11 - धातुपाठे हल्-सन्धिः ४
एतावता अस्माभिर्दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत् हल्-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित् भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य) अवलोकितः | तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य) इति अस्माभिर्वीक्षितम् | अधुना धातुपाठे हल्-सन्धेः चतुर्थो भागः— हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः | अयं च धातुपाठे हल्-सन्धेरन्तिमो भागः |
A. धकारादि-प्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः—
१. हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
यथा—
वच् + हि → हुझल्भ्यो हेर्धिः इत्यनेन हि-स्थाने धि-आदेशः → वच् + धि
दुह् + हि → हुझल्भ्यो हेर्धिः इत्यनेन हि-स्थाने धि-आदेशः → दुह् + धि
लिह् + हि → हुझल्भ्यो हेर्धिः इत्यनेन हि-स्थाने धि-आदेशः → लिह् + धि
२. झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
यथा—
दोघ् + ति → झषस्तथोर्धोऽधः इत्यनेन झषन्तधातुतः त्-स्थाने ध्-आदेशः → दोघ् + धि
दुघ् + थः → झषस्तथोर्धोऽधः इत्यनेन झषन्तधातुतः थ्-स्थाने ध्-आदेशः → दुघ् + धः
३. मध्यमपुरुषबहुवचनस्य आत्मनेपदे लटि 'ध्वे', लोटि लङि च 'ध्वम्' भवति |
यदा धकारादि-प्रत्ययः सञ्जातः, तदा हलन्तधातुभ्यः धकारादिप्रत्ययानां योजनविधिः अधो यथा लिखितः, तथा कुर्वन्तु—
B. हलन्तधातुभ्यः धादिप्रत्ययः चेत् पञ्च सम्भावनाः
अत्र अस्माकं प्रमुखसिद्धान्तः जश्त्वम् | किमर्थम् ? प्रत्ययस्य आदौ यः धकारः अस्ति सः झशि अस्ति किल (वर्गस्य तृतीयचतुर्थयोरन्यतमो वर्णोऽस्ति) | यत्र प्रत्ययस्य आदौ सकारः, तकारः, थकारः च आसीत्, तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत् इति कारणतः खरि च इत्यनेन सर्वत्र चर्त्वं भवति स्म | परञ्च अधुना खर् न अपि तु झश् परे अस्ति अतः जश्त्वं भवति, नाम वर्गस्य तृतीयसदस्यादेशः | सूत्रम् इदम्—
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः एषु अन्यतमश्चेत्, धात्वन्ते जश्त्वम् [झलां जश् झशि] |
- क्, ख्, ग्, घ → ग् [झलां जश् झशि]
- शाशक् + हि → शाशक् + धि → शाशग् + धि → शाशग्धि
- च्, ज्, झ् → ग् [चोः कुः, झलां जश् झशि] |
- जाझर्झ् + हि → जाझर्झ् + धि → जाझर्घ् + धि → जाझर्ग् + धि → जाझर्ग्धि
- किन्तु व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् → ष् → ड् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश् झशि]
- यायज् + हि → यायज् + धि → यायष् + धि → यायष् +ढि → यायड् + ढि → यायड्ढि
- तुक्-सहित-छकारान्तधातुः इति चेत्, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं— पाप्रच्छ् + हि → पाप्रच्छ् + धि → पाप्रश् + धि → पाप्रष् + ढि → पाप्रड् + ढि → पाप्रड्ढि
- ट्, ठ्, ड्, ढ् → ड् [ष्टुना ष्टुः, झलां जश् झशि]
- पापठ् + धि → पापठ् + ढि → पापड् + ढि → पापड्ढि
- त्, थ्, द्, ध् → द् [झलां जश् झशि]
- अद् + हि → हुझल्भ्यो हेर्धिः → अद् + धि → अद्धि
- झरो झरि सवर्णे इत्यनेन हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे |
- रुन्ध् + हि → रुन्ध् + धि → रुन्द् + धि → रुन्द्धि → रुन्धि/रुन्द्धि
- प्, फ्, ब्, भ् → ब् [झलां जश् झशि]
- तेतेप् + हि → तेतेप् + धि → तेतेब् + धि → तेतेब्धि
2. धात्वन्ते शकारः चेत् श् → ष् → ड् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश् झशि]
- ईश् + ध्वे → ईष् + ध्वे → ईष् + ढ्वे → ईड् + ढ्वे → ईड्ढ्वे
3. धात्वन्ते षकारः चेत् ष् → ड् [ष्टुना ष्टुः, झलां जश् झशि]
- चक्ष् + ध्वे → चष् + ध्वे → चष् + ढ्वे → चड् + ढ्वे → चड्ढ्वे
4. धात्वन्ते सकारः चेत् स् → लोपः [धि च] (धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे |)
- वस् + ध्वे → धि च → व + ध्वे → वध्वे
5. धात्वन्ते ह् → ढ् → लोपः, धकारस्य ढकारः [हो ढः, ष्टुना ष्टुः, ढो ढे लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः]
- लिह् + धि → लिढ् + धि → लिढ् + ढि → लि + ढि → ली + ढि → लीढि
- दकारादि-हकारान्तधातोः चेत् ह् → घ् → ग् [दादेर्धातोर्घः, झलां जश् झशि]
- दुह् + धि → दुघ् + धि → दुग् + धि → दुग्धि
- दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे चेत् ह् → घ् → ग्; बश्→ भष् [दादेर्धातोर्घः, एकाचो बशो भष् झषन्तस्य स्ध्वोः, झलां जश् झशि]
- दिह् + ध्वे → दिघ् + ध्वे → धिघ् + ध्वे → धिग् + ध्वे → धिग्ध्वे
C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—
a. धातुः कवर्गान्तः, प्रत्ययः धकारादिः
सर्वत्र जश्त्वसन्धिः—
धात्वन्ते कवर्गीयवर्णस्य स्थाने जश्-आदेशः झलां जश् झशि (८.४.५३) इति सूत्रेण | (कवर्गस्य तृतीयसदस्यादेश इति |)
यथा—
शाशक् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → शाशक् + धि → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वादेशः → शाशग् + धि → वर्णमेलने → शाशग्धि
लेलिख् + हि → हुझल्भ्यो हेर्धिः → लेलिख् + धि → झलां जश् झशि→ लेलिग् + धि → वर्णमेलने → लेलिग्धि
तात्वङ्ग् + हि → हुझल्भ्यो हेर्धिः → तात्वङ्ग् + धि → झलां जश् झशि→ तात्वङ्ग् + धि → वर्णमेलने → तात्वङ्ग्धि
लालङ्घ् + हि → हुझल्भ्यो हेर्धिः → लालङ्घ् + धि → झलां जश् झशि→ लालङ्ग् + धि → वर्णमेलने → लालङ्ग्धि
b. धातुः चवर्गान्तः, प्रत्ययः धकारादिः
चवर्गस्य समूहत्रयम्—
१. सामान्यनियमः | धात्वन्ते च्, ज्, झ् वा चेत् |
- चवर्गस्य स्थाने कवर्गादेशो भवति चोः कुः (८.२.३०) इति सूत्रेण
- धात्वन्ते कवर्गीयवर्णस्य जश्-आदेशः झलां जश् झशि (८.४.५३) इति सूत्रेण |
यथा—
विच्* + श्नम् + ध्वे → → विन्च् + ध्वे → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क् + ध्वे → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक् + ध्वे → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वादेशः → विंग् + ध्वे → अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग् + ध्वे → वर्णमेलने → विङ्ग्ध्वे
युज्* + श्नम् + ध्वे → → युन्ज् + ध्वे → चोः कुः (८.२.३०) → → युङ्ग् + ध्वे → युङ्ग्ध्वे [यथा विचि विस्तरेण उक्तं, तथा |]
जाझर्झ् + हि → हुझल्भ्यो हेर्धिः → जाझर्झ् + धि → चोः कुः → जाझर्घ् + धि → झलां जश् झशि→ जाझर्ग् + धि → जाझर्ग्धि
*विच् च युज् च धातू रुधादिगणे स्तः; तत्र श्नम् इति विकरणप्रत्ययः धातोः मध्ये उपविशति | श्नम् इत्यस्मिन् अनुबन्धलोपे "न" अवशिष्यते | अग्रे यदा अस्माभिः रुधादिगणस्य सार्वधातुकप्रकरणं परिशील्यते, तदा सर्वाणि सोपानानि पश्येम | धेयं यत् अनुस्वारस्य परसवर्णादेशो भवति एकवारमेव, प्रक्रियायाः अन्ते | सूत्रसङ्ख्या इति कारणं, पूर्वत्रासिद्धम् इति सूत्रम् |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
पूर्वत्रासिद्धम् (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम् अधिकारसूत्रम्; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— पूर्वत्र असिद्धम् |
२. विशेषनियमः | एते चकारान्त-जकारान्तधातवः व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् चेत् |
अयं चोः कुः (८.२.३०) इत्यस्य अपवादः |
- एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण |
- प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |
- धात्वन्ते षकारस्य स्थाने जश्-आदेशः झलां जश् झशि (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
यथा—
वाव्रश्च् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → वाव्रश्च् + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन च्-स्थाने ष्-आदेशः → वाव्रष् + धि → ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → वाव्रष् + ढि → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वम् → वाव्रड् + ढि → वर्णमेलनम् → वाव्रड्ढि
बरीभ्रज्ज्* + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → बरीभ्रज्ज् + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → बरीभ्रष् + धि → ष्टुना ष्टुः (८.४.४१) → बरीभ्रष् + ढि → झलां जश् झशि (८.४.५३) → बरीभ्रड् + ढि → बरीभ्रड्ढि
सरीसृज्** + हि → हुझल्भ्यो हेर्धिः → सरीसृज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → सरीसृष् + धि → ष्टुना ष्टुः → सरीसृष् + ढि → झलां जश् झशि → सरीसृड् + ढि → सरीसृड्ढि
मरीमृज्** + हि → हुझल्भ्यो हेर्धिः → मरीमृज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → मरीमृष् + धि → ष्टुना ष्टुः → मरीमृष् + ढि → झलां जश् झशि → मरीमृड् + ढि → मरीमृड्ढि
यायज् + हि → हुझल्भ्यो हेर्धिः → यायज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → यायष् + धि → ष्टुना ष्टुः → यायष् +ढि → झलां जश् झशि → यायड् + ढि → यायड्ढि
राराज् + हि → हुझल्भ्यो हेर्धिः → राराज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → राराष् + धि → ष्टुना ष्टुः → राराष् + ढि → झलां जश् झशि → राराड् + ढि → राराड्ढि
बाभ्राज् + हि → हुझल्भ्यो हेर्धिः → बाभ्राज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → बाभ्राष् + धि → ष्टुना ष्टुः → बाभ्राष् + ढि → झलां जश् झशि → बाभ्राड् + ढि → बाभ्राड्ढि
*भ्रस्ज् इति मूल-धातुः; श्चुत्वं जश्त्वं च कृत्वा भ्रस्ज् → भ्रश्ज्→ भ्रज्ज् |
**सेर्ह्यपिच्च (३.४.८७) इत्यनेन अपित्त्वस्य अध्यारोपणात् गुण-वृद्धि-निषेधः |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्तोः ष्टुना ष्टुः संहितायाम् |
प्रश्नः उदेति किमर्थं ष्टुना ष्टुः (८.४.४१) सर्वदा पूर्वम् आयाति, झलां जश् झशि (८.४.५३) परमिति | पूर्वत्रासिद्धम् इति कारणम् | द्वे अपि सूत्रे त्रिपाद्याम् | तत्र सूत्रसङ्ख्या-दृष्ट्या ष्टुना ष्टुः इति पूर्वसूत्रं, झलां जश् झशि इति परसूत्रम् |
पूर्वत्रासिद्धम् (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम् अधिकारसूत्रम्; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— पूर्वत्र असिद्धम् |
३. छकारान्तधातोः वर्गद्वयम्—
तुक्-सहित-छकारान्तधातुः इति चेत्, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् |
पाप्रच्छ् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → पाप्रच्छ् + धि → च्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश्+ धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष् + धि → ष्टुना ष्टुः (८.४.४१) → पाप्रष् + ढि → झलां जश् झशि (८.४.५३) → पाप्रड् + ढि → पाप्रड्ढि
तुक्-सहित-छकारान्तधातुः नास्ति चेत्, चोः कुः (८.२.३०) इत्यनेन कुत्वम् |
वावाञ्छ् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → वावाञ्छ् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे तुक्-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ् + धि → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → नश्चापदान्तस्य झलि (८.३.२४) → वावांख् + धि → झलां जश् झशि (८.४.५३) → वावांग् + धि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → वावाङ्ग्धि
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः
- प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्-आदेशः (डकारः इति) झलां जश् झशि इति सूत्रेण |
यथा—
लोलुट् + धि → ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → लोलुट् + ढि → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वादेशः → लोलुड् + ढि → वर्णमेलने → लोलुड्ढि
पापठ् + धि → ष्टुना ष्टुः → पापठ् + ढि → झलां जश् झशि → पापड् + ढि → पापड्ढि
ईड् + ध्वे → ष्टुना ष्टुः → ईड् + ढ्वे → ईड्ढ्वे
धातुपाठे कोऽपि ढकारान्तधातुः नास्त्येव परन्तु हकारान्तः धातुः अस्ति चेत्, सामान्यनियमेन हो ढः इत्यनेन ह्-स्थाने ढ-आदेशो भवति इति जानीमः |
तृणेह् + धि → हो ढः इत्यनेन ह्-स्थाने ढ-आदेशः → तृणेढ् + धि → ष्टुना ष्टुः → तृणेढ् + ढि → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → तृणे + ढि → तृणेढि
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
d. धातुः तवर्गान्तः, प्रत्ययः धकारादिः
- धात्वन्ते तवर्गीयवर्णस्य स्थाने जश्-आदेशः (दकारः इति) झलां जश् झशि इति सूत्रेण |
- प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति यतः पूर्वं तवर्गीयवर्णः अस्ति |
यथा—
कृन्त् + हि → हुझल्भ्यो हेर्धिः → कृन्त् + धि → झलां जश् झशि इत्यनेन तृतीयसदस्यादेशः → कृन्द् + धि → कृन्द्धि → झरो झरि सवर्णे इत्यनेने विल्कपेन झरः लोपः → कृन्धि/कृन्द्धि
अद् + हि → हुझल्भ्यो हेर्धिः → अद् + धि → अद्धि
रुन्ध् + हि → हुझल्भ्यो हेर्धिः → रुन्ध् + धि → झलां जश् झशि इत्यनेन तृतीयसदस्यादेशः → रुन्द् + धि → रुन्द्धि → झरो झरि सवर्णे इत्यनेने विल्कपेन झरः लोपः → रुन्धि/रुन्द्धि
अत्र कृन्द्धि, रुन्द्धि इत्यनयोः विकल्पेन दलोपं कृत्वा कृन्धि, रुन्धि भवतः | सूत्रमस्ति झरो झरि सवर्णे इति; अधोलिखितं विवरणं कृपया पठ्यताम् | तदा रुन्ध्-धातोः उदाहरणं पश्याम— जश्त्वं कृत्वा रुन्द् + धि इति स्थितिः | अस्मिन् न् इति हल् दकारात् प्राक्, द् इति झर्, ध् इति दकारस्य सवर्णझर् दकारात् परे | अतः हल्-परतः दकारः, यस्मात् परे सवर्णझर् धकारः—इति स्थितिः | अस्यां दशायां हल्-परतः झरः दकारस्य विकल्पेन लोपः |
झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
e. धातुः शकारान्तः, प्रत्ययः धकारादिः
- शकारान्तधातोः अन्तिमशकारस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | अयं झलां जश् झशि (८.४.५३) इत्यस्य अपवादः (नो चेत् श्-स्थाने तृतीयसदस्य-जकारादेशः भवति स्म |)
- प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- धात्वन्ते षकारस्य स्थाने जश्-आदेशः झलां जश् झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
यथा—
ईश् + ध्वे → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन श्-स्थाने ष्-आदेशः → ईष् + ध्वे → ष्टुना ष्टुः इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → ईष् + ढ्वे → झलां जश् झशि इत्यनेन जश्त्वम् → ईड् + ढ्वे → वर्णमेलने → ईड्ढ्वे
f. धातुः षकारान्तः, प्रत्ययः धकारादिः
- प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- धात्वन्ते षकारस्य स्थाने जश्-आदेशः झलां जश् झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |
यथा—
चक्ष् + ध्वे → स्कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः → चष् + ध्वे → ष्टुना ष्टुः इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → चष् + ढ्वे → झलां जश् झशि इत्यनेन जश्त्वम् → चड् + ढ्वे → चड्ढ्वे
उष् + धि → ष्टुना ष्टुः→ उष् + ढि → झलां जश् झशि → उड् + ढि → उड्ढि
द्विष् + धि → ष्टुना ष्टुः→ द्विष् + ढि → झलां जश् झशि → द्विड् + ढि → द्विड्ढि
अचक्ष् + ध्वम् → स्कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः → अचष् + ध्वम् → ष्टुना ष्टुः→ अचष् + ढ्वम् → झलां जश् झशि → अचड् + ढ्वम् → अचड्ढ्वम्
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
g. धातुः सकारान्तः, प्रत्ययः धकारादिः
- धकारादि-प्रत्यये परे, सकारान्तधातोः सकारस्य लोपः धि च इति सूत्रेण | अयं झलां जश् झशि इत्यस्य अपवादः | (नो चेत् स्-स्थाने तृतीयसदस्य-दकारादेशः भवति स्म |)
यथा—
चकास् + धि → धि च इत्यनेन सकारस्य लोपः → चका + धि → वर्णमेलने → चकाधि
कंस् + ध्वे → धि च → कं + ध्वे → कंध्वे → अनुस्वारस्य ययि परसवर्णः → कन्ध्वे
आस् + ध्वे → धि च → आ + ध्वे → आध्वे
निंस् + ध्वे → धि च → निं + ध्वे → निंध्वे → अनुस्वारस्य ययि परसवर्णः → निन्ध्वे
आशास् + ध्वे → धि च → आशा + ध्वे → आशाध्वे
वस् + ध्वे → धि च → व + ध्वे → वध्वे
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
[अत्र ‘धकारादि-प्रत्यये परे’ इत्यस्य बोधनार्थम् अस्मिन् पाठे द्रष्टव्यम् |]
h. धातुः हकारान्तः, प्रत्ययः धकारादिः
१. सामान्यनियमः
- धकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः इति सूत्रेण |
- ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |
यथा—
लिह् + धि → हो ढः इत्यनेन झलि परे ह्-स्थाने ढ्-आदेशः → लिढ् + धि → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → लिढ् + ढि → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → लि + ढि → ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढ् इत्यस्य लोपानन्तरं पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढि → लीढि
लिह् + ध्वे → हो ढः → लिढ् + ध्वे → ष्टुना ष्टुः → लिढ् + ढ्वे → ढो ढे लोपः → लि + ढ्वे → ढ्रलोपे पूर्वस्य दीर्घोऽणः → ली + ढ्वे → लीढ्वे
जोगुह् + धि → हो ढः → जोगुढ् + धि → ष्टुना ष्टुः → जोगुढ् + ढि → ढो ढे लोपः → जोगु + ढि → ढ्रलोपे पूर्वस्य दीर्घोऽणः → जोगू + ढि → जोगूढि
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— ढ्रलोपे पूर्वस्य अणः दीर्घः |
२. दकारादि हकारान्तधातुतः धकारादिप्रत्ययस्य योजनविधिः
- धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
- धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दुह् + धि → दादेर्धातोर्घः इत्यनेन ह्-स्थाने घ्-आदेशः → दुघ् + धि → झलां जश् झशि इत्यनेन घ्-स्थाने ग्-आदेशः → दुग् + धि → दुग्धि
एवमेव—
दिह् + धि → दादेर्धातोर्घः → दिघ् + धि → झलां जश् झशि→ दिग् + धि → दिग्धि
दादेर्धातोर्घः (८.२.३२) = झलि पदान्ते च, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दादेः धातोः हः घः झलि पदस्य अन्ते च |
३. दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे
- ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |
- अधुना एकाच्-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |
- धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दिह् + ध्वे → दादेर्धातोर्घः इत्यनेन ह्-स्थाने घ्-आदेशः → दिघ् + ध्वे → एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यनेन बशः भष्-आदेशः → धिघ् + ध्वे → झलां जश् झशि इत्यनेन घ्-स्थाने ग्-आदेशः → धिग् + ध्वे → धिग्ध्वे
एवमेव—
दिह् + ध्वम् → धिग्ध्वम् |
दुह् + ध्वे → धुग्ध्वे
दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दादेः धातोः हः घः झलि पदस्य अन्ते च |
एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यस्य अनौपचारिकोऽर्थः—
धातोः आदौ बश् (ब, ग, ड, द) अपि च अन्ते झष् (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्-बशादि-झषन्तधातुः | यथा बन्ध्-धातुः, बुध्-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह् → दुघ्) तर्हि सोऽपि तादृशो धातुः | एकाच्-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत् '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत् अयं बश्-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच् चेदपि, तस्य धातोः एकाच्-बशादि-झषन्तधात्वंशः अस्ति चेत्, अत्रापि ३४ → ४४ इति विकारो भवति |
एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्य एकाचः | झष् अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स् च ध्व् च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च |
इति हलन्तेभ्यो धातुभ्यः धकारादि-प्रत्ययस्य योजनविधिः |
११ - धातुपाठे हल्-सन्धिः ४.pdf (96k)
Swarup – October 2013 (Updated June 2015 & 16)