजाद्यपित्सु श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकार-लोपः → दरिद्रा + अत् → दरिद्र् + अत् → दरिद्रत् |
स्त्रियाम्
यथा पूर्वमपि अस्माभिः दृष्टं, नपुंसकलिङ्गस्य प्रथमाविभक्तौ द्विवचने यत् रूपं, तदेव रूपं स्त्रीलिङ्गस्य प्रातिपदिकम् | अत्र पञ्चसु अपि धातुगणेषु अङ्गम् अवर्णान्तं नास्ति, अतः स्त्री-प्रातिपदिके नुमागमो न कुत्रापि भवति |
अदादिगणे - सती
स्वादिगणे - चिन्वती
रुधादिगणे - रुन्धती
तनादिगणे - कुर्वती
क्र्यादिगणे - क्रीणती
कुर्वती कुर्वत्यौ कुर्वत्यः
कुर्वतीम् कुर्वत्यौ कुर्वतीः
अदादौ चतुर्दशानाम् आकारान्तधातूनाम् द्वैविध्यं भवति यथा नपुंसकलिङ्गस्य द्विवचने—
याती/यान्ती यात्यौ/यान्त्यौ यात्यः/यान्त्यः
इति शतृशानचोः समग्रं प्रक्रियाचिन्तनं परिसमाप्तम् |
Swarup – January 2017
---------------------------------
०८ - शतृशानचोः प्रक्रियाचिन्तनम्.pdf (119k) Swarup Bhai, Apr 2, 2018, 2:08 AM v.1