13 - ईयसुन्, इष्ठन्
ईयसुन्, इष्ठन् इति तुलनात्मकप्रत्ययौ
अतिशयार्थे चत्वारः प्रसिद्धप्रत्ययाः— तरप्, तमप्, ईयसुन्, इष्ठन् च | यत्र द्वयोः समूहयोः अन्यतमः स्वीक्रियते, तत्र तरप् च ईयसुन् च उपयुज्येते; यत्र तदधिकेषु समूहेषु अन्यतमः स्वीक्रियते, तत्र तमप् इष्ठन् च उपयुज्येते | प्रश्नः उदेति यत् तरप्, ईयसुन् च अनयोर्मध्ये किमपि पार्थक्यं वर्तते किम् ? तथैव तमप् इष्ठन् चेत्यनयोर्मध्ये किमपि पार्थक्यमस्ति वा ? अत्र वक्तव्यं यत् अर्थदृष्ट्या यद्यपि भेदो नास्ति, तथापि प्रयोगक्षेत्रे भेदस्त्वस्ति | प्रथमतया अर्थः— तमप्, इष्ठन् इत्यनयोर्विधायकसूत्रमस्ति अतिशायने तमबिष्ठनौ (५.३.५५) | एवमेव तरप्, ईयसुन् इत्यनयोर्विधायकसूत्रमस्ति द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) | अनेन चतुर्णामपि प्रत्ययानाम् अतिशयार्थो भवति | अतिशय-शब्दस्य 'अधिकं, पुनः 'इतोऽपि सम्यक्' इति अर्थद्वयं बोधयति, अतः सन्दर्भम् अनुसृत्य आशयः बोध्यः | (यथा 'त्वचिष्ठ'-शब्दस्य अर्थः 'यस्य अधिका त्वक् वर्तते’, अथवा 'यस्य त्वक् इतोऽपि सम्यक्' इत्येतादृशभेदः सन्दर्भानुगुणं परिशीलनीयः |)
किन्तु प्रयोगक्षेत्रे एकं सूत्रं वर्तते— अजादी गुणवचनादेव (५.३.५८) | चतुर्षु प्रत्ययेषु यौ द्वौ प्रत्ययौ अजादी, तयोः अनेन सूत्रेण प्रयोगक्षेत्रं सीमितम् | संस्कृतभाषायां, सरलरीत्या सुबन्तपदानां त्रैविध्यं— द्रव्यवाचकानि, गुणवाचकानि, क्रियावाचकानि च | तरप्, तमप् इति द्वौ प्रत्ययौ त्रिभ्यः अपि प्रकारेभ्यः विधीयेते | परन्तु ईयसुन्, इष्ठन् इति द्वौ प्रत्ययौ अजादी; तदर्थम् अजादी गुणवचनादेव (५.३.५८) इति सूत्रेण द्वावपि केवलं गुणवाचिभ्यः पदेभ्यः विधीयेते , न तु द्रव्यवाचिभ्यः क्रियावाचिभ्यः वा | अतः लघीयान्, लघिष्ठः इति एते द्वे भवतः | एवमेव पटीयान्, पटिष्ठः इति एते द्वे पदे भवतः | लघु-शब्दः अपि, पटु-शब्दः अपि गुणवाचकः |
किन्तु अजादी गुणवचनादेव (५.३.५८) इति सूत्रेण पाचक-शब्दात् एतौ द्वौ प्रत्ययौ न विधीयेते यतोहि पाचक-शब्दः क्रियावाचकः न तु गुणवाचकः; यः पचति सः पाचकः इति कृत्वा सः क्रियावान् | तत्र तरप्, तमप् च भवति— पाचकतरः, पाचकतमः | 'द्वयोः मध्ये सम्यक् पाचकः' इति पाचकतरः | 'बहुषु सम्यक् पाचकः' इति पाचकतमः | पुनः गुणवाचकशब्दः अस्ति चेदपि तरप्, तमप् च भवति— पटुतरः, पटुतमः | आहत्य ईयसुन, इष्ठन् च गुणवाचिभ्यः एव; तरप् तमप् च सर्वेभ्यः अपि भवति |
सम्प्रति सामान्यव्युत्पत्तिप्रक्रिया प्रदर्श्यते | प्रथमतया 'टि-भागः' नाम कः इति ज्ञातव्यः | 'टि' इति एका संज्ञा अस्ति | कस्यापि अंशस्य अन्तिम-स्वरस्य, अपि च तस्य स्वरस्य अनन्तरं हल्-वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः, 'टि'-संज्ञा भवति | यथा राम इति शब्दः, अत्र मकारोत्तर-अकारस्य टि-संज्ञा | तथैव हरि-शब्दे इकारस्य टि-संज्ञा | मनस् इत्यस्मिन् 'अस्' इत्यस्य टि-संज्ञा |
अधुना द्रष्टव्यं यत् यस्मात् शब्दात् ईयसुन् वा इष्ठन् वा योजयितुमिच्छामः, स च शब्दः एकाच् वा, अनेकाच् वा ? यस्मिन् शब्दे एक एव अच्-वर्णः विद्यते, सः शब्दः 'एकाच्' इति उच्यते; एकः एव अच् यस्य सः, एकाच् | अपि च यस्य शब्दस्य तदधिकाः स्वराः, सः तु अनेकाच् | एतत् किमर्थं ज्ञातव्यमिति चेत्, टेः (६.४.१५५) इति सूत्रेण शब्दः अनेकाच् अस्ति चेत्, तस्य टि-भागस्य लोपः भवति ईयसुन् च इष्ठन् च प्रत्यये परे | शब्दः एकाच् अस्ति चेत्, प्रकृत्यैकाच् (६.४.१६३) इति सूत्रेण प्रकृतेः (नाम मूलशब्दस्य) टि-भागलोपो न भवति ईयसुन् च इष्ठन् च प्रत्यये परे |
प्रकृतिः अनेकाच् चेत्—
लघु + ईयसुन् → टेः (६.४.१५५) इत्यनेन टि-भागलोपः → लघ् + ईयसुन् → लघीयस् → लघीयान् |
लघु + इष्ठन् → टेः (६.४.१५५) इत्यनेन टि-भागलोपः → लघ् + इष्ठन् → लघिष्ठः |
एवमेव 'पटु', 'मधु', 'बल' च इव यत्र शब्दः अनेकाच्, तत्र टि-भागस्य लोपः | पटीयान्, मधीयान्, बलीयान् |
प्रकृतिः एकाच् चेत्—
श्र + ईयसुन् → प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + ईयसुन् → श्रेयस् → श्रेयान्
श्र + इष्ठन् → प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + इष्ठन् → गुणसन्धिः → श्रेष्ठः
इति सामान्यचिन्तनं, यत्र कोऽपि प्रकृत्यादेशः नास्ति, किमपि विशिष्टसूत्रं वा नास्ति | इतः अग्रे अनेकानि सूत्राणि सन्ति यैः यस्मात् शब्दात् ईयसुन् इष्ठन् च विधीयेते, तस्मिन् शब्दे किमपि परिवर्तनम् आनेतव्यम् |
प्रकृत्यादेशः
प्रशस्यस्य श्रः (५.३.६०)
ज्य च ( ५.३.६१)
वृद्धस्य च ( ५.३.६२)
अन्तिकबाढयोर्नेदसाधौ (५.३.६३)
युवाल्पयोः कनन्यतरस्याम् (५.३.६४)
विन्मतोर्लुक् (५.३.६५)
अङ्गकार्यम्
सामान्यम्
टेः (६.४.१५५)
प्रकृत्यैकाच् (६.४.१६३)
विशेषः
तुरिष्ठेमेयःसु (६.४.१५४)
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६)
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहि-गर्वर्षित्रब्द्राघिवृन्दाः (६.४.१५७)
बहोर्लोपो भू च बहोः (६.४.१५८)
इष्ठस्य यिट् च (६.४.१५९)
ज्यादादीयसः (६.४.१६०)
र ऋतो हलादेर्लघोः (६.४.१६१)
विभाषर्जोश्छन्दसि (६.४.१६२)
प्रशस्यस्य श्रः (५.३.६०) = प्रशस्य-शब्दस्य स्थाने श्र-आदेशो भवति इष्ठन्, ईयसुन् इति प्रत्यययोः परयोः |
श्रेष्ठः, श्रेयान्
सर्वे इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः, श्रेष्ठः |
उभौ इमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः, श्रेयान् |
प्रशस्य + इष्ठन् → प्रशस्यस्य श्रः (५.३.६०) इत्यनेन प्रशस्य-शब्दस्य स्थाने श्र-आदेशः → श्र +इष्ठ → श्र एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र +इष्ठ → आद्गुणः (६.१.८७) इत्यनेन अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → श्रेष्ठ | श्रेष्ठः |
प्रशस्य + ईयसुन् → प्रशस्यस्य श्रः (५.३.६०) इत्यनेन प्रशस्य-शब्दस्य स्थाने श्र-आदेशः → श्र +ईयस् → श्र एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र +ईयस् → आद्गुणः (६.१.८७) इत्यनेन अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → श्रेयस् | श्रेयान् |
ज्य च ( ५.३.६१) = प्रशस्य-शब्दस्य स्थाने ज्य-आदेशोऽपि भवति इष्ठन्, ईयसुन् इति प्रत्यययोः परयोः |
ज्यादादीयसः (६.४.१६०) = ज्य-शब्दात् ईयसुन्-प्रत्ययस्य ई-स्थाने आकारादेशो भवति | ज्यात् पञ्चम्यन्तम्, आत् प्रथमान्तम्, ईयसः षष्ठ्यन्तम् |
ज्येष्ठः, ज्यायान् (प्रशस्य इति प्रादिपदिकात्)
प्रशस्य + इष्ठन् → ज्य च ( ५.३.६१) इत्यनेन प्रशस्य-शब्दस्य स्थाने ज्य-आदेशः → ज्य +इष्ठ → ज्य एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +इष्ठ → आद्गुणः (६.१.८७) इत्यनेन अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → ज्येष्ठ | ज्येष्ठः |
प्रशस्य + ईयसुन् → ज्य च ( ५.३.६१) इत्यनेन प्रशस्य-शब्दस्य स्थाने ज्य-आदेशः → ज्य +ईयस् → ज्य एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +ईयस् → ज्यादादीयसः (६.४.१६०) इत्यनेन ईयसुन्-प्रत्ययस्य ई-स्थाने आकारादेशः → ज्यायस् | ज्यायान् |
वृद्धस्य च ( ५.३.६२) = वृद्ध-शब्दस्य अपि स्थाने ज्य-आदेशो भवति इष्ठन्, ईयसुन् इति प्रत्यययोः परयोः |
ज्येष्ठः, ज्यायान् (वृद्ध इति प्रादिपदिकात्)
सर्वे इमे वृद्धाः, अयमेषामतिशयेन वृद्धः, ज्येष्ठः |
उभौ इमौ वृद्धौ, अयमनयोरतिशयेन वृद्धः, ज्यायान् |
वृद्ध + इष्ठन् → वृद्धस्य च ( ५.३.६२) इत्यनेन वृद्ध-शब्दस्य स्थाने ज्य-आदेशः → ज्य +इष्ठ → ज्य एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +इष्ठ → आद्गुणः (६.१.८७) इत्यनेन अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → ज्येष्ठ | ज्येष्ठः |
वृद्ध + ईयसुन् → वृद्धस्य च ( ५.३.६२) इत्यनेन वृद्ध-शब्दस्य स्थाने ज्य-आदेशः → ज्य +ईयस् → ज्य एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +ईयस् → ज्यादादीयसः (६.४.१६०) इत्यनेन ईयसुन्-प्रत्ययस्य ई-स्थाने आकारादेशः → ज्यायस् | ज्यायान् |
अन्तिकबाढयोर्नेदसाधौ (५.३.६३) = अन्तिक, बाढ इति शब्दयोः यथासंख्यं नेद, साध इति आदेशौ भवतः अजादिप्रत्यये परे |
नेदिष्ठः, नेदीयान्
अन्तिक + इष्ठन् → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन अन्तिक-स्थाने नेद-आदेशः → नेद +इष्ठ → नेद अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → नेद् + इष्ठ → नेदिष्ठ |
अन्तिक + ईयसुन् → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन अन्तिक-स्थाने नेद-आदेशः → नेद +ईयस् → नेद अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → नेद् + ईयस् → नेदीयस् | नेदीयान् |
साधिष्ठः, साधीयान्
बाढ + इष्ठन् → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन बाढ-स्थाने साध-आदेशः → साध +इष्ठ → सध अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → साध् + इष्ठ → साधिष्ठ |
बाढ + ईयसुन् → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन बाढ-स्थाने साध-आदेशः → साध +ईयस् → साध अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → साध् +ईयस् → साधीयस् | साधीयान् |
युवाल्पयोः कनन्यतरस्याम् (५.३.६४) =युवन्, अल्प इति शब्दयोः स्थाने विकल्पेन कन्-आदेशो भवति इष्ठन्, ईयसुन् इति प्रत्यययोः परयोः |
कनिष्ठः, कनीयान्
सर्वे इमे युवानः, अयमेषामतिशयेन युवा, कनिष्ठः |
उभौ इमौ युवानौ, अयमनयोरतिशयेन युवा, कनीयान् |
नकारान्त-पुंलिङ्गशब्दः युवन् (वयसा लघुः)
युवा | युवानौ | युवानः |
युवानम् | युवानौ | यूनः |
यूना | युवभ्याम् | युवभिः |
यूने | युवभ्याम् | युवभ्यः |
यूनः | युवभ्याम् | युवभ्यः |
यूनः | यूनोः | यूनाम् |
यूनि | यूनोः | युवसु |
हे युवन् | हे युवनौ | हे युवानः |
कनिष्ठः, कनीयान्
युवन् + इष्ठन् → युवाल्पयोः कनन्यतरस्याम् (५.३.६४) इत्यनेन युवन्-शब्दस्य स्थाने विकल्पेन कन्-आदेशः → कन् +इष्ठ → कन् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → कन् +इष्ठ → कनिष्ठ | कनिष्ठः |
युवन् + ईयसुन् → युवाल्पयोः कनन्यतरस्याम् (५.३.६४) इत्यनेन युवन्-शब्दस्य स्थाने विकल्पेन कन्-आदेशः → कन् +ईयस् → कन् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → कन् +ईयस् → कनीयस् | कनीयान् |
यविष्ठः, यवीयान्
कन्-आदेशस्य विपक्षे—
युवन् + इष्ठन् → स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इत्यनेन युवन्-शब्दस्य वन्-भागस्य लोपः, तस्मात् प्राक् च स्थितस्य उकारस्य गुणः → यो +इष्ठ → एचोऽयवायावः (६.१.७७) इत्यनेन अव्-आदेशः → यविष्ठ | यविष्ठः |
युवन् + ईयसुन् → स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इत्यनेन युवन्-शब्दस्य वन्-भागस्य लोपः, तस्मात् प्राक् च स्थितस्य उकारस्य गुणः → यो +ईयस् → एचोऽयवायावः (६.१.७७) इत्यनेन अव्-आदेशः → यवीयस् | यवीयान् |
विन्मतोर्लुक् (५.३.६५) = विन्, मतुप् अनयोः लोपो भवति इष्ठन्, ईयसुन् इति प्रत्यययोः परयोः |
स्रजिष्ठः, स्रजीयान्
सर्वे इमे स्रग्विणः, अयमेषामतिशयेन स्रग्वी, स्रजिष्ठः |
उभौ इमौ स्रग्विणौ, अयमनयोरतिशयेन स्रग्वी, स्रजीयान् |
स्रग्विन् + इष्ठन् → विन्मतोर्लुक् (५.३.६५) इत्यनेन विन्-भागस्य लुक् (लोपः) → स्रज् + इष्ठ → स्रज् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → स्रज् + इष्ठ → स्रजिष्ठ |
स्रग्विन् + ईयसुन् → विन्मतोर्लुक् (५.३.६५) इत्यनेन विन्-भागस्य लुक् (लोपः) → स्रज् + ईयस् → स्रज् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → स्रज् + ईयस् → स्रजीयस् | स्रजीयान् |
त्वचिष्ठः, त्वचीयान्
सर्वे इमे त्वग्वन्तः, अयमेषामतिशयेन त्वग्वान्, त्वचिष्ठः |
उभौ इमौ त्वग्वन्तौ, अयमनयोरतिशयेन त्वग्वान्, त्वचीयान् |
त्वग्वान् + इष्ठन् → विन्मतोर्लुक् ( ५.३.६५) इत्यनेन मतुप्-लुक् (लोपः) → त्वच् + इष्ठ → त्वच् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → त्वच् + इष्ठ → त्वचिष्ठ |
त्वग्वान् + ईयसुन् → विन्मतोर्लुक् ( ५.३.६५) इत्यनेन मतुप्-लुक् (लोपः) → त्वच् + ईयस् → त्वच् एकाच् अतः प्रकृत्यैकाच् (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → त्वच् + ईयस् → त्वचीयस् | त्वचीयान् |
इदं सूत्रं विन्मतोर्लुक् (५.३.६५) ज्ञापकमस्ति यत् विन्नन्तशब्दस्य मतुबन्तशब्दस्य च तुलनात्मकार्थे इष्ठन्, ईयसुन् इत्यनयोः व्यवहारः भवति | यथा बुद्धिमान् इत्यस्य मतुप्-लुक् बुद्धि + इष्ठ → बुद्धि अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → बुद्ध् + इष्ठ → बुद्धिष्ठ | धनवान् अपि तथैव कल्पनीयम् |
तुरिष्ठेमेयःसु (६.४.१५४) = शब्दस्य तृ-भागलोपो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु |
करिष्ठ, विजयिष्ठ, वहिष्ठ
कर्तृ + इष्ठन् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः → कर् + इष्ठ → करिष्ठ |
विजेतृ + इष्ठन् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः → विजे + इष्ठ → एचोऽयवायावः (६.१.७७) इत्यनेन अय्-आदेशः → विजयिष्ठ |
वह् + तृच् → वोढृ → वोढृ + इष्ठन् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः (मूले 'तृ' आसीत्) → वह् + इष्ठ → वहिष्ठ |
दोहीयसी
दुह् + तृच् → दोग्धृ → स्त्रियां दोग्ध्री → दोग्ध्री + ईयसुन् → भस्याढे तद्धिते पुंवद्भावो वक्तव्यः इत्यनेन वार्त्तिकेन पुंवद्भावः, ङीप्-निवृत्तिः → दोग्धृ + ईयस् → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः (मूले 'तृ' आसीत्) → दोह् + ईयस् → दोहीयस् → दोहीयस् + स्त्रियां ङीप् → दोहीयसी | दोहीयसी धेनुः, या धेनुः बहु दुग्धं ददाति |
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) = स्थूल, दूर, युवन्, ह्रस्व, क्षिप्र, क्षुद्र इत्येषाम् अङ्गानां यणादिपर-भागः, तस्य भागस्य लोपो भवति अपि च तस्मात् भागात् पूर्वं स्थितस्य शब्दस्वरूपस्य इकः गुणो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | ‘यणादिपर-भागः’ इत्युक्तौ य्, र्, ल्, व् एषु अन्यतमः अपि च तदनन्तरं यावत् अस्ति |
स्थूल + इष्ठन् → स्थो + इष्ठ → स्थविष्ठ | स्थविष्ठः, स्थवीयान् |
दूर + इष्ठन् → दो + इष्ठ → दविष्ठ | दविष्ठः, दवीयान् |
युवन् + इष्ठन् → यो + इष्ठ → यविष्ठ | यविष्ठः, यवीयान् |
ह्रस्व + इष्ठन् → ह्रस् + इष्ठ → ह्रसिष्ठ | ह्रसिष्ठः, ह्रसीयान् |
क्षिप्र + इष्ठन् → क्षेप् + इष्ठ → क्षेपिष्ठ | क्षेपिष्ठः, क्षेपीयान् |
क्षुद्र + इष्ठन् → क्षोद् + इष्ठ → क्षोदिष्ठ | क्षोदिष्ठः, क्षोदीयान् |
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहि-गर्वर्षित्रब्द्राघिवृन्दाः (६.४.१५७) = प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक इत्येषां स्थाने यथासंख्यम् प्र, स्थ, स्फ, वर्, बंह्, गर्, वर्ष्, त्रप्, द्राघ्, वृन्द एते आदेशाः भवन्ति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु |
प्रिय + इष्ठन् → प्र + इष्ठ → प्रेष्ठ | प्रेष्ठः, प्रेयान् |
स्थिर + इष्ठन् → स्थ + इष्ठ → स्थेष्ठ | स्थेष्ठः, स्थेयान् |
स्फिर + इष्ठन् → स्फ + इष्ठ → स्फेष्ठ | स्फेष्ठः, स्फेयान् |
उरु + इष्ठन् → वर् + इष्ठ → वरिष्ठ | वरिष्ठः, वरीयान् |
बहुल + इष्ठन् → बंह् + इष्ठ → बंहिष्ठ | बंहिष्ठः, बंहीयान् |
गुरु + इष्ठन् → गर् + इष्ठ → गरिष्ठ | गरिष्ठः, गरीयान् |
वृद्ध + इष्ठन् → वर्ष् + इष्ठ → वर्षिष्ठ | वर्षिष्ठः, वर्षीयान् |
तृप्र + इष्ठन् → त्रप् + इष्ठ → त्रपिष्ठ | त्रपिष्ठः, त्रपीयान् |
दीर्घ + इष्ठन् → द्राघ् + इष्ठ → द्राघिष्ठ | द्राघिष्ठः, द्राघीयान् |
वृन्दारक + इष्ठन् → वृन्द + इष्ठ → वृन्दिष्ठ → वृन्दिष्ठः, वृन्दीयान् |
(उपरितने सूत्रे 'बंहि’, 'द्राघि' अनयोः इकारः केवलम् उच्चारणार्थः |)
बहोर्लोपो भू च बहोः (६.४.१५८) = बहु-शब्दस्य स्थाने भू-आदेशो भवति अपि च परयोः इमनिच्, ईयसुन् अनयोः इ, ई च लोपो भवति |
बहु + ईयसुन् → भू +यस् → भूयस् | भूयान् |
इष्ठस्य यिट् च (६.४.१५९) = बहु-शब्दस्य स्थाने भू-आदेशो भवति अपि च इष्ठन्-प्रत्ययस्य यिट्-आगमो भवति | काशिकावृत्तिः— बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति | भूयिष्ठः | लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः |
बहु + इष्ठन् → भू + यिष्ठ → भूयिष्ठ | भूयिष्ठः |
र ऋतो हलादेर्लघोः (६.४.१६१) = हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु |
पृथु + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → प्रथु + इष्ठ → प्रथु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → प्रथ् + इष्ठ → प्रथिष्ठ | प्रथिष्ठः, प्रथीयान् |
मृदु + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → म्रदु + इष्ठ → म्रदु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → म्रद् + इष्ठ → म्रदिष्ठ | म्रदिष्ठः, म्रदीयान्
भृश + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → भ्रश + इष्ठ → भ्रश अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → भ्रश् + इष्ठ → भ्रशिष्ठ | भ्रशिष्ठः, भ्रशीयान्
कृश + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → क्रश + इष्ठ → क्रश अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → क्रश् + इष्ठ → क्रशिष्ठ | क्रशिष्ठः, क्रशीयान्
दृढ + इष्ठन् → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → द्रढ + इष्ठ → द्रढ अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → द्रढ् + इष्ठ → द्रढिष्ठ | द्रढिष्ठः, द्रढीयान्
विभाषर्जोश्छन्दसि (६.४.१६२) = ऋजु-अङ्गस्य ऋकारस्य स्थाने र-आदेशो भवति वेदे, विकल्पेन, इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु |
ऋजु + इष्ठन् → विभाषर्जोश्छन्दसि (६.४.१६२) इत्यनेन ऋजु-अङ्गस्य ऋकारस्य स्थाने र-आदेशः → रजु + इष्ठ → रजु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → रज् + इष्ठ → रजिष्ठ | रजिष्ठः | रजिष्ठमिति पन्थानम् |
कार्यस्य विपक्षे—
ऋजु + इष्ठन् → ऋजु + इष्ठ → ऋजु अनेकाच् अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → ऋज् + इष्ठ → ऋजिष्ठ | ऋजिष्ठः | त्वमृजिष्ठः |
परिशिष्टम्
इष्ठन्, ईयसुन् इति द्वौ अपि प्रत्ययौ सर्वनामस्थानसंज्ञक-भिन्न-अजादी, अपि च तयोः विधायकसूत्रं भवति (४.१.२) - (५.४.१५१) इति मध्ये, अतः अनयोः परयोः, पूर्वभागस्य यचि भम् (१.४.१८) इति सूत्रेण भ-संज्ञा भवति | तदर्थं सामान्यम् अङ्गकार्यद्वयं भवति टेः (६.४.१५५), प्रकृत्यैकाच् (६.४.१६३) इति द्वाभ्यां सूत्राभ्याम्, अपि च एकं विशिष्टम् अङ्गकार्यं भवति तुरिष्ठेमेयःसु (६.४.१५४) इति सूत्रेण | कार्यत्रयमपि उपरि वर्णितम् अस्ति; ये शास्त्रीयरीत्या अवगन्तुमिच्छन्ति, ते अधःस्थसूत्राणि परिशीलयेयुः | उपरि केवलम् 'एकाच् चेत्', ‘अनेकाच् चेत्' इत्युक्तं; वस्तुतः स च शब्दः भसंज्ञकः अपि भवेत् | (यस्मात् अपि शब्दात् इष्ठन्, ईयसुन् इति द्वौ प्रत्ययौ विधीयेते, सः शब्दः भसंज्ञकः अस्त्येव; किमर्थमिति अग्रे पठति चेत् स्पष्टं स्यात् |)
अचोऽन्त्यादि टि (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत् टि-संज्ञकं स्यात् | अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः | अचः षष्ठ्यन्तम्, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र अचः एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | सूत्रं स्वयं सम्पूर्णम्— अचः अन्त्यादि टि |
टेः (६.४.१५५) =भसंज्ञकशब्दस्वरूपस्य टि-भागस्य लोपो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | टेः षष्ट्यन्तम्, एकपदमिदं सूत्रम् | अल्लोपोऽनः (६.४.१३४) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | तुरिष्ठेमेयःसु (६.४.१५४) इत्यस्मात् इष्ठेमेयःसु इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भस्य अङ्गस्य टेः लोपः इष्ठेमेयःसु |
प्रकृत्यैकाच् (६.४.१६३) = एकाच्-भसंज्ञकशब्दस्वरूपस्य प्रकृतिभावो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | प्रकृत्या तृतीयान्तम्, एकाच् प्रथमान्तं, द्विपदमिदं सूत्रम् | तुरिष्ठेमेयःसु (६.४.१५४) इत्यस्मात् इष्ठेमेयःसु इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— एकाच् भम् अङ्गं प्रकृत्या इष्ठेमेयःसु |
यचि भम् (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— स्वादिषु असर्वनामस्थाने यचि भम् |
(स्वौजसमौट् (४.१.२) इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् (५.४.१५१) पर्यन्तम् इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते |)
तुरिष्ठेमेयःसु (६.४.१५४) = भसंज्ञकशब्दस्वरूपस्य तृ-भागलोपो भवति इष्ठन्, ईयसुन्, इमनिच् इत्येषु प्रत्ययेषु परेषु | तुः षष्ठ्यन्तम्, इष्ठेमेयस्सु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इष्ठश्च इमा (इमनिच्) च ईयान् (ईयसुन्) च तेषमितरेतरद्वन्द्वः इष्ठेमेयांसः, तेषु इष्ठेमेयस्सु | ढे लोपोऽकद्र्वाः (६.४.१४७) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— भस्य अङ्गस्य तुः लोपः इष्ठेमेयःसु |
Swarup – July 2019
तुलनात्मकतद्धितप्रत्ययाः pdf, तुलनात्मकतद्धितान्तानाम् अभ्यासः pdf