03C - तत्पुरुषसमासः - कर्मधारयः

From Samskrita Vyakaranam
14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH
Jump to navigation Jump to search


3) कर्मधारयसमासः

कर्मधारयसमासः तत्पुरुषसमासस्य एव एकः प्रकारः अस्ति । यत्र तत्पुरुषसमासे समानाधिकरण्यं वर्तते तत्र कर्मधारयः इति संज्ञा भवति तत्पुरुषसमासस्यैव । कर्मधारयसमासे पूर्वपदम् अपि प्रथमाविभक्तौ भवति, उत्तरपदम् अपि प्रथमाविभक्तौ एव भवति, पूर्वोत्तरपदयोः समानाधिकरण्यं भवति ।


तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) = तत्पुरुषः इति समासविशेषस्य संज्ञां वक्ष्यति । सः तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति । समानाधिकरणः इति शब्दः समानविभक्तिकत्वं बोधयति । समासे यदि पूर्वपदस्य अपि च उत्तरपदस्य समानविभक्तिः भवति तर्हि सः समासः कर्मधारयसंज्ञां प्राप्नोति । तत्पुरुषः प्रथमान्तं, समानाधिकरणः प्रथमान्तं, कर्मधारयः प्रथमान्तं, त्रिपदमिदं सूत्रम् । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम् — समानाधिकरणःतत्परुषः समासः कर्मधारयः ।



कडाराः कर्मधारये (२.२.३८) = कडारादयः कर्मधारये समासे विकल्पेन पूर्वं प्रयोक्तव्याः । कर्मधारयसमासे कडारादिशब्दानां पूर्वनिपातः भवति । कडाराः प्रथमान्तं, कर्मधारये सप्तम्यन्तम् । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । आकडारात् एका संज्ञा (१.४.१) इत्यस्य अधिकारः । वाहिताग्न्यादिषु (२.२.३७) इत्यस्मात् सूत्रात् वा इत्यस्य अनुवृत्तिः । उपसर्जनं पूर्वम्‌ (२.२.३०) इत्यस्मात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रम्‌ — कडाराः पूर्वं कर्मधारये समासे वा


कडारादिगणे एते शब्दाः सन्ति -कडार, गडुल, काण, खञ्ज, कुण्ठ, खञ्जर, खलति, गौर, वृद्ध, भिक्षुक, पिङ्गल, तनु, वटर।


यथा –


कडारश्चासौ जैमिनिश्च = कडारजैमिनिः


विकल्पेन विग्रहः एवम् अपि भवति - मिनिश्चासौ कडारश्च = जैमिनिकडारः


पुंवद्भावः


समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते |

यथा –


उत्तमा + बालिका → उत्तमबालिका


अस्मिन्‌ उदाहरणे समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम्‌ | तथा च द्वयोः अपि अर्थः सा बालिका — अतः एकार्थबोधकत्वम्‌ अपि अस्ति | समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति — अतः सामानाधिकरण्यम्‌ अस्ति | सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः सम्भवति | इति नियमः |


समासे यत्र सामानाधिकरण्यं, तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः |


तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते ? कर्मधारय-समासे बहुव्रीहि-समासे च | अन्यत्र न |


उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः | अत्र समान-विभक्तिकत्वम्‌ अस्ति किल | रामः च कृष्णः च, रामकृष्णौ | रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः | किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति | सामानाधिकरण्यम्‌ इत्युक्ते समान-विभक्तिकत्वम्‌ एव न | एकार्थबोधकत्वम्‌ अपि आवश्यकम्‌ | रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति | अतः सामानाधिकरण्यं नास्ति |


अतः स्त्रीयां द्वन्द्वसमासः अस्ति चेत्‌, समान-विभक्तिकत्वम्‌ भवेत्‌ किन्तु सामानाधिकरण्यं नास्ति अतः पुंवद्भावः न भवति | लीलासीते इति |


शुद्धभाषा इति पदे सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः |


अत्र प्रश्नः उदेति, कुत्र कुत्र पंवद्भावो भवति ? यथा आम्रः इति वृक्षः 'आम्रवृक्षः' इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत्‌, पंवद्भावो भवति किम्‌ ? उत्तरत्वेन सामानाधिकरण्यम्‌ इति तु अपेक्षितमेव; इदमपि संयोजनीयम्‌ अस्ति यत्‌ भाषितपुंस्कानामेव पंवद्भावो भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः |


यथा विद्या एव धनं, विद्याधनम्‌ | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति |


पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात्‌ शब्दात्‌ स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव |


सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते |


त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत्‌ भवति |

सुन्दरी नदी → सुन्दरनदी |


बहुव्रीहिसमासे अपि भवति | तत्र समानाधिकरणबहुवीहिसामासः इति कश्चन प्रमुकप्रकारकः बहुव्रीहिः | यथा विशाला नासिका यस्य सः, विशालनासिकः | अपि च विशाला नासिका यस्याः सा, विशालनासिका | विशाला इति शब्दः भाषितपुंस्कः | तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन्‌ सन्दर्भे, अपरस्मिन्‌ अर्थे विशेषणपूर्वपद-कर्मधारयसमासः भवितुम्‌ अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति | उभयत्र सामानाधिकरण्यम्‌ अस्ति |


कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति; तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं, नियतलिङ्गम्‌ | विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम्‌ अस्ति चेत्‌, पुंवद्भावो भवति | यथा शीतम्‌ उष्णं, शीतोष्णम्‌ | रोटिका पूर्णतया शीता अपि नास्ति, पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः | शीता च सा उष्णा च, शीतोष्णा रोटिका |


आहत्य विशेषणपूर्वपद-कर्मधारयसमासः, विशेषणोभयपद-कर्मधारयसमासः, समानाधिकरणबहुवीहिसामासे च, एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति |


अपरेषु स्थलेषु कर्मधारयसमासः भवति — मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपद-कर्मधारयसमसः, नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपद-कर्मधारयसमसः, किन्तु एषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति |


अतः यत्र सामानाधिकरण्यम्‌ अस्ति (अनेन एकार्थबोधकत्वम्‌ अस्ति, समान-विभक्तिकत्वञ्च अस्ति),अपि च (१) पूर्वपदं विशेषणं अस्ति,(२) स च पूर्वपदं भाषितपुंस्कम्‌ अस्ति, तत्र पुंवद्भावः |


कर्मधारयसमासे, बहुव्रीहौ च पुंवद्भावः भवति एतेन सूत्रेण -

पुंवत् कर्मधारयजातीयदेशीयेषु (६.३.४२) = कर्मधारये समासे, जातीय, देशीय च इत्येतयोश्च प्रत्यययोः, भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति । कर्मधारयश्च जातीश्च देशीयश्च तेषामितरेतरयोगद्वन्द्वः कर्मधारयजातीयदेशीयास्तेषु कर्मधारयजातीयदेशीयेषु । पुंवद् अव्ययं, कर्मधार्यजातीयदेशीयेषु सप्तम्यन्तम् । स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु ( ६.३.३४) इत्यस्मात् सूत्रात् स्त्रियाः, भाषितपुंस्कात् तथा अनूङ् इत्यस्य अनुवृत्तिः अस्ति । अनुवृत्ति-सहित-सूत्रम्‌ — कर्मधारयजातीयदेशीयेषु स्त्रियाः भाषितपुंस्कात् अनूङ् पुंवत्


यथा –


महती नवमी = महानवमी । अत्र सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (२.१.६१) इत्यनेन कर्मधारयसमासः विधीयते। महती शब्दस्य पुंवद्भावः भूत्वा आन्महतः समानाधिकरणजातीययोः (६.३.४६) इति सूत्रेण महत् शब्दस्य तकारस्य आकारादेशः भवति । आन्महतः समानाधिकरणजातीययोः (६.३.४६) इति सूत्रं वदति समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परे महतः शब्दस्य आकारादेशो भवति । महादेवः। महाब्राह्मणः । महाबाहुः । महाबलः । जातीये- महाजातीयः ।


कृष्णा चतुर्दशी = कृष्णचतुर्दशी ।


महती चासौ प्रिया = महाप्रिया ।


पाचिका चासौ स्त्री = पाचकस्त्री ।


दत्ता चासौ भार्या = दत्तभार्या ।


पञ्चमी चासौ भार्या = पञ्चमीभार्या ।


सुकेशी चासौ भार्या = सुकेशभार्या ।


पाचिका जातीया = पाचिकजातीया ।

पाचिका देशीया = पाचिकदेशीया ।
सम्प्रति कर्मधारयसमाससम्बद्धसूत्राणि क्रमेण पठिष्यामः । कर्मधारयसमासस्य प्रभेदान् परिशीलयामः।


१) विशेषणपूर्वपदकर्मधारयसमासः - पूर्वकाल, एक, सर्व, जरत्, पुराण, नव, केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति ।

पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) = पूर्वकाल, एक, सर्व, जरत्, पुराण, नव, केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूर्वकालश्च एकश्च सर्वश्च जरत् च पुराणश्च नवश्च केवलश्च तेषामितरेतरयोगद्वन्द्वः पूर्वकालैकसर्वजरत्पुराणनवकेवलाः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः प्रथमान्तं, समानाधिकरणेन तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — पूर्वकालैकसर्वजरत्पुराणनवकेवलाः सुपः समानाधिकरणेन सुपा सह विभाषा तत्परुषः समासः



अस्मिन् सूत्रे पूर्वकालैकसर्वजरत्पुराणनवकेवलाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं पूर्वकालैकसर्वजरत्पुराणनवकेवलाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


उदा-


एकश्चासौ नाथः – एकनाथः


सर्वे च ते याज्ञिकाः = सर्वयाज्ञिकाः


जरन्तश्च ते नैयायिकाः = जरन्नैयायिकाः (वृद्धनैयायिकाः) ।


पुराणाश्च ते मीमांसकाः च = पुराणमीमांसकाः


नवाश्च ते पाठकाः च = नवपाठकाः


केवलाश्च ते वैयाकरणाः च = केवलवैयाकरणाः


२) दिग्वाचिनः शब्दाः, सङ्ख्यावाची शब्दः च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञायां विषये


दिक्संख्ये संज्ञायाम्‌ (२.१.५०) = दिग्वाचिनः शब्दाः, सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञायां विषये । दिक् च सङ्ख्या च तयोरितरेतरद्वन्द्वो दिक्सङ्ख्ये । दिकसङ्खये प्रथमान्तं, संज्ञायां सप्तम्यन्तं, द्विपदमिदम् सूत्रम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः । समानाधिकरणेन इत्यस्य अधिकारः द्वितीयाध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् अस्ति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । अत्र सुप् इति शब्दस्य विभक्तिपरिमाणः इति कृत्वा प्रथमाविभक्तौ द्विवचने भवति । अनुवृत्ति-सहित-सूत्रम्‌ — संज्ञायां दिक्सङ्ख्ये सुपि समानाधिकरणेन सुपा सह विभाषा तत्परुषःसमासः


वस्तुतः इदं सूत्रं केवलं वदति यत्‌ दिगवाचकं, सङ्ख्यावाचकं सुबन्तं पदं च समानाधिकरणेन सुबन्तेन सह द्विगुतत्पुरुषसमासः भवति केवलं संज्ञायां विषये एव । अयं च समासः विशेषणं विशेष्येण बहुलम् (२.१.५७) इत्यनेन एव सिद्धः खलु | तर्हि पुनः संज्ञायाम् इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं समासः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | संज्ञायाः इत्यस्य पुनः कथनेन केवलं संज्ञायाम् एव दिग्वाचकं सुबन्तम् अपि च संङ्ख्यावाचि सुबन्तं, तयोः समासः भवति समानाधिकरणेन सुबन्तेन सह, न अन्यत्र इति फलितार्थः |


दिग्वाचकपदेन सह समासस्य उदाहरणम्

पूर्वा + इषुकामशमी = पूर्वेषुकामशमी (पूर्वा इति दिग्वाचकः शब्दः अस्ति । समासानन्तरं पूर्वेषुकामशमी इति ग्रामवाचकं पदं भूत्वा संज्ञार्थम् अपि सूचयति । अर्थात् पूर्वेषुकामशमी इति एकः प्राचीनः ग्रामः।



सङ्ख्यावाचिपदेन सह समासस्य उदाहरणम्


सप्त च ते ऋषयः च = सप्तर्षयः सप्तानाम् ऋषिनां समूहः इति कारणेन सप्तर्षयः पदं संज्ञार्थे अस्ति। सप्त इति पदं संङ्ख़्यावाचकं पदम् अस्ति । अलौकिकविग्रहः – सप्तन् + जस् + ऋषि + जस् । अत्र दिक्संख्ये संज्ञायाम्‌ (२.१.५०) इति सूत्रेण कर्मधारयसमासः भवति ।


उत्तराः वृक्षाः, अत्र उत्तरवृक्षाः इति समासः न भवति दिक्संख्ये संज्ञायाम्‌ (२.१.५०) इति सूत्रेण यतः उत्तरवृक्षाः इति संज्ञापदं नास्ति । एवमेव पञ्चब्राह्मणाः इति समासः अपि न भवति दिक्संख्ये संज्ञायाम्‌ (२.१.५०) इति सूत्रेण ।


३) विशेषणोत्तरपदकर्मधारयः - निन्दवाचकस्य सुबन्तस्य समानाधिकरणेन निन्द्यबोधकेन सुबन्तेन सह विकल्पेन समासः भवति, तत्पुरुषश्च भवति ।


कुत्सितानि कृत्सनैः (२.१.५३) = निन्दवाचकस्य सुबन्तस्य समानाधिकरणेन निन्द्यबोधकेन सुबन्तेन सह विकल्पेन समासः भवति, तत्पुरुषश्च भवति । कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। कुत्सितः इति पदस्य अर्थः – निन्दितः इति, कुत्सनम् इति पदस्य अर्थः – निन्दायाः हेतुः इति ।कुत्सितानि प्रथमान्तं, कुत्सनैः तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — कुत्सितानि सुपः कुत्सनैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः


अस्मिन् सूत्रे कुत्सितानि इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं कुत्सितानि इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


यथा—


वैयाकरणश्चासौ खसूचिश्च = वैयाकरणखसूचिः ।


मीमांसकश्चासौ दुर्दुरूढश्च = मीमांसकदुर्दुरूढः (मीमांसकः यः नास्तिकः) ।


४) पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति।

पापाणके कुत्सितैः (२.१.४४) = पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति। एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति। पापश्च अणकश्च तयोरितरेतरयोगद्वन्द्वः पापाणके। पापाणके प्रथमाद्विवचनान्तं, कुत्सितैः तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — पापाणके सुपौ कुत्सितैः समानाधिकरणैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः


एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति यतो हि पापः तथा अणकः, तयोः शब्दयोः नापितः, कुलालः इत्यादिभिः शब्दैः सह समासः कुत्सितानि कृत्सनैः (२.१.५३) इत्यनेन एव सिध्यति। पुनः अत्र उक्तं पूर्वनिपातार्थमेव। कुत्सितानि कृत्सनैः (२.१.५३) इति सूत्रेण तु कुत्सितानां पदानां पूर्वनिपातः भवति परन्तु तद् न इष्यते अत्र पापः अपि च अणकः इत्यनयोः शब्दयोः कृते अतः पृथक्तया नूतनं सूत्रं उक्तम् ।


अस्मिन् सूत्रे पापाणके इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं पापाणके इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

यथा — पापश्चासौ नापितश्च = पापनापितः ।

पापश्चासौ नापितश्च = पापनापितः ।

अनकश्चासौ कुलालश्च = अणककुलालः ।



५) उपमानपूर्वपदकर्मधार्यः

उपमायाः अवगमनार्थं चत्वारः विषयाः अवगन्तव्याः –१) उपमानम्, २) उपमेयम् ३) उपमानवाचकः शब्दः ४) साधारणधर्मः । उपमानं नाम येन तुलना क्रियते, उपमेयं नाम यस्य तलना क्रियते, उपमावाचकः शब्दः नाम तादृशः शब्दः येन कारणेन उपमायाः ज्ञानं भवति, साधारणधर्मः नाम तादृशः धर्मः यः उपमाने अपि अस्ति उपमेये अपि अस्ति ।


यथा मेघः इव श्याम: कृष्णः - अस्मिन् उपमावाक्ये मेघः उपमानं यतोहि कृष्णस्य तुलना क्रियते मेघेन सह, कृष्णः उपमेयं यतोहि तस्य तुलना क्रियते, इव इति शब्दः उपमावाचकं पदं, श्यामत्वम् इति साधरणधर्मः यतोहि सः धर्मः वर्तते कृष्णे अपि च मेघे ।


उपमानानि सामान्यवचनैः (२.१.४५) = उपमानवाचकानि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । उपमीयते अनेन इत्युपमानम् । सामान्यं धर्मम् उक्तवन्तः इति सामन्यधर्माः, तैः सामान्यवचनैः । अस्य सूत्रस्य प्रयोजनं यत् उपमानशब्दस्य पूर्वनिपातः भवेत् इति । उपमानानि प्रथमान्तं, सामान्यवचनैः तृतीयान्तं, द्विपदमिदं सूत्रम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रं — उपमानानि सुपः सामान्यवचनैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः


उपमायां त्रीणि वस्तूनि आवश्यकानि- उपमानम्, उपमेयम्, साधरणधर्मः । उपमानं नाम येन सह अन्यस्य वस्तुनः सादृश्यं प्रकटनं भवति । उपमेयं नाम यस्य वस्तुनः तुलनां क्रियते । साधारणधर्मः नाम समानानां भावः, अर्थात् उपमानोपमेयोः विद्यमाना समानता साधारणधर्मः अस्ति ।


अस्मिन् सूत्रे उपमानवाचकस्य साधरणधर्मेण सुबन्तेन सह समासः भवति । अत्र उपमानं पूर्वं तिष्ठति, उपमेयम् उत्तरपदे तिष्ठति ।


अस्मिन् सूत्रे उपमानानि इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं उपमानानि इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


यथा —


घनः इव श्यामः = घनश्यामः । लौकिकविग्रहवाक्ये इव इति शब्दस्य प्रयोगः भवति ।


कर्पूरः इव गौरः = कर्पूरगौरः । गौरः इतयुक्ते श्वेतवर्णः इति ।



६) उपमानोत्तरपदकर्मधार्यः


उपमितं व्याघ्राधिभिः सामान्याप्रयोगे (२.१.४६) = उपमेयं व्याघ्रादिभिः सुबन्तैः सह साधारणधर्मस्य अप्रयोगे समस्यते, तत्पुरुषश्च समासो भवति। व्याघ्रः आदिर्येषां ते व्याध्राद्यस्तैव्यार्घ्रादिभिः । सामान्यस्य अप्रयोगः सामान्याप्रयोगस्तस्मिन् सामान्याप्रयोगे । उपमितं प्रथमान्तं, व्याघ्रादिभिः तृतीयान्तं, सामान्याप्रयोगे सप्तम्यन्तम् । उपमानानि सामान्यवचनैः (२.१.४५) इति सूत्रे विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रे च विशेषणस्यै पूर्वनिपातः भवति, तन्नेष्टः अस्मिन् सूत्रे । विशेष्यस्य पूर्वनिपातः भवतु इति कृत्वा एतत् सूत्रं योजितम् अस्ति । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रं — उपमितं सुप् व्याघ्राधिभिः सामान्याप्रयोगे समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे उपमितम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं उपमितम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


अत्र उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति परन्तु साधरणधर्मस्य प्रयोगः न स्यात् । यथा नरः व्याघ्रः इव = नरव्याघ्रः, अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति । अत्रः विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण एव समासः भवितुम् अर्हति अतः किमर्थम् एतस्य सूत्रस्य आवश्यकता ? यदि विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण समासः भवति तर्हि विशेषणम् इति प्रथमान्तपदस्य उपसर्जनसंज्ञा भवति येन तस्य पूर्वनिपातः भवति । यदि तथा भवति चेत् व्याघ्रः इति विशेषणं पदं पूर्वं तिष्ठति । परन्तु अत्र समस्तपदे नरः इति विशेष्यं पूर्वपदे अस्ति । यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण समासं कर्तुं न शक्यते । तदर्थम् एतस्य सूत्रस्य आवश्यकता अस्ति । नरव्याघ्रः इति समासे विशेष्यं पूर्वं वक्तुम् इच्छामः अतः एतस्य सूत्रस्य आवश्यकता अस्ति ।


अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति यतो हि अस्मिन् सूत्रे सामान्याप्रयोगः इति उक्तम् । यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमितं व्याघ्राधिभिः सामान्याप्रयोगे (२.१.४६) इति सूत्रं कार्यं न करोति । उक्तवाक्ये पुरुषः, व्याघ्रः च अनयोः सादृश्यं बोधनार्थं शूरः इति पदस्य प्रयोगः अस्ति अत एव समासः न भवति ।


यथा—


पुरुषो व्याघ्रः इव = पुरुषव्याघ्रः


नः सोमः इव = नृसोमः।


७) विशेषणपूर्वपदकर्मधारयसमासः - विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति ।


विशेषणं विशेष्येण बहुलम् (२.१.४७) = भेदकं विशेषणं, भेद्यं विशेष्यम् । विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति । समानविभक्तेः कारणेन एतस्य समासस्य नाम कर्मधारयसमासः इति अपि कथ्यते । बहुलम् इति कथनेन एषः समासः कुत्रचित् नित्यः, कुत्रचित् विकल्पेन भवति , कुत्रचित् अप्रवृत्तिः अपि भवति । बहुलं विशेषणं प्रथमान्तं, विशेष्येण तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — विशेषणं सुप् समानाधिकरणेन विशेष्येण सुपा सह बहुलं तत्परुषः समासः


अस्मिन् सूत्रे विशेषणम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं विशेषणम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


अस्मिन् सूत्रे बहुलम् इत्यस्य अर्थः विकल्पः इति नास्ति । बहुलम् इत्यनेन कुत्रचित् समासः नित्यं भवति, कुत्रचित् विकल्पेन भवति, कुत्रचित् समासस्य कार्यम् एव न भवति । नित्यम् इत्यस्य अर्थः अस्ति यत् व्यस्तप्रयोगः न भवति इति । यत्र कृष्णसर्पः इति वक्तुम् इच्छाम, तत्र समासः नित्यः यतोहि यस्य कस्यापि सर्पस्य नाम कृष्णसर्पः इति नास्ति । कृष्णसर्पः इत्युक्ते एकविधः विशिष्टः सर्पः ।


यथा-


नीलम् च तद् उत्पलम् च / नीलम् उत्पलं = नीलोत्पलम्


निर्मलाश्च ते गुणाः च / निर्मला गुणाः = निर्मलगुणाः


कृष्णा चासौ चतुर्दशी च / कृष्णा चतुर्दशी = कृष्णचतुर्दशी (अत्र स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रयादिषु (६.३.३४) इति सूत्रेण कृष्णा इति शब्दस्स्य पुंवद्भावं कृत्वा कृष्णचतुर्दशी इति समस्तपदं भवति।


अखिलानि च तानि भूषणानि च / अखिलानि भूषणानि = अखिलभूषणानि


कृष्णश्च असौ सर्पः च / कृष्णः सर्पः = कृष्णसर्पः – अत्र नित्यसमासः भवति। सूत्रे बहुलम् इति शब्दप्रयोगेन कुत्रचित् समासः नित्यः भवति इति पूर्वोक्तम् ।


रामश्चासौ जामाद्गन्यः = द्वयोः पदयोः सामानाधिकरणयम् अस्ति तथापि समासः न भवति ।


बहुलम् इति शब्दस्य चत्वारः अर्थाः भवन्ति-

१) कुत्रचित् नित्यरूपेण कार्यं प्रवृत्तं भवति

२) कुत्रचित् नित्यरूपेण कार्यं अप्रवृत्तं भवति

३) कत्रचित् विकल्पेन कार्यं भवति;

४) कुत्रचित् किञ्चित् भिन्नरूपेण कार्यं भवति ।


बालमनोरमा इति टीकाग्रन्थे लिख्यते यत् गुणवाचकपदं, क्रियावाचकपदं च, तयोः योगे जातिवाची शब्दः विशेष्यः नित्यं भवति । यथा नीलोत्पलम् । यदि द्वयोः पदयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।


यथा खञ्जकुब्जः, कुब्जखञ्जः ।


द्वे पदे अपि क्रियावाचिनी स्तः अपि च तयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।


यथा - पाचकपाठकः, पाठकपाचकः ।


गुणवाची शब्दः अपि च क्रियावाची शब्दः, तयोः विषये अपि यदि विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।


यथा- खञ्जपाचकः, पाचकखञ्जः।


कैलाशाद्रिः, मन्दराद्रि, अयोध्यानगरी इत्यादिषु उदाहरणेषु संज्ञा-शब्दः अपि विशेषणरूपेण भासते ।


सामान्यजातिवाची शब्दः अपि च विशेषजातिवाची शब्दः, तयोः मध्ये विशेषजातिवाची शब्दः विशेषणं भवति ।


यथा शिंशपावृक्षः ।


मध्यमपदलोपिकर्मधारयः -


शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति । अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः । समासः विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण भवति । अनेन वार्तिकेन उत्तरपदस्य लोपः भवति ।


शाकप्रियः पार्थिवः = शाकपार्थिवः । शाकः प्रियः यस्य सः, शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति ।


देवानां पूजकः ब्राह्मणः = देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये बहुव्रीहिसमासः भूत्वा देवपूजकः इति भवति । तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम् भवति। पूजकः इति शब्दस्य लोपः भवति।


८) विशेषणपूर्वपदकर्मधारयसमासः - पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम- वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति।


पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (२.१.५८) = पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम- वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पुर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यमश्च वीरश्च तेषामितरेतरयोगद्वन्द्वः पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः प्रथामान्तं, चाव्ययम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । विशेषणं विशेष्येण बहुलम् (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌ — पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च विशेषणानि सुपः समानाधिकरणेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः


अस्मिन् सूत्रे पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


यथा-


पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः

पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणःअपरश्चासौ अध्यापकश्च = अपराध्यापकः प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः

अपरश्चासौ अध्यापकश्च = अपराध्यापकः

प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः


चरमश्चासौ पुरुषश्च = चरमपुरुषः


जघन्यश्चासौ पुरुषश्च = जघन्यपुरुषः


समानश्चासौ पुरुषश्च = समानपुरुषः


मध्यश्चासौ पुरुषश्च = मध्यपुरुषः


वीरश्चासौ पुरुषश्च = वीरपुरुषः


अपरश्चासौ अर्धश्च = परश्चार्धः । अपरस्यार्धे पश्चभावो वक्तव्यः । अनेन वार्तिकेन अर्धशब्दः यदि उत्तरपदे अस्ति तर्हि पूर्वपदे स्थिते अपर-शब्दस्य स्थाने पश्च आदेशः भवति ।


९) श्रेण्यादयः सुबन्ताः कृतादिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति।


श्रेण्यादयः कृतादिभिः (२.१.५९) = श्रेण्याऽदयः सुबन्ताः कृताऽदिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । श्रेण्यादिषु च्व्यर्थवचनम् । श्रेणिरादिर्येषां ते श्रेण्यादयः । कृत आदिर्येषां ते कृतादयस्तैः कृतादिभिः । श्रेण्यादयः प्रथमान्तं, कृतादिभिः तृतीयान्तं, द्विपदमिदं सूत्रम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — श्रेण्यादयः सुपः समानाधिकरणैःकृतादिभिः सुपा सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे श्रेण्यादयः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं श्रेण्यादयः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


श्रेण्यादिगणे एते शब्दाः सन्ति - श्रेणि, एक, पूक, मुकुन्द, राशि, निच्य, विषय, निधान, पर, इन्द्र, देव, मुण्ड, भूत, श्रमण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, विशिष्ट, पटु, पण्डित, कुशल, चपल, निपुण, कृपण ।


कृत, मित, मत, भूत, उक्त, युक्त, समाज्ञात, समाम्नात, समाख्यात, संसेवित, अवधारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, दृष्ट, कलित, दलिनत, उदाहृत, विश्रुत, उदित – एते शब्दाः सन्ति कृतादिगणे ।


श्रेण्यादिषु च्व्यर्थेवचनं कर्तव्यम् ।


श्रेण्यादिगणपठितानां शब्दानां समासः च्वि-प्रत्ययार्थे करणीयः

यथा –


अश्रेणयः श्रेणयः कृताः = श्रेणिकृताः


कुगतिप्रादयः (२.२.१८) इति सूत्रेण अश्रेणयः श्रेणयः कृताः = श्रेणीकृताः इति नित्यसमासः भवति च्विप्रत्ययेन ।


१०) विशेषणोभ्यपदकर्मधारयः - अनञ्-क्तप्रत्ययान्तं विशेषणं समानाधिकरणे नञ् क्तप्रत्ययान्तेन विशेष्येन सह समस्यते, तत्पुरुषश्च समासो भवति।


क्तेन नञ्विशिष्टेनानञ् (२.१.६०) = अनञक्ताप्रत्ययान्तस्य प्रकृतिकस्य सुबन्तस्य समानाधिकरणे नञ्विशिष्टेन क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति । अनञ्पदं विशेष्यरूपेण प्रथमान्त-क्तान्तपदस्य अध्याहारः करणीयः नञ्विषिष्टस्तेन नञ्विशिष्टेन, तृतीयातत्पुरुषः। न नञ् अनञ्, नञ्तपुरुषः। क्तेन तृतीयान्तं नञ्विशिष्टेन तृतीयान्तम्, अनञ् प्रथमानतम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । विशेषणं विशेष्येण बहुलम् (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌ — अनञ् क्त विशेषणं सुप् समानाधिकरणेन नञ्विशिष्टेन क्तेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः


अस्मिन् सूत्रे अनञ् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं अनञ् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


अस्य सूत्रस्य प्रयोजनं पूर्वनिपात-नियमार्थम् एव, नो चेत् विशेषणं विशेष्येण बहुलम् इत्यनेन एव समासः सिद्धः भवति ।

उदा-


कृतं च तदकृतं च = कृताकृतम् ।


मध्यमपदलोपिकर्मधारयः -


शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति । अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः । समासः विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण भवति । अनेन वार्तिकेन उत्तरपदस्य लोपः भवति ।


शाकप्रियः पार्थिवः = शाकपार्थिवः । शाकः प्रियः यस्य सः, शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति ।


देवानां पूजकः ब्राह्मणः = देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये बहुव्रीहिसमासः भूत्वा देवपूजकः भवति । तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम् । पूजकः इति शब्दस्य लोपः भवति ।


११) विशेषणपूर्वपदकर्मधारयः - सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह श्रेष्ठता इत्यस्मिन् अर्थे समस्यन्ते, तत्पुरुषश्च समासो भवति।


सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (२.१.६१) = सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेषामितरेतरयोगद्वन्द्वः सन्महत्परमोत्तमोत्कृष्टाः प्रथमान्तं, पूज्यमानैः तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — सन्महत्परमोत्तमोत्कृष्टाः सुपः समानाधिकरणेनपूज्यमानैः सुब्भिः सह विभाषातत्परुषः समासः


अस्मिन् सूत्रे सन्महत्परमोत्तमोत्कृष्टाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं सन्महत्परमोत्तमोत्कृष्टाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


सन् चासौ वैद्यः च = सद्वैद्यः ।


महान् चासौ वैयाकरणः = महावैयाकरणः ।


परम चासौ पुरुष च = परमपुरुषः ।


उत्तमश्चासौ पुरुषः = उत्तमपुरुषः ।


उत्कृष्टश्चासौ पुरुषः = उत्कृष्टपुरुषः ।


अस्मिन् सूत्रे पूज्यमानैः इति पदस्य प्रयोजनं यत् केवलं पूज्यमानवाचिपदेन सह एव एतादृशः समासः भवति । उत्कृष्टो गौः पङ्कात् इति वाक्ये उत्कृष्टः इति शब्दस्य उपस्थितिः अस्ति तथापि अयं शब्दः श्रेष्ठतायाः सूचकः नास्ति, अतः समासः न भवति ।


१२) पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति।


वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ (२.१.६२) = पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति । वृन्दारकश्च नागश्च कुञ्जरश्च तेषामितरेतरयोगद्वन्द्वो वृन्दारकनागकुञ्जरास्तैर्वृन्दारकनागकुञ्जरैः, तृतीयान्तमेतत्, पूज्यमानं प्रथमान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — पूज्यमानं सुप् समानाधिकरणेनवृन्दारकनागकुञ्जरैः सुब्भिः सह विभाषा तत्परुषःसमासः


अस्मिन् सूत्रे पूज्यमानम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं पूज्यमानम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

गौश्चासौ वृन्दारकः = गौवृन्दारकः ।


गौश्चासौ नागो = गौनागः ।

गौश्चासौ कुञ्जरः = गौकुञ्जरः ।


१३) कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।


कतरकतमौ जातिपरिप्रश्ने (२.१.६३) = कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरश्च कतमश्च तयोरितरेतरयोगद्वन्द्वः कतरकतमौ । परितः प्रश्नः परिप्रश्नः । जातेः परिप्रश्नः जातिपरिप्रश्ने, षष्ठीतत्पुरुषः । कतरकतमौ प्रथमान्तं, जातिपरिप्रश्ने सप्तम्यन्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — जातिपरिप्रश्ने कतरकतमौ सुपौ समानाधिकरणेन सुपा सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे कतरकतमौ इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं कतरकतमौ इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


यथा –


कतरश्चासौ कठः = कतरकठः।

कतमश्चासौ कलापः = कतमकलापः।


१४)निन्दार्थे किम् इति अव्ययं सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।


किं क्षेपे (२.१.६४) = किम् इत्येतत् अव्ययं क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति । किं प्रथमान्तं, क्षेपे सप्तम्यन्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — क्षेपेकिं सुप् समानाधिकरणेनसुपा सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे किम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं किम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


यथा –


कुत्सितो राजा = किंराजा


१५)जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।


पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः (२.१.६५) = जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । पोटा च युवतिश्च स्तोक च कतिपयश्च गृष्टिश्च धेनुश्च वशा च वेहत् च वष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यापकश्च धूर्तश्च तेषामितरेतरयोगद्वन्द्वः पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्ताः, तैः, पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैः तृतीयान्तम्, जातिः प्रथमान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — र्जातिःसुप् समानाधिकरणेनपोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैःसुब्भिः सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे जातिः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


यथा –


प्रवक्ता चासौ गौः = कठप्रवक्ता ।


बष्कयणी चासौ गौः = गोबषकयणी ।


श्रोत्रियश्चासौ कठश्च = कठश्रोत्रियः ।


अध्यापकश्चासौ कठश्च = कठाध्यापकः।

धूर्तश्चासौ कठश्च = कठधूर्तः ।


१६)जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति।


प्रशंसावचनैश्च (२.१.६६) = जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति । प्रशंसावचनैः तृतीयान्तं, चाव्ययम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः (२.१.६५) इत्यस्मात् सूत्रात् जातिः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रम्‌ — जातिःसुप् समानाधिकरणेनप्रशंसावचनैः चसुब्भिः सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे जातिः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।


यथा –


मतल्लिका चासौ गौश्च = गोमतल्लिका ।


प्रथमानिर्दिष्टस्य जातिवाचकस्य गौ शब्दस्य पूर्निपातः भवति ।


मचर्चिका चासौ गौश्च = गोमचर्चिका ।


प्रकाण्डम् चासौ गौश्च = गोप्रकाण्डम् ।


उद्धश्चासौ गौश्च = गवोद्धः ।



१७) युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।


युवा खलतिपलितवलिनजरतीभिः (२.१.६७) = युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । खलतिश्च पलितश्च वलिनश्च जरती च तासामितरेतरयोगद्वन्द्वः खलतिपलितवलिनजरत्यस्ताभिः खलतिपलितवलिनजरततीभिः । युवा प्रथमान्तं, खलतिपलितवलिनजरत्यस्तीभिः तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — युवा सुप् समानाधिकरणैः खलतिपलितवलिनजरतीभिः सुब्भिः सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे युवा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं युवा इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

यथा –

युवा चासौ खलतिश्च = युवखलतिः ।


युवा चासौ खलतिश्च = युवखलतिः ।


युवतिश्चासौ खलती = युवखलती


युवा चासौ पलितश्च = युवपलितः

युवा चासौ वलिनश्च= युववलिनः


युवतिश्चासौ जरती च = युवजरती ।


१८) कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन् - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति।


कृत्यतुल्याख्या अजात्या (२.१.६८) = कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति । तुल्यमाचक्षते इति तुल्यख्याः, उपपदतत्पुरुषः । कृत्याश्च तुल्याख्याश्च तेषामितरेतरयोगद्वन्द्वः कृत्यतुल्याख्याः । कृत्यतुल्याख्या प्रथमान्तम्, अजात्या तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — कृत्यतुल्याख्या सुप् समानाधिकरणेनअजात्या सुपा सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे कृत्यतुल्याख्या इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं कृत्यतुल्याख्या इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

भोज्यञ्च तदुष्णञ्च = भोज्योष्णम् । तुल्यश्चासौ श्वेतश्च = तुल्यश्वेतः ।

तुल्यश्चासौ श्वेतश्च = तुल्यश्वेतः ।

सदृशश्चासौ श्वेतश्च = सदृशश्वेतः।


१९)वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति


वर्णो वर्णेन (२.१.६९) = वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति। वर्णः प्रथमान्तं, वर्णेन तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — वर्णः सुप् समानाधिकरणेन वर्णेन सुपा सह विभाषा समासः तत्परुषः


अस्मिन् सूत्रे वर्णः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं वर्णः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

यथा – कृष्णश्चासौ सारङ्गश्च = कृष्णसारङ्गः

कृष्णश्चासौ सारङ्गश्च = कृष्णसारङ्गः

लोहितश्चासौ शबल्श्च = लोहितशबलः


२०) कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।


कुमारः श्रमणादिभिः (२.१.७०) = कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । श्रमणा आदिर्येषां ते श्रमणादयस्तैः श्रमणादिभिः । कुमारः प्रथमान्तं, श्रमणादिभिः ततृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — कुमारः सुप् समानाधिकरणेनश्रमणादिभिः सुब्भिः सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे कुमारः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कुमारः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

श्रमणादिगणे एते शब्दाः पठिताः – श्रमणा, प्रव्रजिता, कुलटा, गभिर्णी, तापसी, दासी, बन्धकी, अध्यापक, अभिरूपक, पण्डित, पटु, मृदु, कुशल, चपल, निपुण च।


यथा—


कुमारी चासौ श्रमणा = कुमारश्रमणा - पुंवत् कर्मधारयजातीयदेशीयेषु (६.३.४२) इति सूत्रेण पुवद्भावः भूत्वा पूर्वपदस्य प्रातिपदिकं कुमार इति पुंलिङ्गवद्भवति।


२२)चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति।


चतुष्पादो गर्भिण्या (२.१.७१) = चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति । चतुष्पादः इत्यस्य अर्थः चत्वारः पादाः यस्य सः । अस्मिन् सूत्रे चतुष्पादः इत्यनेन केवलं पशूनां एव ग्रहणं भवति । चतुष्पादः प्रथमाबहवचनान्तं, गर्भिण्या तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः । तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — चतुष्पादः सुपः समानाधिकरणेनगर्भिण्या सुपा सह विभाषा तत्परुषः समासः


अस्मिन् सूत्रे चतुष्पादः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं चतुष्पादः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

यथा –


गौश्चासौ गर्भिणी च = गोगर्भिणी ।


२२)मयूरव्यंसकादयः – एते तत्पुरुषसंज्ञकाः भवन्ति।


मयूरव्यंसकादयश्च (२.१.७२) = मयूरव्यंसकादयः शब्दाः तत्पुरुषसंज्ञां प्राप्नुवन्ति । सम्पूर्णसमुदास्य निपातनं भवति अनेन यः समासः नित्यः भवति न तु विकल्पेन । मयूरव्यंसकः आदिर्येषां ते मयूरव्यंसकादयः बहुव्रीहिः मयूरव्यंसकादयः प्रथमान्तं, चाव्ययम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । सह सुपा (२.१.४) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । विभाषा (२.१.११) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — मयूरव्यंसकादयः सुपः समानाधिकरणेन सुपा सह तत्परुषः समासः विभाषा


मयूरव्यंसकादिगणे एते शब्दाः सन्ति – मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड, यवनमुण्ड, हस्तेगृह्य, हस्त्गृह्य, खादतमोदत, इत्यादयः शब्दाः पठिताः


अस्मिन् सूत्रे मयूरव्यंसकादयश्च इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं मयूरव्यंसकादयश्च इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण ।

यथा –


मयूरो व्यंसक(धूर्त) = मयूरव्यंसकः


उदक् च अवाक् च = उदक्चावाक्च ।


खादत च मोदत च = खादतमोदत ।


इत्यनेन कर्मधारयसमासः इति विषयः समाप्तः ।


Vidhya  March 2020