06 - सुवर्णं तैजसं द्रव्यम्
ध्वनिमुद्रणानि |
---|
१) suvarNaM-taijasaM-dravyam_2015-12-12 |
२) suvarNaM-taijasaM-dravyam_2015-12-14 (रक्षा-भगिन्याः वर्गः) |
तर्कसङ्ग्रहः इति ग्रन्थे सुवर्णं तैजसम् इति उक्तम् | कथनस्य आशयः एवं यत् सुवर्णे तेजः मुख्यांशः | पृथिवी अपि अस्ति | यथा अस्माकं शरीरे पृथिवी इति मुख्यांशः, किन्तु जलम्, अग्निः, वायुः, आकाशः इति द्रव्याणि अपि सन्ति | तथैव सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति इति नैयायिकानां मतम् | अत्र सुवर्णम् इत्यस्य वदनेन सर्वं लौहम् अन्तर्भूतम्— सुवर्णं, रजतम्, अयः, ताम्रम् इत्यादिकम् |
पूर्वपक्षः = सुवर्णं पार्थिवं द्रव्यम् | पूर्वपक्षी प्रायः चार्वाकः | पूर्वपक्षिणः अनुमानद्वयम् |
१) सुवर्णं पार्थिवं पीतरूपवत्त्वात् | हरिद्रावत् |
सुवर्णे पीतरूपम् अस्ति | परन्तु पीतरूपं केवलं पृथिव्यां भवति |
तेजसि भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपम् | अन्यत् सर्वं रूपं पृथिव्याम् एव | अतः सुवर्णस्य पीतरूपवत्त्वात् सुवर्णं पृथिवी एव भवेत् | यथा हरिद्रा | हरिद्रा पीतरूपवती, अतः पार्थिवद्रव्यम् | तथैव पीतरूपवत्त्वात् सुवर्णम् अपि पृथिवी भवेत् |
२) सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् | पुस्तकवत् |
सुवर्णं पार्थिवं गुरुत्वात् | सुवर्णम् उपरिष्टात् त्यजामश्चेत् पतति, यथोहि तस्मिन् गुरुत्वम् अस्ति | पृथिव्यां जले चैव गुरुत्वं वर्तते | उभयत्र गुरुत्वम्; अन्यत्र कुत्रापि गुरुत्वं न लभ्यते | यथा तेजसि गुरुत्वं नास्ति | अग्नेः दीपस्य च प्रकाशः उपरि अपि गच्छति, अधः अपि गच्छति यतोहि तेजसि गुरुत्वं नास्ति | परन्तु सुवर्णम् अधः एव पतति अतः तस्मिन् गुरुत्वम् | गुरुत्वं पृथिव्यां जले एव इति उक्तम् | सुवर्णं जलं न इति सर्वेषां सम्मतम् | आहत्य सुवर्णं जलापेक्षया भिन्नं, परन्तु तस्मिन् गुरुत्वम् अस्ति अतः पृथिवी एव स्यात् |
सिद्धान्तः = सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति | सिद्धान्ती नैयायिकः |
पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति | इत्युक्तौ द्रवत्वस्य हेतुः अस्ति चेत्, कानिचन पार्थिवद्रव्याणि द्रवस्य आकारं प्राप्नुवन्ति | यथा घृतम् | अग्निसंयोगे सति, घृतं द्रवः भवति; घृते द्रवत्वम् उत्पद्यते | तस्मिन् घृते पुनः इतोऽपि तेजसंयोगः क्रियते चेत्, तत् द्रवत्वं नश्यति |
अधुना पात्रद्वयम् अस्ति | बृहति पात्रे जलं संस्थापितम् | तस्मिन् जले पुनः लघु पात्रं स्थापितं, यस्मिन् घृतम् अस्ति | बृहत्पात्रस्य अधः अग्निः आरब्धः | उष्णसंयोगेन घनं घृतं द्रवः भवति; ततः अग्रे यावत् अग्निसंयोगं करोति, घृते विद्यमानं द्रवत्वं न नश्यति; अग्निघृतयोः मध्ये यत् जलम् अस्ति, तत् जलं घृतद्रवत्वनाशं प्रतिबध्नाति | अतः घृतद्रवत्वनाशं प्रति जलं प्रतिबन्धकम् इत्युच्यते |
असति प्रतिबन्धके, अत्यन्तानलसंयोगे पार्थिवद्रवत्वं नश्यति | घृतं यत् घनम् आसीत्, अग्निसंयोगेन द्रवः जातः; तदा अत्यन्तानलसंयोगे पुनः घनम् आकारं प्राप्तम् | घृतं ज्वलति, तस्य च कृष्णरूपं भवति | परन्तु जलप्रतिबन्धके सति, अत्यन्तानलसंयोगे सति अपि पार्थिवद्रवत्वं न नश्यति | जलादिप्रतिबन्धकं नास्ति चेत् अत्यन्तानलसंयोगे सति पार्थिवद्रवत्वं नश्यति |
अधुना सुवर्णम् | अनलसंयोगे सति सुवर्णं द्रवः भवति; अत्यन्तानलसंयोगे सति अपि द्रवत्वं तिष्ठति एव; सुवर्णं पुनः घनं न भवति | यद्यपि अग्निसुवर्णयोः मध्ये जलं न स्यात्, तथापि सुवर्णस्य द्रवत्वं तिष्ठति | अतः सुवर्णस्य अन्तः एव द्रवत्वनाशं प्रति किञ्चन प्रतिबन्धकं स्यात् | तच्च प्रतिबन्धकं पृथिवी न भवितुम् अर्हति यतोहि अनलसंयोगे पृथिवी स्वयं ज्वलति | जलम् अपि न भवितुम् अर्हति सुवर्णे जलस्य अभावात्; तत्र सर्वेषाम् अङ्गीकारः | वाय्वादिषु द्रव्येषु रूपाभावात् सुवर्णे न भवितुम् अर्हन्ति | केवलं तेजः अवशिष्यते, अतः सुवर्णे द्रवत्वनाशं प्रति विद्यमानं प्रतिबन्धकं तेजः एव स्यात् |
अत्र किमर्थं सुवर्णं तैजसम् इति विषये विचारः जातः | अधः दीपिकाग्रन्थस्य कश्चन भागः उद्धृतः यस्मिन् एतत् सर्वं प्रतिपादितम् | अग्रे पठ्यतां; कुत्र पर्यन्तं स्वस्य बोधः सम्पूर्णः इति दृश्यताम् |
दीपिका — सुवर्णतैजसत्ववादः
ननु सुवर्णं पार्थिवं पीतत्वात्, गुरुत्वात्, हरिद्रावत् इति चेत् !
न, अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृते
द्रवत्वनाशादर्शनेन, असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः
कार्यकारणभावावधारणात् | सुवर्णस्य अत्यन्तानलसंयोगे सति
अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः | तस्मात्
पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ
नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिषु
अनन्तर्भावात् तैजसत्वसिद्धिः | तस्योष्णस्पर्शभास्वररूपयोः
उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः |
तस्मात् सुवर्णं तैजसमिति सिद्धम् |
अधः पुनः अयमेव भागः दत्तः; उपरि सारल्यार्थं पूर्णविरामाः स्थापिताः किञ्च अस्मिन् अंशे वास्तविकम् एकं वाक्यम् अतीव दीर्घं; तस्य प्रदर्शनार्थं भिन्नरीत्या अधः लिखितम् |
ननु सुवर्णं पार्थिवं पीतत्वाद्गुरुत्वात् हरिद्रावतिति चेत् न;
अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन,
जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके
पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्
सुवर्णस्य अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन
पार्थिवत्वानुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया
द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः
रूपवत्तया वाय्वादिषु अनन्तर्भावात्तैजसत्वसिद्धिः।
तस्योष्णस्पर्शभास्वररूपयोः उपष्टम्भकपार्थिवरूपस्पर्शाभ्यां
प्रतिबन्धादनुपलब्धिः। तस्मात्सुवर्णं तैजसमिति सिद्धम्।
Swarup – December 2015
---------------------------------