11 - प्रेरणार्थे णिच्‌ - परिचयः

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) Natva-niShedhaka-sUtrANi_+_Nijanta-paricayaH_2018-09-15
२) Nijanta-rUpANAM-trayaH-pramukha-prakArAH_2018-09-22
३) AkArAnta-dhAtUnAM-Nijanta-rUpANi_+_sAmagrika-abhyAsaH_2018-09-29
४) sAmagrika-rUpAbhyAsaH---ajantAnAM-halantAnAM-ca_2018-10-06
५) NijantAnAM-prayogaH---kutra-prayojyakartuH-dvitiiyA-kutra-tRutiiyA_2018-10-13
६) NijantAnAM-ktavatvante-NeH -lopaH_+_prayojyakartuH-dvitiiyAntAbhyAshaH_2018-10-20
७) prayojyakartuH-dvitiiyAntAbhyAsaH-tRutiiyAntAbhyAsashca_2018-10-27
८) kartuH-karmaNaH-ca-uktAnuktatvAt-vibhaktikatvaM_+_nIjantasya-karmaNiprayogaH_2018-11-03
९) aNijante-Nijante-ca-kartariprayoge-karmaNiprayoge-ca-kartuH-karmaNaH-vibhaktyabhyAsaH_2018-11-10
१०) NijantAbhyAsaH--dhAtunirmANasya_+_tingantasya_+_kRudantasya-ca_2018-11-17
११) NijantAnAM-kRudanta-cintanam---tumun_+_ktvA_+_lyap_+_ktavatu_2018-11-24
१२) NijantAnAM-prayogAbhyAsaH---prayojyakartuH-kiM-vibhaktikatvam_2018-12-01
१३) NijantAnAM-prayogAbhyAsaH---gati-buddhi-pratyavasANArtha-shabdakarma-akarmakANAm_2018-12-08


णिच्‌-प्रत्ययः मुख्यतः अर्थद्वये भवति— स्वार्थे प्रेरणार्थे च | चुरादिगणे णिच्‌-प्रत्ययः भवति, यथा चोरयति, क्षालयति, प्रेषयति, कथयति इत्यादीनि रूपाणि | तत्र णिच्-प्रत्ययः स्वार्थे अस्ति, इत्युक्ते धातोः एव अर्थपोषणं करोति; णिच्‌-प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति | णिच्‌-प्रत्ययः प्रेरणार्थे अपि भवति; प्रायः सर्वेभ्यः धातुभ्यः णिच्‌ अस्मिन्‌ अर्थे भवति | यथा पठति → पाठयति; अत्र पठनार्थं प्रेरयति | एतादृशेषु प्रयोगेषु प्रेरणार्थः णिच्‌-प्रत्ययात्‌ आगतः |


णिचः एकं वैशिष्ट्यं यत् अयं प्रत्ययः यदा विहितः तदा गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन्‌ अपि गणे भवतु नाम, तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः | पठति भ्वादिगणे, लिखति तुदादिगणे, क्षालयति चुरादिगणे, प्राप्नोति स्वादिगणे—परन्तु पाठयति, लेखयति, क्षालयति, प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव | एषां गणः अपि नास्ति एव | “कस्मिन्‌ गणे" इति प्रश्नस्तु नैव उदेति | उदेति चेत्‌, तस्य उत्तरं नास्ति हि |


सम्प्रति णिजन्तरूपाणि कथं निर्मीयन्ते दृश्यन्ते च इति अवलोकनीयम्‌ |


प्रेरणार्थकणिचः व्यवस्था


औपदेशिकधातवः—पाणिनीयधातुपाठे १९४३ धातवः उपदिष्टाः सन्ति | उपदिष्टाः धातवः, अतः एते औपदेशिकधातवः | एषां धातूनां धातु-संज्ञा भवति भूवादयो धातवः (१.३.१) इति सूत्रेण |


आतिदेशिकधातवः—उपरितनान्‌ पाणिनीयधातुपाठे पठितान्‌ धातून्‌ वर्जयित्वा इतोऽपि, असङ्ख्याः धातवः सन्ति | एते धातवः धातुपाठे न सन्ति, अपि तु अस्माभिः निर्मिताः | यथा पठ्‌ + णिच्‌ → पाठि + शप्‌ + ति → पाठयति | अत्र "पाठि" इति नूतनधातुः निर्मितः | णिच्‌-प्रत्ययस्य योजनेन चोरि इव यावन्तः धातवः सृष्टाः, ते सर्वे सनाद्यन्ता धातवः (३.१.३२) इति सूत्रेण धातुसंज्ञकाः |


हेतुमति च (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌ विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यासीति हेतुमान्‌, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्‌, तस्मिन्‌ हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान्‌ | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान्‌ व्यापारः, तस्मिन्‌ वाच्ये णिज्‌ इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यस्मात्‌ णिच्‌ इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रं— हेतुमति च धातोः णिच् प्रत्ययः परश्च |


तिङन्तरूपस्य साधनार्थं सोपानत्रयम्‌—


१. धातुः + णिच्‌-प्रत्ययः → (णिच्‌-निमित्तिकम्‌ अङ्गकार्यम्‌) → द्वयोः संयोजनेन → णिजन्तधातुः | लिख्‌ + णिच्‌ → लेखि |

२. णिजन्तधातुः + शप्‌-विकरणप्रत्यः → (शप्‌-निमित्तिकम्‌ अङ्गकार्यम्‌) → द्वयोः संयोजनेन → नूतनम्‌ अङ्गम्‌ | लेखि + शप्‌ → लेखय |

३. अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌ | लेखय + ति → लेखयति |


णिच्‌-प्रत्ययस्य कारणेन प्रमुखम्‌ अङ्गकार्यत्रयं सम्भवति‌—

१. अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |


प्रेरणार्थकणिचि यथा नी + णिच्‌ → नै + इ → नायि → नाययति |


२. अत उपधायाः (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात्‌ ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |


प्रेरणार्थकणिचि यथा पठ्‌ + णिच्‌ → पाठि → पाठयति


३. पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यस्मात्‌ परिभाषा-सूत्रात्‌ इकः आयाति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


प्रेरणार्थकणिचि यथा लिख्‌ + णिच्‌ → लेखि → लेखयति


अतः यदा वयं णिजन्तरूपं निर्मातुम्‌ इच्छामः, तदा अस्माकं प्रथमः प्रश्नः अस्ति— धातुः कः ? पठति इत्यस्य धातुः पठ्‌, लिखति इत्यस्य लिख्‌, भवति इत्यस्य भू | यावत्‌ धातुः न ज्ञातः, तावत्‌ अङ्गकार्यं किम्‌ इति ज्ञातुं न शक्नुमः |


यथा प्रेरणार्थस्य विवक्षायां प्रक्रिया एवम्‌—

लिख्‌                     भूवादयो धातवः (१.३.१) इत्यनेन लिख्‌ इत्यस्य धातु-संज्ञा | हेतुमति च (३.१.२६) इत्यनेन णिचः विधानम्‌ |

लिख्‌ + णिच्‌             चुटू, हलन्त्यम्‌, तस्य लोपः (अनुबन्धलोपः)

लिख्‌ + इ                पुगन्तलघूपधस्य च (७.३.८६) = उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे

लेखि                     सनाद्यन्ता धातवः इति सूत्रेण लेखि इत्यस्य धातु-संज्ञा | लट्‌ विवक्षायाम्‌, प्रथमपुरुषस्य एकवचने "ति" प्रत्ययः

लेखि + ति              कर्तरि शप्‌ (कर्त्रर्थे तिङ्-प्रत्यये‌ वा शित्‌-कृत्-प्रत्यये वा शप्‌ विहितः भवति)

लेखि + शप्‌ + ति       अनुबन्धलोपे (लशक्वतद्धिते, हलन्त्यम्‌, तस्य लोपः)

लेखि + अ + ति         सार्वधातुकार्धधातुकयोः (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

लेखे + अ + ति         एचोऽयवायावः इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

लेख्‌ + अय्‌ + अ + ति वर्णमेलने लेखयति इति तिङन्तरूपं निष्पन्नम्‌ |


धेयं यत्‌ लेखि इकारान्तधातुः अस्ति | णिजन्तधातवः सर्वे इकारान्ताः सन्ति—पाठि, लेखि, गमि, निन्दि, क्षालि—अतः सर्वत्र अयमेव क्रमः | अग्रे गत्वा बोध्यं यत्‌ सर्वत्र धातोः व्युत्पत्त्यनन्तरं सार्वधातुकार्धधातुकयोः, एचोऽयवायावः इत्याभ्याम्‌ अङ्गं, तदा तिङः योजनेन तिङन्तपदं निष्पन्नम्‌ |


अत्र धातवः त्रिविधा— प्रथमतया अजन्तधातवः हलन्तधातवः च, तदा हलन्तधातुषु येषाम्‌ उपधा अकारः, अपि च येषां उपधा लघुः इक्‌-वर्णः (इक्‌-प्रत्याहारे इ, उ, ऋ इति वर्णाः सन्ति) | धातोः अन्तिमवर्णात्‌ पूर्वं यः वर्णः, तस्य नाम "उपधा" |


१. हलन्तधातवः (उपधा अकारः)— यथा पठ्‌, वद्‌, नट्‌ |

२. हलन्तधातवः (उपधा लघुः इक्‌)— यथा लिख्‌, बुध्‌, वृध्‌ |

३. अजन्तधातवः— इगन्ताः यथा भू, नी, शी, कृ |


धातवः


क्रमेण हलन्तधातवः (उपधा अकारः), हलन्तधातवः (उपधा लघुः इक्‌), अजन्तधातवः इत्यवलोकयाम |


१. हलन्तधातवः - उपधा अकारः


अत उपधायाः इत्यनेन उपधायाम्‌ अतः वृद्धिः |


पठ्‌ + णिच्‌ → पाठि → पाठयति

वद्‌ + णिच्‌ → वादि → वादयति

पत्‌ + णिच्‌ → पाति → पातयति

नट्‌ + णिच्‌ → नाटि → नाटयति


२. हलन्तधातवः - उपधा लघुः इक्‌


पुगन्तलघूपधस्य च इत्यनेन उपधायां लघु-इकः गुणः |


लिख्‌ + णिच्‌ → लेख्‌ + इ → लेखि → लेखयति

छिद्‌ + णिच्‌ → छेद्‌ + इ → छेदि → छेदयति

बुध्‌ + णिच्‌ → बोध्‌ + इ → बोधि → बोधयति

मुद्‌ + णिच्‌ → मोद्‌ + इ → मोदि → मोदयति

कृष्‌ + णिच्‌ → कर्ष्‌ + इ → कर्षि → कर्षयति

वृष्‌ + णिच्‌ → वर्ष्‌ + इ → वर्षि → वर्षयति


३. अजन्तधातवः— यथा भू, नी, शी, कृ


a) इकारान्ताः ईकारान्ताः च


अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य इकारस्य ईकारस्य वा वृद्धिः | तदा एचोऽयवायावः इत्यनेन अय्‌, आय्‌ वा आदेशः | यथा—


नी + णिच्‌ → नै + इ → नाय्‌ + इ → नायि → सनाद्यन्ता धातवः → नायि + शप्‌ + ति → नाययति


b) उकारान्ताः ऊकारान्ताः च


अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य उकारस्य ऊकारस्य वा वृद्धिः | तदा एचोऽयवायावः इत्यनेन अव्‌, आव्‌‌ वा आदेशः | यथा—


भू + णिच्‌ → भौ + इ → भाव्‌ + इ → भावि → सनाद्यन्ता धातवः (३.१.३२) → भावि + शप्‌ + ति → भावयति

लू + णिच्‌ → लौ + इ → लाव्‌ + इ → लावि → सनाद्यन्ता धातवः (३.१.३२) → लावि + शप्‌ + ति → लावयति

पू + णिच्‌ → पौ + इ → पाव्‌ + इ → पावि → सनाद्यन्ता धातवः (३.१.३२) → पावि + शप्‌ + ति → पावयति

द्रु + णिच्‌ → द्रौ + इ → द्राव्‌ + इ → द्रावि → सनाद्यन्ता धातवः (३.१.३२) → द्रावि + शप्‌ + ति → द्रावयति


c) ऋकारान्ताः ॠकारान्ताः च


अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य ऋकारस्य ॠकारस्य वा वृद्धिः | यथा—


कृ + णिच्‌ → कार् + इ → कारि → सनाद्यन्ता धातवः (३.१.३२) → कारि + शप्‌ + ति → कारयति

हृ + णिच्‌ → हार् + इ → हारि → सनाद्यन्ता धातवः (३.१.३२) → हारि + शप्‌ + ति → हारयति

तॄ + णिच्‌ → तार् + इ → तारि → सनाद्यन्ता धातवः (३.१.३२) → तारि + शप्‌ + ति → तारयति


d) आकारान्ताः


अ) पुगागम-सहिताः ण्यन्तधातवः


अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) = ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्‌-आगमः भवति, णिच्‌-प्रत्यये परे | एषां धातूनां पुक्‌-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्‌), णि इत्युक्ते णिच्‌ इत्यतः णिच्‌-प्रत्यये परे इत्यर्थः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः परम्‌ आयाति अयं पुगागमः | पुक्‌ इत्यस्मिन क्‌, उ इत्यनयोः इत्‌-संज्ञा लोपश्च; प्‌ अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक्‌ प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम्‌ अङ्गानां पुक्‌ णौ |


प्रेरणार्थकणिचि आकारान्ताः यथा दा, धा इति | णिच्‌ इत्यस्मिन्‌ ण्‌, च्‌ इत्यनयोः इत्-संज्ञा, पुक्‌ इत्यस्मिन्‌ उ, क्‌ इत्यनयोः इत्‌-संज्ञा, लोपश्च |


दा + णिच्‌ → दा + पुक्‌ + इ → दा + प्‌ + इ → दापि + सनाद्यन्ता धातवः (३.१.३२) → दापि + शप्‌ + ति → दापयति

धा + णिच्‌ → धा + पुक्‌ + इ → धा + प्‌ + इ → धापि + सनाद्यन्ता धातवः (३.१.३२) → धापि + शप्‌ + ति → धापयति


आ) एजन्तधातवः—सर्वे आकारान्तधातवः भवन्ति


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्वं न तु शिति | उपदेशे इत्युक्ते औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्‌ | णिच्‌ शित्‌ नास्ति, अतः णिच्‌-प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम्‌ | आकारान्ताः इति कारणतः अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमः भवति एव |


यथा—

ग्लै → ग्ला

म्लै → म्ला

ध्यै → ध्या

शो → शा

सो → सा

वे → वा

छो → छा


अतः णिच्‌-प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम्‌ | आकारान्ताः इति कारणतः अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमः भवति इति सामान्यनियमः |


यथा—


ग्लै + णिच्‌ → ग्ला + इ → ग्ला + पुक्‌ + इ → ग्ला + प्‌ + इ → ग्लापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → ग्लापि + शप्‌ + ति → ग्लापयति


तथैव म्लै → म्लापयति, ध्यै → ध्यापयति, गै → गापयति, रै → रापयति, खै → खापयति


परन्तु केषाञ्चित्‌ एजन्तानां च आकारान्तानां च युक्‌ भवति न तु पुक्‌—


इ) युक्‌-आगमः (पुक्‌-आगम-अपवादः)


आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एषाम्‌ एजन्तधातूनाम्‌ आत्वम्‌ | शो, छो, सो, ह्वे, व्ये, वे, पै |


शाच्छासाह्वाव्यावेपां युक् (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌ आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम्‌ | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— शाच्छासाह्वाव्यावेपां अङ्गानां युक् णौ |


शो तनूकरणे (कृशं करोति, श्यति) → शा + युक्‌ + णिच्‌ → शायि → शाययति

छो छेदने (छ्यति) → छा + युक्‌ + णिच्‌ → छायि → छाययति

षो अन्तकर्मणि (समापनं करोति, स्यति) → सा + युक्‌ + णिच्‌ → सायि → साययति

ह्वेञ्‌ स्पर्धायां शब्दे च (आह्वयति) → ह्वा + युक्‌ + णिच्‌ → ह्वायि → ह्वाययति

व्येञ्‌ संवरणे (आच्छादयति, व्ययति) → व्या + युक्‌ + णिच्‌ → व्यायि → व्याययति

वेञ्‌ तन्तुसन्ताने (कुविन्दस्य कार्यम्‌, वयति) → वा + युक्‌ + णिच्‌ → वायि → वाययति

पै शोषणे (शुष्कं करोति, पायति) → पा + युक्‌ + णिच्‌ → पायि → पाययति

पा पाने → पा + युक्‌ + णिच्‌ → पायि → पाययति


अधुना ततः अग्रे अदादिगणे एकः पा-धातुः रक्षणार्थे अपि भवति (लटि 'पाति') | रक्षणार्थे एकं वार्तिकं कार्यं करोति लुगागमस्तु तस्य वक्तव्यः इति | अनेन वार्तिकेन युकः स्थाने लुक्‌ आयाति |


पा रक्षणे → लुगागमस्तु तस्य वक्तव्यः इति वार्तिकेन रक्षनार्थे लुक्‌-आगमः → पा + लुक्‌ + णिच्‌ → पालि → पालयति


शाच्छासाह्वाव्यावेपां युक् (७.३.३७) इति सूत्रेण पा रक्षणे वर्जयित्वा सर्वेषां पा-धातूनां ग्रहणम्‌— नाम पै शोषणे, पा पाने च |


५. शेषधातवः


कार्यं नास्ति यतोहि उपधायाम्‌ अत्‌ अपि नास्ति, लघु इक्‌ अपि नास्ति |


बुक्क्‌ + णिच्‌ → बुक्क्‌ + इ → बुक्कि → बुक्कयति

एध्‌ + णिच्‌ → एध्‌ + इ → एधि → एधयति


इति सामान्यधातूनां ण्यन्तव्यवस्था


चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्‌


चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव चुर्‍ + णिच्‌ → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्‌, द्वितीयः णिच्‌-प्रत्ययः विधीयते चोरि + णिच्‌ | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम्‌ इदम्—


णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अतो लोपः (६.४.४८) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |


णिच्‌-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्‌, प्रेरणार्थे यदा द्वितीयः णिच्‌-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन्‌ धातौ णिच्‌ केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु णेरनिटि (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम्‌ |


चुर् → पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इयनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच्‌ → चोरि स्वार्थे → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → णेरनिटि (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे


क्त-प्रत्यये परे, क्तवतु-प्रत्यये परे च


निष्ठायां सेटि (६.४.५२) = निष्ठायां सेटि परे णेर्लोपो भवति | निष्ठा इति संज्ञया क्त, क्तवतु इति द्वौ प्रत्ययौ | यदा अनयोः द्वयोः प्रत्यययोः इडागमो भवति, तदा पूर्वं स्थितस्य णिच्‌-प्रत्ययस्य लोपः भवति | धातुतः णिच्‌-प्रत्ययस्य संयोजनेन धातुः सदा अनेकाच्‌ भवति; इत्युक्ते णिजन्तधातोः सर्वदा एकस्मात्‌ अधिकाः अच्‌-वर्णाः भवन्ति— तदर्थम्‌ उच्यते यत्‌ णिजन्ताः सदा अनेकाच्‌-धातवः | यथा पाठि इति धातौ आकारः अपि इकारः अपि इति कृत्वा पाठि इति धातुः अनेकाच्‌ | सर्वे अनेकाच्-धातवः सेटः सन्ति , नाम ते सर्वे इडागमानुकूलाः | धातुः इडागमानुकूलः च प्रत्ययः इडागमानुकूलः च इति यदा एतादृशी परिस्थितिः जायते, तदा प्रत्ययस्य इडागमो भवति | णिजन्तधातुः अनेकाच्‌ इत्यस्मात्‌ इडागमानुकूलः; निष्ठा-प्रत्ययः इडागमानुकूलः तु अस्त्येव, अतः पाठि + क्तवतु → अनुबन्धलोपे → पाठि + तवत्‌ → इडानुकूलता अस्ति अतः इडागमः → पाठि + इ + तवत्‌ → निष्ठायां सेटि (६.४.५२) इत्यनेन निष्ठायां सेटि परे णेर्लोपः → पाठ्‌ + इ + तवत्‌ → पाठितवत्‌ इति प्रातिपदिकम्‌ | पुंलिङ्गे पाठितवान्‌ | तथा णिजन्ते सर्वत्र भवति क्त, क्तवतु इति प्रत्यययोः परयोः |


तुमुन्‌-प्रत्यये परे


णिजन्तप्रसङ्गे गुणकार्यं सर्वत्र | णिजन्तधातवः सर्वे अनेकाचः इति कारणतः सर्वे सेटः | तुमुन्‌ वलादिः अतः सेट्‌ |


नाशि + इडागमः + तुमुन्‌ → नाशि + इतुम्‌ → सार्वधातुकार्धधातुकयोः (७.३.८४) → नाशे + इतुम्‌ → एचोऽयवायावः (६.१.७७) इत्यनेन अय्‌-आदेशः → नाशयितुम्‌


एवमेव—

स्मारि → स्मारयितुम्‌

दर्शि → दर्शयितुम्‌

कारि → कारयितुम्‌


क्त्वा-प्रत्यये परे


क्त्वा‌-प्रत्ययः कित्‌ यस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | परन्तु न क्त्वा सेट्‌ (१.२.१८) इति अतिदेशसूत्रेण इडागमे सति क्त्वा-प्रत्ययस्य अकित्त्वम्‌ अध्यारोप्यते |


न क्त्वा सेट्‌ (१.२.१८) = इडागमेन युक्तक्त्वा-प्रत्ययस्य कित्त्वं न स्यात्‌ | इटा सह वर्तते इति सेट्‌ | न अव्ययपदं, क्त्वा लुप्तप्रथमाकं, सेट्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | असंयोगाल्लिट्‌ कित्‌ (१.२.५) इत्यस्मात्‌ कित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— सेट्‌ क्त्वा न कित्‌ |


नाशि + इडामः + क्त्वा → नाशि + इत्वा → न क्त्वा सेट्‌ (१.२.१८) इत्यनेन अकित्त्वातिदेशः → सार्वधातुकार्धधातुकयोः (७.३.८४) → नाशे + इत्वा → एचोऽयवायावः (६.१.७७) इत्यनेन अय्‌-आदेशः → नाशयित्वा


किमर्थं सूत्रे सेट्‌ उक्तम्‌ ? कृत्वा | धातुः सेट्‌ नास्ति चेत्‌, क्त्वा-प्रत्ययस्य कित्त्वम्‌ आवश्यकम्‌ | नो चेत्‌‍, अत्रापि गुणो भविष्यति, येन 'कर्त्वा' इति अनिष्टं रूपं स्यात्‌ |


ल्यप्‌-प्रत्यये परे


ल्यप्‌-प्रत्यये लकारपकारयोः अनुबन्धलोपः अतः 'य' इति अवशिष्यते | अयं प्रत्ययः यकारादिः न तु वलादिः इति कृत्वा अनिट्‌ | अनिट्‌ इति कारणातः णिजन्तधातोः परः भवति‌ चेत्‌, णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः |


सम्‌ + रक्षि + ल्यप्‌ → संरक्षि + य → णेरनिटि (६.४.५१) इत्यनेन अनिट्‌-आर्धधातुकप्रत्यये परे पूर्वस्थितस्य णि-प्रत्ययस्य लोपः → संरक्ष्‌ + य → संरक्ष्य


एवमेव—

वि + नाशि + ल्यप्‌ → विनाशि + य → विनाश्‌ + य → विनाश्य

स्वी + कारि + ल्यप्‌ → स्वीकारि + य → स्वीकार्‍ + य → स्वीकार्य

परि + भावि + ल्यप्‌ → परिभावि + य → परिभाव्‌ + य → परिभाव्य


किन्तु उपरितनधातुषु सर्वत्र दीर्घस्वरः वर्तते | नाशि, कारि, भावि— णिजन्तधातौ लघुस्वरः अस्ति चेत्‌ ल्यपि लघुपूर्वात् (६.४.५६) इत्यनेन णिचः स्थाने अय्‌-आदेशः न तु णिचः लोपः—


ल्यपि लघुपूर्वात् (६.४.५६) = लघुपूर्वात् परस्य णिच्-प्रत्ययस्य अय्-आदेशो भवति ल्यपि परे | णेरनिटि (६.४.५१) इत्यस्य अपवादः | लघुः पूर्वो यस्मात्‌ स लघुपूर्वः बहुव्रीहिः, तस्मात्‌ लघुपूर्वात्‌ | ल्यपि सप्तम्यन्तं, लघुपूर्वात्‌ पञ्चम्यन्तम्‌ | णेरनिटि (६.४.५१) इत्यस्मात्‌ णेः इत्यस्य अनुवृत्तिः | अयामन्ताल्वय्येल्विष्णुषु (६.४.५५) इत्यस्मात्‌ अय्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लघुपूर्वात् णेः अय्‌ ल्यपि |


रच्‌ (रचयति) : वि + रचि + ल्यप्‌ → वि + रच्‌ + अय्‌ + य → विरचय्य

कथ्‌ (कथयति) : प्र + कथि + ल्यप्‌ → प्रकथय्य

गण्‌ (गणयति) : प्र + गणि + ल्यप्‌ → प्रगणय्य


लघुपूर्वात् किम्‌ ? संप्रधार्य | अत्र आकारस्य गुरुगंज्ञा न तु लघुसंज्ञा अतः णेः स्थाने अयादेशो न भवति | अपि तु संप्रधारि + ल्यप्‌ → णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपः → संप्रधार्‍ + य → संप्रधार्य |


अत्र प्रश्नः उदेति यत्‌ रक्षि-धातौ ह्रस्वः अकारः अस्ति खलु; तर्हि किमर्थं न ल्यपि लघुपूर्वात् (६.४.५६) इत्यनेन 'संरक्षय्य' स्यात्‌, 'संरक्ष्य' इत्यस्य स्थाने ? अस्य बोधनार्थं कस्य स्वरस्य का संज्ञा इति परिशीलनीयम्‌ |


लघुसंज्ञा = ह्रस्वं लघु (१.४.१०) इत्यनेन 'अ', ‘इ', ‘उ', ‘ऋ', ‘ऌ' इति पञ्चानाम्‌ एकमात्रिकाणां स्वराणां 'लघु' इति संज्ञा भवति |


गुरुसंज्ञा = संयोगे गुरु (१.४.११) इत्यनेन 'अ', ‘इ', ‘उ', ‘ऋ', ‘ऌ' इति पञ्चानाम्‌ एकमात्रिकाणां स्वराणाम्‌ अनन्तरं संयोगो भवति चेत्‌, एषां एव पञ्चानाम्‌ 'गुरु' संज्ञा भवति | यथा 'मुद्गर'-शब्दे उकारः एकमात्रिकह्रस्वस्वरः अस्ति, किन्तु अनन्तरं दकारगकारयोः संयोगः अस्ति इति कारणतः अत्र उकारस्य गुरुसंज्ञा भवति न तु लघुसंज्ञा | 'कृष्ण’-शब्देऽपि ऋकारस्य अनेन कारणेन गुरुसंज्ञा |


दीर्घञ्च (१.४.१२) इत्यनेन 'आ', ‘ई', ‘ऊ', ‘ॠ', ‘ए', ‘ऐ', ‘ओ', ‘औ' इति अष्टानां द्विमात्रिकदीर्घस्वराणाम्‌ अपि गुरुसंज्ञा भवति |


अतः यद्यपि रक्षि-धातौ अकारः ह्रस्वः, तथापि परः ककारषकारयोः संयोगो वर्तते इति कारणेन विद्यमानस्य अकारस्य गुरुसंज्ञा भवति न तु लघुसंज्ञा | ततः ल्यपि लघुपूर्वात् (६.४.५६) इत्यस्य प्रसक्तिर्नास्ति | ततः णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः येन संरक्ष्य भवति न तु 'संरक्षय्य' |


णिजन्तानां कर्मणिप्रयोगः


णिजन्तानां प्रयोगक्षेत्रे सामान्यव्यवस्था अस्ति प्रयोज्यकर्तुः तृतीयाविभक्त्यन्तं रूपम्‌ | किन्तु विशिष्टधातूनां प्रयोज्यकर्तुः कर्मसंज्ञा भवति इति कारणतः तेषु स्थलेषु प्रयोज्यकर्तुः रूपं द्वितीयाविभक्त्यन्तम्‌ | सूत्रमस्ति— गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ता स णौ (१.४.५२) |


किन्तु प्रश्नः उदेति, कर्मणिप्रयोगे व्यवस्था कीदृशी ? एका कारिका अस्ति—


बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया |

प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ||


(अग्रे सूचना संस्कृतभारत्याः कारकपुस्तकात्‌ प्रदर्श्यते |)


कथनस्य अर्थः एवम्‌— अण्यन्तावस्थायां यः कर्ता स एव ण्यन्तावस्थायां प्रयोज्यकर्म | यथा, छात्रः श्लोकार्थं बोधति | गुरुः छात्रं श्लोकार्थं बोधयति | द्वितीयवाक्ये छात्रः प्रयोज्यकर्म | कर्मणिप्रयोगे बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रयोज्ये कर्मणि प्रधानकर्मणि वा लकारः | एतान्‌ त्रीन्‌ विहाय अन्येषां प्रयोज्ये कर्मणि एव लकारः | उदाहरणानि अधः—

कर्तरिप्रयोगः कर्मणिप्रयोगः
गुरुः छात्रं श्लोकार्थं बोधयति | गुरुणा छात्रः श्लोकार्थं बोध्यते / गुरुणा छात्रं श्लोकार्थः बोध्यते |
माता शिशुं ओदनं भोजयति | मात्रा शिशुः ओदनं भोज्यते / मात्रा शिशुम्‌ ओदनः भोज्यते |
अध्यापकः बालं वेदम्‌ अध्यापयति | अध्यापकेन बालः वेदम्‌ अध्याप्यते /अध्यापकेन बालं वेदः अध्याप्यते |
पिता बालं विद्यालयं गमयति | पित्रा बालः विद्यालयं गम्यते |
तरुणः वृद्धम्‌ उपवेशयति | तरुणेन वृद्धः उपवेश्यते |
गुरुः विद्यार्थिनं पद्यार्थं जल्पयति | गुरुणा विद्यार्थी पद्यार्थं जल्प्यते |
पिता शिशुं शुकं दर्शयति | पित्रा शिशुः शुकं दर्श्यते |
स्वामी देवदत्तेन कार्यं कारयति | स्वामिना देवदत्तः कार्यं कार्यते |
स्वामी कर्मकरेण उद्यानं सेचयति | स्वामिना कर्मकरः उद्यानं सेच्यते |


p.1.pdf (3423k) Swarup Bhai, Jun 28, 2014, 6:33 PM

p.2.pdf (2830k) Swarup Bhai, Jun 28, 2014, 6:33 PM

p.3.pdf (3138k) Swarup Bhai, Jun 28, 2014, 6:33 PM

p.4.pdf (2946k) Swarup Bhai, Jun 28, 2014, 6:33 PM

p.5.pdf (2090k) Swarup Bhai, Jun 28, 2014, 6:33 PM

p.6.pdf (2356k) Swarup Bhai, Jun 28, 2014, 6:33 PM

p.7.pdf (2755k) Swarup Bhai, Jun 28, 2014, 6:34 PM

p.8.pdf (1162k) Swarup Bhai, Jun 28, 2014, 6:34 PM

प्रेरणार्थे णिच्‌ - परिचयः.pdf (76k) Swarup Bhai, Mar 31, 2019, 4:02 PM


Swarup – June 2014 (Updated Sept 2018)