02A - स्वादिगणः
स्वादिगणे ३४ धातवः सन्ति | अयम् अस्माकं प्रथमः धातुगणः यत्र अङ्गम् अनदन्तम्; अत्र सिद्धान्तकौमुद्यां परम्परागत-पद्धत्या तिङन्तरूप-निष्पादनं अतीव भ्रमात्मकम् | परन्तु पुष्पामातुः पद्धतिम् अनुसृत्य—पाणिनेः वास्तविक-पद्धतिम् अनुसृत्य—अङ्गम् अनदन्तं चेदपि सर्वम् अत्यन्तं स्पष्टं तर्कपूर्णञ्च |
पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
स्वादिगणे विकरणप्रत्ययः श्नु | स्वादिभ्यः श्नुः (३.१.७३) इत्यनेन श्नु-प्रत्ययः विहितः | लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपः | नु इति अवशिष्यते |
स्वादिभ्यः श्नुः (३.१.७३) = स्वादिगणे स्थितेभ्यः धातुभ्यः श्नु-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | सु आदिर्येषां ते, स्वादयः बहुव्रीहिः, तेभ्यः स्वादिभ्यः | स्वादिभ्यः पञ्चम्यन्तं, श्नुः प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्वादिभ्यः धातुभ्यः श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके |
श्नु शित् अतः तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा चि + नु इति स्थितौ | पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा तिग् + नु इति स्थितौ | परन्तु श्नु अपित् अतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत्; तदर्थं क्क्ङिति च (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |
अनेन कारणेन प्रथमसोपाने किमपि कार्यं नास्ति |
इकारान्तधातवः चि + नु = चिनु
उकारान्तधातवः सु + नु = सुनु
ऋकारान्तधातवः वृ + नु = वृणु
हलन्तधातवः तिग् + नु = तिग्नु
तृप् + नु = तृप्नु
शक् + नु = शक्नु
आप् + नु = आप्नु
विकरणप्रययः ङिद्वत् चेत्, प्रथमसोपाने त्रीणि मुख्य-कार्याणि सन्ति—
- गुणनिषेधः | एतदपि एकं कार्यम् | स्वादिगणे श्नु-प्रत्ययस्य अपित्त्वात् गुणनिषेधः |
- सम्प्रसारणम् | ग्रहिज्या (६.१.१६) इति सूत्रेण सम्प्रसारणं भवति किति ङिति प्रत्यये परे | स्वादिगणे न कोऽपि सम्प्रसारणी धातुः |
- अनिदितां धातूनां नकारलोपः | अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | स्वादिगणे तादृशः एकः धातुः अस्ति | दम्भु दम्भने (हिंसायाम्) → दम्भ् → दम्भ् + श्नु → नकारलोपः → दभ्नु इति अङ्गम् |
२. तिङ्संज्ञकप्रत्यय-सिद्धिः
तिङ्प्रत्यय-सिद्धिः पूर्वतने पाठे जाता एव | यत्र अङ्गम् अनदन्तं, तत्र सिद्ध-तिङ्संज्ञकप्रत्ययाः एते—
परस्मैपदम् आत्मनेपदम्
लट्-लकारः
ति तः अन्ति ते आते अते
सि थः थ से आथे ध्वे
मि वः मः ए वहे महे
लोट्-लकारः
तु, तात् ताम् अन्तु ताम् आताम् अताम्
हि, तात् तम् त स्व आथाम् ध्वम्
आनि आव आम ऐ आवहै आमहै
लङ्-लकारः
त् ताम् अन् त आताम् अत
स् तम् त थाः आथाम् ध्वम्
अम् व म इ वहि महि
विधिलिङ्-लकारः
यात् याताम् युः ईत ईयाताम् ईरन्
याः यातम् यात ईथाः ईयाथाम् ईध्वम्
याम् याव याम ईय ईवहि ईमहि
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
स्वादिगणे इदं कार्यं मुख्यम् | अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः—अजन्तधातवः हलन्तधातवः च—यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं भिद्यते | तर्हि स्वादौ वर्गद्वयम् अस्ति— अजन्ताः चि-धातुरिव, अपि च हलन्ताः शक्-धातुरिव; अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं प्रवर्तते |
अत्र हलन्तधातवः सामान्याः, अजन्तधातवः विशेषाः इति अवगम्यताम् | नाम स्वादिगणे ये सामान्यनियमाः सन्ति, सर्वे हलन्तधातवः तान् नियमान् अनुसृत्य प्रवर्तन्ते | अजन्तधातवः अपि आधिक्येन तथैव प्रवर्तन्ते— किन्तु स्थलत्रये विशेषाः भवन्ति | स्थलत्रयम् अग्रे सूचितम् अस्ति |
स्वादिगणे प्रतिनिधि-चतुष्टयं स्वीक्रियताम्—
अजन्तः परस्मैपदिधातुः = चि
हलन्तः परस्मैपदिधातुः = शक्
अजन्तः आत्मनेपदिधातुः = चि
हलन्तः आत्मनेपदिधातुः = अश्
एषां चतुर्णां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्-लोट्-लङ्-विधिलिङ् इत्येषु) जानीमः चेत्, सर्वेषां स्वादिगणीय-धातूनां सार्वधातुकलकार-रूपाणि जानीमः एव | कण्ठस्थीकरणीयम् इति न; सर्वं तर्काधारेण प्रवर्तते |
गतपाठे अस्माभिः दृष्टं यत् सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः | तर्हि स्वादिगणे अजन्तधातुभिः सह, हलन्तधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम् |
अधः विशिष्टकार्याणि रक्तवर्णेन सूचितानि |
हलन्तधातूनां कार्यम्—
हलादि-पित्सु = गुणः | शक्नु + ति → शक्नोति
अजादि-पित्सु = गुणः, तदा अवादेशः | शक्नु + आनि → शक्नो + आनि → शक्न् + अव् + आनि → शक्नवानि
हलाद्यपित्सु = क्क्ङिति च इत्यनेन गुण-निषेधः | शक्नु + तः → शक्नुतः
अजाद्यपित्सु = अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः | शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति
अजन्तधातूनां कार्यं त्रिषु स्थलेषु भिद्यते | स्थलत्रयमपि अपित्सु एव; पित्सु न कोऽपि भेदः | अधः सम्यक्तया तोलयन्तु—
अजन्तधातूनां कार्यम्—
हलादि-पित्सु = गुणः | चिनु + ति → चिनोति
अजादि-पित्सु = गुणः, तदा अवादेशः | चिनु + आनि → चिनो + आनि → चिन् + अव् + आनि → चिनवानि
हलाद्यपित्सु =
- क्क्ङिति च इत्यनेन गुण निषेधः | यथा चिनु + तः → चिनुतः
स्थलद्वये अपवादभूतकार्यम्—
- लोटि हि-लोपः | चिनु + हि → चिनु
- वकारमकारादौ प्रत्यये परे, उकारस्य वा लोपः | चिनु + वः → चिन्वः / चिनुवः
अजाद्यपित्सु = हुश्नुवोः सार्वधातुके इत्यनेन यण्-आदेशः | चिनु + अन्ति → चिन् + व् + अन्ति → चिन्वन्ति
किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते ?
सर्वेषामपि स्वादिगणीय-धातूनाम् अङ्गम् उकारान्तं भवति— शक् + नु → शक्नु; चि + नु → चिनु | तर्हि शक्नु, चिनु च अनयोः अङ्गयोः भेदः कः ? शक्नु इति अङ्गे उकारात् प्राक् संयोगः अस्ति | हलोऽनन्तराः संयोगः (१.१.७) इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत्, तयोः संयोग-संज्ञा भवति | तर्हि शक्नु इति अङ्गे, ककारनकारयोः वर्णयोः संयोग-संज्ञा | स्वादिगणे धातुः हलन्तः चेत्, तस्य धातोः अङ्गे उकारात् प्राक् संयोगः भवति एव | धातुः हलन्तः, तस्मात् 'नु' संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति | शक्नु इत्यस्मिन् 'क्न्'; आप्नु इत्यस्मिन् 'प्न्'; अश्नु इत्यस्मिन् 'श्न्' |
स्वादिगणे हलन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः अस्ति; अजन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः न कदापि भवति | चि + नु → चिनु; अत्र चि-धातुः अजन्तः (इकारान्तः) अतः नकारेण सह हल्-वर्णस्य संयोगः नास्ति | तथैव सर्वत्र अजन्तधातुषु | सु + नु → सुनु, वृ + नु → वृणु | अत्रैव हलन्त-अजन्तयोः भेदः—हलन्तेषु अङ्गस्य यः उकारः, सः संयोगपूर्वः उकारः; अजन्तेषु अङ्गस्य यः उकारः, सः असंयोगपूर्वः उकारः |
हलन्त-अजन्त-धात्वोः मध्ये, तिङन्तेषु स्थलत्रये भेदः वर्तते; तस्य कृते सूत्रत्रयं, प्रत्येकस्मिन् सूत्रे अनया एव रीत्या भेदः उक्तः यत्— अङ्गे उकारः असंयोगपूर्वः चेत्, कार्यं भिद्यते | असंयोगपूर्व-उकारः केवलम् अजन्तधातुषु भवति अतः यत्र सूत्रेषु 'असंयोगपूर्व' दृश्यते, तत्र अजन्तधातुः इति बोध्यम् |
a) प्रथमभेदः— अजाद्यपित्सु हलन्तधातूनाम् उवङ्, अजन्तधातूनां यण्
अजाद्यपित्सु उवङ्-आदेशः इति सामान्य-नियमः | हलन्तधातवः सामान्याः अतः ते इमं नियमं पालयन्ति | अजन्तधातवः अत्र अपवादभूताः; तेषां यण्-आदेशः भवति (उवङ् प्रबाध्य) |
शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति (उवङ्)
चिनु + अन्ति → चिन् + व् + अन्ति → चिन्वन्ति (यण्)
अत्र तर्कक्रमः एवम्—
'शक्नु + अन्ति' अत्र अङ्गम् उकारान्तं, प्रत्ययः अजाद्यपित् | अस्मिन् प्रसङ्गे यण्-सन्धेः प्रसक्तिः (इको यणचि); इदं सूत्रं सर्वसामान्यम्— इक् पूर्वम्, अच् परं चेत्, सर्वत्र प्रसक्तम् | अतः शक्नु + अन्ति → शक्न् + व् + अन्ति → 'शक्न्वन्ति' इति भवति स्म इको यणचि (६.१.७७) इति सूत्रेण | किन्तु यण्-सन्धिं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण उवङ् विधीयते |
इको यणचि (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रूश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
स्वादिगणे फलितार्थः एवं यत् अजाद्यपित्सु श्नु-प्रत्ययान्तस्य उकारस्य स्थाने उवङ्-आदेशः | सर्वेषां स्वादिगणीय-धातूनां कृते अस्य सूत्रस्य प्रसक्तिः |
उवङ् इति आदेशस्य ङकारस्य अकारस्य च इत्-संज्ञा भवति अतः उव् अवशिष्यते | उव् इत्यस्मिन् एकः एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः ('उ', 'व्' इति), अतः अनेकाल् अस्ति | तर्हि अत्र अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन 'शक्नु' इत्यस्य पूर्णतया स्थाने उवङ् | परन्तु ङिच्च (१.१.५३) इति अपवादसूत्रेण आदेशः ङित् चेत्, अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | उवङ् ङित् अतः 'शक्नु' इत्यस्य उकारस्य एव स्थाने उव् आदेशः | तुदादिगणे अपि एतादृशं कार्यम् अवलोकितम्, इकारान्तधातुषु उकारान्तधातुषु च |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशो भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
ङिच्च (१.१.५३) = ङित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति न तु सर्वस्य | ङ इत् यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— ङित् च अन्त्यस्य अलः स्थाने |
तर्हि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण अजाद्यपित्सु श्नुप्रत्ययान्तस्य उकारस्य स्थाने उवङ्-आदेशः | सर्वेषां स्वादिगणीय-धातुनां कृते—हलन्तधातूनाम् अपि (यथा शक्), अजन्तधातूनाम् अपि (यथा चि)—अयम् उवङ् आदिष्टः | किन्तु अत्र हुश्नुवोः सार्वधातुके (६.४.८७) इति सूत्रेण अङ्गस्य प्रत्यय-सम्बन्धी उकारः असंयोगपूर्वः चेत्, यण्-आदेशः विधीयते |
हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशो भवति अजादि-सार्वधातुकप्रत्यये परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः; एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यस्मात् अनेकाचः, असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः; ओः सुपि (६.४.८३) इत्यस्मात् ओः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके |
स्वादिगणे फलितार्थः एवं यत् अजाद्यपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण्-आदेशः भवति |
अजाद्यपित्सु, सर्वेषां स्वादिगणीय-धातूनां कृते इको यणचि (६.१.७७) इत्यनेन यण्-आदेशः प्रसक्तः; तदा तं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ् विहितः सर्वेषां धातूनां प्रसङ्गे; तदा अजन्तधातूनां कृते उवङ्-आदेशं प्रबाध्य हुश्नुवोः सार्वधातुके (६.४.८७) इत्यनेन पुनः यण् आदिष्टः | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यतां, तदा अपित्त्वात् गुणनिषेधो भवति | आहत्य अजाद्यपित्सु सूत्रक्रमः एवं भवति— इको यणचि (६.१.७७) → सार्वधातुकार्धधातुकयोः (७.३.८४) → सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) → हुश्नुवोः सार्वधातुके (६.४.८७) |
मनसि बोध्यं यत् अजादिपित्सु अपि इमानि सूत्राणि—इको यणचि (६.१.७७), अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७), हुश्नुवोः सार्वधातुके (६.४.८७)—एषां त्रयाणां सूत्राणां प्रसक्तिः अस्ति | चिनु + आनि | 'आनि' अजादि-प्रत्ययः; त्रिषु अपि सूत्रेषु निमित्तम् अस्ति 'अचि'—अजादि-प्रत्यये परे | अजादिपित्-प्रत्ययः अपि अजादिः, अतः अत्रापि इमानि त्रीणि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि | परन्तु तत्र सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य परसूत्रात् बलम्, अतः अनेन गुणो भवति चिनो + आनि | गुणकार्यानन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति | फलितार्थः एवं यत् उवङ् च यण् च भवतः केवलं किति ङिति अजादि-प्रत्यये परे | सूत्रे तादृशं 'किति ङिति' इति वदनस्य आवश्यकता नासीत् पाणिनिनः | किमर्थम् ? यतोहि कित् ङित् नास्ति चेत् गुणः भविष्यति न तु उवङ्/यण् |
b) द्वितीयभेदः—परस्मैपदे लोटि मध्यमपुरुषैकवचने, सेर्ह्यपिच्च (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हेः (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम् अनदन्तं चेत् हि-लोपः न [शक्नु + हि → शक्नुहि] | परन्तु उकारान्ताङ्गं चेत्, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन हलन्तधातुभ्यः 'हि' तिष्ठति यथासामान्यम्; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु] |
उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) = प्रत्ययावयव-उकारात् प्राक् संयोगः नास्ति चेत्, परस्य हि-प्रत्ययस्य लुक् (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूर्वः, बहुव्रीहिः; तस्मात् असंयोगपूर्वात् | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात् पञ्चम्यन्तम्, असंयोगपूर्वात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रेम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अतो हेः (६.४.१०५) इत्यस्मात् हेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— असंयोगपूर्वात् उतः प्रत्ययात् अङ्गात् च हेः लुक् |
c) तृतीयभेदः—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र; अजन्तधातूनां कृते, हलाद्यपित् प्रत्ययः मकारादिः वकारादिः चेत्, विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति | चिनु + वः → चिन्वः/चिनुवः |
लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य "असंयोगपूर्वस्य प्रत्ययस्य उतः" इत्यस्य उल्लेखः | म् च व् च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्, अनेकपदमिदं सूत्रम् | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम् |
सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत्, अपि च उकारात् प्राक् संयोगः नास्ति चेत्, अपि च मकारादिः वकारादिः च प्रत्ययः परोऽस्ति चेत्, तर्हि उकारस्य लोपः भवति विकल्पेन |
चतुर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि
सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्—
१. तिङ्प्रत्ययः पित् वा अपित् वा ?
२. तिङ्प्रत्ययः अजादिः वा हलादिः वा ?
तावत् एव अस्ति; अनयोः प्रश्नयोः उत्तरं जानीमः चेत्, सर्वाणि रूपाणि जानीमः | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा (अथवा ज्ञात्वा) शक्, चि (परस्मैपदे), अश्, चि (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु |
A. हलन्तधातुषु शक्-धातुः
शक् + श्नु → शक् + नु → शक्नु इत्यङ्गम् | अधः सर्वत्र शक्नु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |
धेयं यत् अपित्सु अपि सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम् ? सर्वे तिङ्-संज्ञकप्रत्ययाः तिङ्शित् सार्वधातुकम् (३.४.११३) इति सूत्रेण सार्वधातुकाः | परन्तु सार्वधातुकमपित् (१.२.४) इत्यनेन अपित् सार्वधातुकप्रत्ययाः ङिद्वत् भवन्ति | तदा क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः |
शक्नु + सि इति स्थितौ, आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं भवति—
आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति; नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेदपि कार्यं भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु सकारेण षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | सहे साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
B. अजन्तधातुषु चि-धातुः उभयपदी | अत्र परस्मैपदे |
चि + श्नु → चि + नु → गुणस्य प्रसक्तिः, तदा निषेधः → चिनु इत्यङ्गम् | अधः सर्वत्र चिनु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
C. हलन्तधातुषु अश्-धातुः आत्मनेपदे | [अश्नु इति अङ्गम्] (अश् व्याप्तौ)
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
D. अजन्तधातुषु चि-धातुः उभयपदी | अत्र आत्मनेपदे | [चिनु इति अङ्गम्]
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
एतावता पद्धतिः अवगता स्यात् | सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्—
१. तिङ्प्रत्ययः पित् वा अपित् वा ?
२. तिङ्प्रत्ययः अजादिः वा हलादिः वा ?
अधुना अभ्यासः अपेक्षते | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा एषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु—
स्वादिगणीयाः धातवः
अजन्तधातवः
इकारान्ताः
चिञ् चयने → निरनुबन्ध-धातुः चि → अङ्गं चिनु → लटि चिनोति/चिनुते
षिञ् बन्धने → सि → सिनु → सिनोति/सिनुते
शिञ् निशाने → शि → शिनु → शिनोति/शिनुते
डुमिञ् प्रक्षेपणे → मि → मिनु → मिनोति/मिनुते
हि गतौ वृद्धौ → हि → हिनु → हिनोति
रि हिंसायाम् → रि → रिणु → रिणोति
क्षि हिंसायाम् → क्षि → क्षिणु → क्षिणोति
चिरि हिंसायाम् → चिरि → चिरिणु → चिरिणोति
जिरि हिंसायाम् → जिरि → जिरिणु → जिरिणोति
उकारान्ताः
धुञ् कम्पने → धु → धुनु → धुनोति/धुनुते
टुदु उपतापे → दि → दुनु → दुनोति
षुञ् अभिषवे → सु → सुनु → सुनोति/सुनुते
ऋकारान्ताः
कृञ् हिंसायाम् → कृ → कृणु → कृणोति/कृणुते
पृ प्रीतौ → पृ → पृणु → पृणोति
स्पृ प्रीतिपालनयोः → स्पृ → स्पृणु → स्पृणोति
दृ हिंसायाम् → दृ → दृणु → दृणोति
स्तृञ् आच्छादने → स्तृ → स्तृणु → स्तृणोति/स्तृणुते
वृञ् वरणे → वृ → वृणु → वृणोति/वृणुते
हलन्तधातवः
शक्लृ शक्तौ → शक् → शक्नु → शक्नोति
षघ हिंसायाम् → सघ् → सघ्नु → सघ्नोति
दघ घातने पालने च → दघ् → दघ्नु → दघ्नोति
चमु भक्षणे → चम् → चमु → चम्नोति
अशू व्याप्तौ सङ्घाते च → अश् → अश्नु → अश्नुते
अह व्याप्तौ → अह् → अह्नु → अह्नोति
तिक आस्कन्दने (आक्रमणे) गतौ च → तिक् → तिक्नु → तिक्नोति
तिग आस्कन्दने (आक्रमणे) गतौ च → तिग् → तिग्नु → तिग्नोति
ष्टिघ आस्कन्दने → स्तिघ् → स्तिघ्नु → स्तिघ्नुते
ऋधु वृद्धौ → ऋध् → ऋध्नु → ऋध्नोति
तृप प्रीणन इत्येके (तृप्तः भवति) → तृप् → तृप्नु → तृप्नोति*
ञिधृषा प्रागल्भ्ये → धृष् → धृष्णु → धृष्णोति
राध संसिद्धौ → राध् → राध्नु → राध्नोति
साध संसिद्धौ → साध् → साध्नु → साध्नोति
आपॢ व्याप्तौ (व्याप्तः भवति, प्राप्तः भवति) → आप् → आप्नु → आप्नोति
दम्भु दम्भने (हिंसायाम्) → दम्भ् → दभ्नु → दभ्नोति | दम्भु अनिदित् धातुः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | श्नु-प्रत्ययः ङिद्वत् |
दाश हिंसायाम् → दाश् → दाश्नु → दाश्नोति
*क्षुभ्नादिषु च (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रषाभ्यां नो णः समानपदे (८.४.१) इत्यस्मात् नः, णः इत्यनयोः अनुवृत्तिः | न भाभूपूकमिगमिप्यायीवेपाम् (८.४.३४) इत्यस्मात् न इत्यस्य अनुवृत्तिः तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— क्षुभ्नादिषु च नः णः न संहितायाम् |
श्रु श्रवणे → श्रु → शृणु → शृणोति
श्रु-धातुः भ्वादिगणे स्थापितः धातुपाठे, किञ्च व्यावहारिकत्वेन स्वादीगणीयः एव | कर्त्रर्थे सार्वधातुके परे, श्रु-धातोः शृ इति धात्वादेशो भवति |
श्रुवः शृ च (३.१.७४) = कर्त्रर्थक-सार्वधातुकप्रत्यये परे श्रु-धातोः शृ इति धात्वादेशश्च, श्नु-प्रत्ययः धातुतः विहितश्च | श्रुवः पञ्चम्यन्तं, शृ लुप्तप्रथमाकं पदं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | स्वादिभ्यः श्नुः (३.१.७३) इत्यस्मात् श्नुः इत्यस्य अनुवृत्तिः | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— श्रुवः धातोः शृ च श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके |
इति स्वादिगणे समग्रं तिङ्-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम् | परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्— अजन्तधातुः चि, हलन्तधातुः शक्; आत्मनेपदे अजन्तधातुः चि, हलन्तधातुः अश् | अनेन सर्वेषां चतुस्त्रिंशतः धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि |
Swarup – June 2013 (updated October 2015, April 2017)