03 - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌

From Samskrita Vyakaranam
06A---sArvadhAtukaprakaraNaM-kRutsu/03---gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2019 वर्गः
१) gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_+_Nijanta-karmaNi-cintanam_2019-12-03
2014 वर्गः
१) gaNam-AdhArIkRtya-shatranta-prAtipadika-nirmANam_-_paricayaH_2014-10-08



शत्रन्त-प्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता गते पाठे | तत्र अस्माभिर्दृष्टम्‌ यत्‌ तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः | स च केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | कर्तरि शप्‌ (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्ययः परः अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति |


अन्यच्च सार्वधातुकलकारेषु (नाम लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) रूपाणि कथं निष्पद्यन्ते इति अस्माभिर्ज्ञायते | तत्रापि कर्त्रर्थे कर्तरि शप्‌ इत्यनेन श‌प्‌-विकरणप्रत्ययः विहितः |


अग्रे— शतृ‌-प्रत्ययः अजादि-अपित्‌-सार्वधातुकः; लट्‌-लकारे 'अन्ति' इति सिद्ध-तिङ्‌-प्रत्ययः अपि अजादि-अपित्‌-सार्वधातुकः | अतः उभयत्र कार्यं सम्पूर्णतया समानं— गम्‌ + अत्‌ → गच्छत्‌; गम्‌ + अन्ति → गच्छन्ति |


अनन्तरम्‌ उभयत्र धातुगणम्‌ अनुसृत्य यथासङ्गं शपं प्रबाध्य अन्ये विकरणप्रत्ययाः विहिताः भवन्ति | इत्युक्ते दशसु गणेषु कर्तरि शप्‌ इत्यनेन शप्-प्रत्ययः विहितः | तदा शप्‌-प्रत्ययं बाधित्वा दिवादिगणे दिवादिभ्यः श्यन्‌ (३.१.६९) इत्यनेन श्यन्‌, स्वादिगणे स्वादिभ्यः श्नुः (३.१.७३) इत्यनेन श्नु, तुदादिगणे तुदादिभ्यः शः (३.१.७७) इत्यनेन श, रुधादिगणे रुधादिभ्यः श्नम्‌ (३.१.७८) इत्यनेन श्नम्‌, तनादिगणे तनादिकृञ्भ्यः उः (३.१.७९) इत्यनेन उ, क्र्यादिगणे क्र्यादिभ्यः श्ना (३.१.९७) इत्यनेन श्ना | अतः कस्यचित्‌ धातोः सार्वधातुकलकारस्य वा शत्रन्तस्य वा रूपं जिज्ञासामश्चेत्‌, उभयत्र अस्माकं प्रथमप्रश्नः "अयं धातुः कस्मिन्‌ गणे अस्ति ?” इति भवेत्‌ |


सार्वधातुकलकारेषु शत्रन्तरूपेषु च इमे दश धातुगणाः पुनः द्वयोः धातुगण-समूहयोः विभक्ताः | एकस्मिन्‌ धातुगणसमूहे धातु-विकरणप्रत्यययोः संयोजनेन अदन्तं (ह्रस्व-अकारान्तम्‌) अङ्गं निष्पन्नम्‌; अपरस्मिन्‌ धातुगणसमूहे धातु-विकरणप्रत्यययोः संयोजनेन अनदन्तम्‌ अङ्गं निष्पन्नम्‌ |


प्रथम-धातुगणसमूहे— यत्र अङ्गम्‌ अदन्तं भवति— चत्वारः धातुगणाः वर्तन्ते | भ्वादिगणे शप्‌, दिवादिगणे श्यन्‌, तुदादिगणे श, चुरादिगणे शप्‌; एषु चतुर्षु धातुगणेषु धातु-विकरणप्रत्यययोः संयोजनेन यत्‌ अङ्गं निष्पन्नम्‌, तत्‌ सर्वदा अदन्तम्‌ | अतः एषां शत्रन्तप्रातिपदिकस्य निर्माणप्रक्रिया सदा समाना |


यथा—

१) भ्वादिगणे भू + शप्‌ → भव → भव + शतृ → भव + अत्‌ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → भवत्‌


२) दिवादिगणे नृत्‌ + श्यन्‌ → नृत्य → नृत्य + शतृ‌ → नृत्य + अत्‌ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → नृत्यत्‌


३) तुदादिगणे तुद्‌ + श → तुद → तुद + शतृ‌ → तुद + अत्‌ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → तुदत्‌


४) चुरादिगणे चुर्‌ + णिच्‌ → चोरि → चोरि + शप्‌ → चोरय → चोरय + शतृ‌ → चोरय + अत्‌ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः → चोरयत्‌


अतो गुणे (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९६) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९४) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |


शत्रन्तप्रातिपदिकस्य निर्माणे, एषु चतुर्षु धातुगणेषु साम्यम्‌ अस्ति यतोहि धातु-विकरणप्रत्यययोः संयोजनेन अदन्तम्‌ अङ्गं निष्पन्नम्‌ | भव, नृत्य, तुद, वोरय—चतुर्णाम्‌ अन्तिमो वर्णः ह्रस्व-अकारः | चतुर्णाम्‌ अपि अङ्गम्‌ अदन्तम्‌ इति कारणेन ततः अग्रे चतुर्णां कार्यं समानम्‌— अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः | परन्तु तस्मात्‌ प्राक्‌ यत्‌ विकरणनिमित्तीकृत्य कार्यम्‌ अस्ति धात्वङ्गे, तत्‌ भिद्यते विकरणभेदात्‌ |


आहत्य प्रथम-दृष्ट्या चतुर्णां साम्यम्‌— अतः चत्वारः मिलित्वा एकः धातुगणसमूहः | द्वितिय-दृष्ट्या चतुर्षु भिन्नता तु अस्ति, विकरणभेदात्‌ | एतदाधारेण प्रथम-धातुगणसमूहस्य कार्यं, द्वितीय-धातुगणसमूहस्य कार्यं च पृथक्तया वीक्ष्येते अस्माभिः| पुनः प्रथम-धातुगणसमूहे चतुर्षु भेदः विकरणभेदात्‌—अतः चतुरः गणान्‌ पृथक्‌ कृत्वा परिशीलयिष्यामः | तस्मात्‌ परमेव क्रमेण द्वितीयगणसमूहस्य (अनदन्तानाम्‌ इत्येषां गणानां) प्रातिपदिकनिर्माणप्रक्रियाम्‌ अवलोकामहै |


आरम्भात्‌ प्राक्‌, कर्तरि शप्‌ इत्यस्य कोऽर्थः शतृ‌-प्रसङ्गे इति पश्येम |


शतृ-प्रत्यये परे सर्वत्र शप्


कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |


कर्तरि नाम किम्‌ ? कस्मिंश्चित्‌ वाक्ये क्रियापदं कर्त्रर्थे चेत्‌, पूर्णवाक्यं कर्तरिप्रयोगे भवति | अतः तिङन्तप्रसङ्गे कर्तरि नाम वाक्य-स्तरे कर्तरिप्रयोगः | वाक्यं भावेप्रयोगे वा कर्मणिप्रयोगे वा चेत्‌, शप्‌ प्रत्ययः न विधीयते | अधुना कृदन्तप्रसङ्गे व्यवस्था भिन्ना यतोहि कृदन्तं विशेषणं न तु क्रियापदम्‌ | कृदन्तं कर्त्रर्थे कर्मण्यर्थे इत्यनेन केवलं शब्द-स्तरे सूचना, न तु वाक्य-स्तरे | कृदन्तं कर्त्रर्थे चेत्‌ यस्य पदस्य विशेषणं, तेन सह कर्तृ-सम्बन्धः | यथा "गच्छन्‌ बालकः" इत्यस्मिन्‌ द्वयोः पदयोः कर्तृसम्बन्धः— "यः गच्छति सः" इत्यर्थः | किन्तु वाक्य-स्तरे अयं बालक-शब्दः कर्तृपदं, कर्मपदम्‌, अथवा अन्यत्‌ किमपि (करणकारकं, सम्प्रदानकारकम्‌ इत्यादिकम्‌) अर्हति; अतः वाक्य-स्तरे न काऽपि सूचना, न कोऽपि सम्बन्धः | “अहं गच्छन्तं बालकं पश्यामि" इत्यस्मिन्‌ वाक्ये बालक-शब्दः कर्मपदं; तथापि "गच्छन्तं-बालकम्‌" इत्यनयोः कर्तृ-सम्बन्धो भवति— "यः बालकः गच्छति” इत्यर्थः; वाक्य-स्तरे "यः बालकः गच्छति, तम्‌” इति | अतः वृत्तान्ते शतृ-प्रत्ययः कर्त्रर्थे तु अस्ति एव, परन्तु वाक्यं कर्मणिप्रयोगे अर्हति— "मात्रा भोजनं खादन्‌ पुत्रः कथां श्राव्यते" | अत्र वाक्यं कर्मणिप्रयोगे, खादन्‌ पुत्रः कर्मपदं च |


कृदन्तं कर्मण्यर्थे चेत्‌, यस्य पदस्य विशेषणं, तेन सह कर्म-सम्बन्धः | यथा "वक्तव्या कथा"— अत्र कथा स्वयं वदति इति नार्थः, अपि तु या कथा उच्यते, सा केनचित्‌ वक्तव्या | अतः तव्यत्‌-प्रत्ययः कर्मण्यर्थे अस्ति न तु कर्त्रर्थे | अपि च सा वक्तव्या कथा वाक्य-स्तरे कर्तृपदं, कर्मपदं, किमपि भवितुम्‌ अर्हति | "इयं वक्तव्या कथा समीचीना; अनया एव वक्तव्यया कथया शिशोः निद्रा आगता" |


आहत्य तिङ्‌-प्रसङ्गे अपि कृत्‌-प्रसङ्गे अपि कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिरस्ति; व्यवहारः भिन्नः | शतृ-प्रत्ययः कर्त्रर्थे अपि च तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुकः— अतः सर्वत्र कर्तरि शप्‌ इत्यनेन धातु-शतृप्रत्यययोः मध्ये शप्‌-विकरणः प्रत्ययः विहितः |


शत्रन्तप्रातिपदिकस्य निर्माण-प्रक्रिया


शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. शतृप्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-शतृप्रत्यययोः मेलनम्‌


प्रथमे धातुगणसमूहे (भ्वादौ, दिवादौ, तुदादौ, चुरादौ) धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं तत्‌ सदा अदन्तम्‌, अतः शतृप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति | अस्य धातुगणसमूहस्य शन्त्रन्तरूपाणि प्रथमम्‌ अवलोकनीयानि | तदा द्वितीयधातुगणसमूहस्य वीक्षामहे, यत्र शतृप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्‌ अर्हम्‌ |


०३ - गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌.pdf



Swarup – Oct 2014