03 - तिङ्प्रत्ययानां सिद्धिः
प्रथमे द्वितीये च पाठयोः अङ्गं कथं निर्मीयते इति अस्माभिः अवलोकितम् | अधुना अङ्गं निर्मितम् | जय, नय, भव, हर, तर, गाय, शोभ, कर्ष, लज, यत, वद, मूर्च्छ, वन्द इत्यादीनि भ्वादिगणीय-अङ्गानि साधितानि | ततः अग्रे क्रियापदस्य निर्माणार्थं किम् अवशिष्टम् ?
क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
गतकरपत्रे प्रथमं कार्यं जातम्— नाम, धातु-विकरणप्रत्ययोः मेलनेन अङ्गं निर्मितम् | द्वितीयं कार्यं किम् ? तिङ्प्रत्ययस्य सिद्धिः |
अत्र स्मर्तव्यं यत् वस्तुतः विकरणप्रत्ययस्य आगमनार्थं, तिङ्प्रत्ययः आवश्यकः एव | प्रथमं धातुः अस्ति, तदा लकारः विवक्षितः, लकारस्य स्थाने तिङ्संज्ञकप्रत्ययः आगतः, तदा एव कर्तरि शप् इत्यनेन विकरणप्रत्ययः आयाति | अतः प्रष्टुं शक्यते यत् तिङ्प्रत्यय-सिद्धिः द्वितीये सोपाने कथं भवितुम् अर्हति ? उत्तरम् एवम्— प्रथम-सोपानस्य कृते तिङ्प्रत्ययस्य आवश्यकता अस्ति एव, सत्यम् | मनसि एवं भवेत् | परन्तु क्रियापदस्य निर्माणार्थम् अस्माकम् अंशद्वयम् अस्ति—अङ्गं, तिङ्प्रत्ययः च | द्वयोः पृथक्-पृथक् यन्त्रागारम् अस्ति | समय-दृष्ट्या तिङ्प्रत्ययः पूर्वम् एव क्रियते | तथापि केवलं चिन्तनार्थम् अनेन क्रमेण सौकर्यम् अस्ति—प्रथमम् अङ्गं निर्मामः, तदा तिङ्प्रत्ययं साधयित्वा आनयामः | अस्माकं पृथक् यन्त्रागारे तिङ्प्रत्यय-सिद्धिः भवति, तावत् एव |
तर्हि अधुना तिङ्प्रत्ययान् साधयितुम् इच्छामः | वदति, वदतः, वदन्ति इत्येषु क्रियापदेषु "ति, तः, अन्ति" इति तिङ्प्रत्ययाः सन्ति | तेषां तिङ्-संज्ञा भवति, अतः तिङ्संज्ञकप्रत्ययाः इत्युच्यन्ते | एते च प्रत्ययाः आरम्भे स्वमूल-रूपे सन्ति | आहत्य नव प्रत्ययाः परस्मैपदिधातूनां कृते, नव प्रत्ययाः आत्मनेपदिधातूनां कृते |
परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
आत्मनेपदिधातूनां मूल-तिङ्प्रत्ययाः
त आताम् झ
थास् आथाम् ध्वम्
इड् वहि महिङ्
एषां नाम 'तिङ्' यतोहि तिप् इत्यस्य 'ति' तः, आत्मनेपदिधातूनां कृते महिङ् इत्यस्य 'ङ्' पर्यन्तं भवन्ति | आहत्य अष्टादश मूलप्रत्ययाः सन्ति | तर्हि तिप् इत्यस्य 'ति' तः महिङ् इत्यस्य 'ङ्' पर्यन्तम्; अतः ति + ङ् = तिङ् |
एभ्यः मूल-प्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते | एकैक-लकारस्य अष्टादश सिद्ध-प्रत्ययाः सन्ति (नव प्रत्ययाः परस्मैपदिधातूनां कृते, नव प्रत्ययाः आत्मनेपदिधातूनां कृते); एकैकस्य लकारस्य प्रत्ययाः भिन्नाः; परन्तु एषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिताः अष्टादश मूलाः |
अवधेयं यत् अङ्गं द्विविधा—अदन्तम् अनदन्तं च | तदाधारेण सिद्धप्रत्ययाः अपि द्विविधा | अदन्ताङ्गानां कृते सिद्धप्रत्ययाः भवन्ति; तेभ्यः अनदन्ताङ्गानां कृते च सिद्धप्रत्ययाः किञ्चित् भिन्नाः | द्वयोः मध्ये बहुत्र साम्यम् अस्ति; कुत्रचित् एव भेदः | अधुना अस्माकम् अवधानम् अदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययेषु अस्ति |
एतावता यादृशी कार्यशैली वर्णिता, सा अत्यन्तं शक्तिशालिनी | अङ्गं साधयतु अङ्गयन्त्रागारे, तदा तिङ्प्रत्ययं साधयतु प्रत्यययन्त्रागारे; तदा द्वयं मेलयतु | एवं च एकैकस्य लकारस्य कृते स्वयं यन्त्रागारं भवतु— यथा लट्-लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्गं क्रमेण निर्मातु, तदा सिद्धप्रत्ययैः सह मेलयतु | एवं रीत्या लट्-लकारे कस्यचिदपि नैपुण्यं भविष्यति एव |
अस्मिन् करपत्रे मूलप्रत्ययेभ्यः कथं (१) परस्मैपदि लट्-लकारस्य, तदा (२) परस्मैपदि लोट्-लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः |
अस्य कार्यस्य कृते इत्-संज्ञाविज्ञानम् आवश्यकम् | पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन् स्थले क्रमेण सर्वाणि इत्-संज्ञा-विधायक-सूत्राणि स्थापितानि (इत्-संज्ञाप्रकरणे) | तानि इत्-संज्ञा-विधायक-सूत्राणि षट् सन्ति; एकेन सूत्रेण इत्-संज्ञा निषिध्यते; अन्ते च अपरेण सूत्रेण इत्-संज्ञकः अंशः लुप्यते | सम्प्रति एषु अष्टसु सूत्रेषु सूत्रत्रयम् अपेक्षते |
हलन्त्यम् (१.३.३) = उपदेशेऽन्त्यं हलित् स्यात् | अनेन यस्य कस्यापि अंशस्य अन्ते हल्-वर्णः भवति, तस्य हल्-वर्णस्य इत्-संज्ञा भवति | धातोः अन्ते वा, प्रत्ययस्य अन्ते वा, द्वयोरपि अन्ते हलः इत्-संज्ञा भवति | यथा शप् इत्यस्मिन् प् इत्यस्य इत्-संज्ञा | णिच् इत्यस्मिन् च्, डुकृञ् इत्यस्मिन् ञ्, श्यन् इत्यस्मिन् न् |
तस्य लोपः (१.३.९) = यस्य इत्-संज्ञा जाता, तस्य लोपः भवति | यथा शप्-प्रत्यये पकारस्य इत्-संज्ञा, लोपः च |
न विभक्तौ तुस्माः (१.३.४) = धातूनां तिङ्-प्रत्ययाः, सुबन्तानाम् (इत्युक्ते नामपदानां) सुप्-प्रत्ययाः—एते सर्वे विभक्तयः इत्युच्यन्ते (विभक्तिश्च इति सूत्रेण) | एषां विभक्तीनां अन्ते यदि तवर्गीयः वर्णः (त्, थ्, द्, ध्, न्), सकारः, अथवा मकारः अस्ति, तर्हि इदं सूत्रं हलन्त्यम् इत्यस्य कार्यं बाधते | हलन्त्यम् इत्यनेन एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु न विभक्तौ तुस्माः इत्यनेन इत्-संज्ञा बाधिता भवति; अनेन इत्-संज्ञा न भवति | यथा सुप्-प्रत्ययाः जस्, भ्याम्, भिस्, अपि च तिङ्-प्रत्ययाः तस्, वस्, मस्—अत्र भ्याम् इत्यस्य मकारः, तस् इत्यस्य सकारः, एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु न भवति | अवधेयं यत् धातुषु अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः धातोः अन्ते एते वर्णाः (तवर्गीय-वर्णाः, सकारः, मकारः च) भवन्ति चेत्, तेषाम् इत्-संज्ञा भवति, लोपः भवति च |
परस्मैपदिधातूनां लट्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
मूलम्—
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
तिप् - हलन्त्यम्, तस्य लोपः इत्याभ्यं सूत्राभ्यां पकारस्य लोपः → "ति" इति लट् प्रत्ययः निष्पन्नः |
तस् - न विभक्तौ तुस्माः इत्यनेन सकार-लोपः निषिध्यते → ससजुषो रुः इत्यनेन स्-स्थाने "रु”, खरवसानयोर्विसर्जनीयः इत्यनेन रु-स्थाने विसर्गः | तस् → स्-लोपः निषिध्यते → स्-स्थाने रु → तरु → रु स्थाने "ः" → "तः" इति लट् प्रत्ययः निष्पन्नः |
झि - झि → झ् + इ → झोऽन्तः ("झ्" स्थाने अन्त् आदेशः) → अन्त् + इ → "अन्ति" इति लट् प्रत्ययः निष्पन्नः |
सिप् - हलन्त्यम्, तस्य लोपः इत्याभ्यं सूत्राभ्यां पकारस्य लोपः → "सि" इति लट् प्रत्ययः निष्पन्नः |
थस् - न विभक्तौ तुस्माः इत्यनेन सकार-लोप-निषेधः; स्-स्थाने "रु”, रु-स्थाने विसर्गः | थस् → स्-लोपः निषिध्यते → स्-स्थाने रु → थरु → रु-स्थाने "ः" → "थः" इति लट् प्रत्ययः निष्पन्नः |
थ – किमपि कार्यं नास्ति | "थ" इत्येव लट् प्रत्ययः निष्पन्नः |
मिप् - हलन्त्यम्, तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः → "मि" इति लट् प्रत्ययः निष्पन्नः |
वस्, मस् - न विभक्तौ तुस्माः इत्यनेन सकार-लोपः निषिध्यते; स्-स्थाने "रु”, रु-स्थाने विसर्गः | वस् → स्-लोपः निषिध्यते → स्-स्थाने रु → वरु → रु-स्थाने "ः" → "वः" इति लट् प्रत्ययः निष्पन्नः | तथैव अपि मस् → "मः" |
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुषश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |
विरामोऽवसानम् (१.४.११०) = वर्णानाम् अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम् |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम् | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम् |
झोऽन्तः (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्-आदेशः भवति | झः षष्ठ्यन्तम्, अन्तः प्रथमान्तम्, द्विपदमिदं सूत्रम् | आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (७.१.२) इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य प्रत्ययस्य झः अन्तः |
अतः लटि सिद्ध-प्रत्ययाः—
ति तः अन्ति
सि थः थ
मि वः मः
परस्मैपदिधातूनां लोट्-लकारस्य तिङ्-प्रत्यय-सिद्धिः
मूलम्—
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
नियमाः—
१. परस्मैपदस्य लोटः तिङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति |
२. "तस्, थस्, थ, मिप्" ङित्सु लकारेषु* लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः |
३. लोटि मि-स्थाने नि आदेशः |
४. उत्तमपुरुषे आड् आगमः | प्रत्ययानाम् आदौ "आ" इति युज्यते |
५. वस् मस् ङित्सु लकारेषु* लोटि च अनयोः स्थितस्य सकारस्य लोपः |
६. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः |
७. अङ्गम् अदन्तं चेत् तस्य हि-प्रत्ययस्य लोपः |
८. तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः |
* ङित् लकाराः = ङकारः इत् येषां ते (लङ्, लिङ्, लुङ्, लृङ्) | लोट् ङिद्वत् भवति, अतः यत्र ङित्-लकाराणां सार्वत्रिकः नियमः भवति, बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तिः |
तर्हि नियमान् अनुसृत्य कार्यम् एवम्—
तिप् → पकारलोपः → ति → "तु" इति लोट् प्रत्ययः निष्पन्नः |
तस् → "ताम्" इति लोट् प्रत्ययः निष्पन्नः |
झि → अन्त् + इ → अन्ति → "अन्तु" इति लोट् प्रत्ययः निष्पन्नः |
सिप् → सिप् स्थाने हि → हि लोपः → "०" अत्र किमपि न युज्यते |
थस → "तम्" इति लोट् प्रत्ययः निष्पन्नः |
थ → "त" इति लोट् प्रत्ययः निष्पन्नः |
मिप् → नि → "आनि" इति लोट् प्रत्ययः निष्पन्नः |
वस् → व → "आव" इति लोट् प्रत्ययः निष्पन्नः |
मस् → म → "आम" इति लोट् प्रत्ययः निष्पन्नः |
लोटि सिद्ध-प्रत्ययाः—
तु, तात् ताम् अन्तु
०, तात् तम् त
आनि आव आम
परस्मैपदे लोट्-लकारस्य तिङ्-प्रत्यय-सिद्धिः— सूत्राणि
लोटः तिङ्-सम्बद्ध-सूत्राणि अत्र स्थाप्यन्ते | उपरि नियमाः प्रदर्शिताः; तान् आधारीकृत्य तिङ-प्रत्ययानां कार्यम् अपि प्रदर्शितम् | तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि, तानि अधः प्रतिपादितानि |
यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते, तत्र प्रत्ययादेशः इत्युच्यते | अष्टाध्याय्यां प्रत्ययादेशः लभ्यते केवलं द्वयोः स्थानयोः— ३.४, ७.१ च | धेयं यत् एकं सूत्रं विहाय अधस्स्थितानि सर्वाणि सूत्राणि अनयोः द्वयोः स्थानयोः सन्ति | एकं सूत्रं अतो हेः (६.४.१०५) अङ्गकार्यं न तु प्रत्ययादेशः, अतः षष्ठाध्याये | पुनः ३.४, ७.१-मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि ३.४-मध्ये सन्ति | ३.४-मध्ये लस्य (३.४.७७) इत्यस्य अधिकारः | लस्य इत्यस्य अधिकारः ३.४.७७ - ३.४.११२ यावत् | दश लकाराः सन्ति; अनुबन्धलोपानन्तरं सर्वेषां दशानां 'ल्' इत्येव अवशिष्यते | लस्य इति सूत्रं तस्य 'ल्' इत्यस्य एव षष्ठ्यन्तं रूपम् (अकारः उच्चारणार्थः) |
नियमाः—
१. परस्मैपदस्य मूल-तिङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति |
एरुः (३.४.८६) = लोट्-लकार-सम्बद्ध-इकारस्य स्थाने उकारादेशः भवति | लोट इकारस्य उः | एः षष्ठ्यन्तं, उः प्रथमान्तं, द्विपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य एः उः |
२. "तस्, थस्, थ, मिप्" ङित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः |
तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थच मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तच अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य तस्थस्थमिपां तान्तन्तामः |
लोटो लङ्वत् (३.४.८५) = प्रत्ययादेशानां कृते लोट्-लकारः लङ् इव भवति | अतिदेशसूत्रम् | लोटः षष्ठ्यन्तं, लङ्वत् अव्ययं, द्विपदमिदं सूत्रम् | कानिचन कार्याणि केवलं ङित्सु भवन्ति | लोट् टित् न तु ङित्, अतः यत्र ङित्सु किञ्चन कार्यं भवति, "ङित्सु भवतु" इत्यनेन तर्केण लोटि तत्कार्यं नार्हम् | अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धम् | सूत्रं स्वयं सम्पूर्णम्— लोटः लङ्वत् |
अत्र 'लङ्वत्' ङिद्वत् इत्यर्थे एव दत्तं; ङित्सु लकारेषु लङ् अन्तर्भवति अतः लङ् ङितः 'उपलक्षणम्'; उदाहरणरूपेण, प्रतिनिधिरूपेण ङित्-स्थाने लङ् स्वीक्रियते | अतः ङिद्वत् इत्येव वक्तुं शक्यते, न कोऽपि भेदः | यतोहि यत् किमपि कार्यं भवति ङित्सु, तत्कार्यं लङि अपि भवति यतः लङ् ङित् |
अग्रे तर्हि लोट् लङ्वत् इति चेत्, पाणिनिना किमर्थं लोट् टित् कृतं न तु साक्षात् ङित् ? कुतः लोट्-स्थाने नामकरणं 'लोङ्' न स्यात् ? उत्तरम् अस्ति यत् टित्सु लकारेषु यानि कार्याणि भवन्ति, तानि अपि अपेक्षितानि भवन्ति लोटि | यथा आत्मनेपदे टित आत्मनेपदानां टेरे (३.४.७९) इति सूत्रेण टित्सु लकारेषु विशिष्टकार्यं वक्ष्यमाणं; तत् कार्यमपि अपेक्षितं लोटि | लोट् 'लोङ्' यदि स्यात्, तर्हि एतादृशानि कार्याणि लोटि न स्युः |
कानिचन च कार्याणि भवन्ति लङि यानि न अपेक्षितानि लोटि | आहत्य सप्तसु स्थलेषु लङि तिङ्-आदेशाः सन्ति—
१) नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति |
२-५) तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः |
६) इतश्च (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति |
७) सिजभ्यस्तविदिभ्यश्च (३.४.१०९), लङः शाकटायनस्यैव (३.४.१११) इति सूत्राभ्यां लङि कुत्रचित् झि-स्थाने जुस्-आदेशः |
एषु सप्तसु स्थलेषु लोटः प्रसङ्गः भवति चतुर्षु स्थलेषु— नित्यं ङितः (३.४.९९) इत्यनेन स्-लोपः वसि मसि च; तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इत्यनेन तसः ताम्, थसः तम्, थ-स्थाने त च | मिपः अम् बाधितं भवति मेर्निः (३.४.८९) इत्यनेन; इतश्च (३.४.१००) बाधितं भवति एरुः (३.४.८६) इत्यनेन; सिजभ्यस्तविदिभ्यश्च (३.४.१०९), लङः शाकटायनस्यैव (३.४.१११) इत्यनयोः जुस्-आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा | केचन वदन्ति यत् विदो लटो वा (३.४.८३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्; अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति-प्रत्ययः 'न नित्यः'; 'वतिपदघटितम् अनित्यम्' इति प्रसिद्धवाक्यम् | अत्र 'न नित्यः' इत्यस्य सारांशः एवं यत् लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य— यत्र फलं नापेक्षते, तत्र प्रसक्तिः न भवति | अतः सिजभ्यस्तविदिभ्यश्च (३.४.१०९), लङः शाकटायनस्यैव (३.४.१११) इति सूत्राभ्यां कार्यं भवति लङि किन्तु लोटि न अपेक्षते, अतः 'लङ्वत्' इति तत्र न गच्छति |
३. लोटि मि स्थाने नि आदेशः |
मेर्निः (३.४.८९) = लोट्-लकारे मि इत्यस्य स्थाने नि-आदेशो भवति | मेः षष्ठ्यन्तं, निः प्रथमान्तं, द्विपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य मेः निः |
४. उत्तमपुरुषे आड् आगमः | प्रत्ययानाम् आदौ "आ" इति युज्यते | पित्त्वम् आरोपितम् |
आडुत्तमस्य पिच्च (३.४.९२) = लोट्-लकारस्य लस्य स्थाने यः उत्तमपुरुष-प्रत्ययः भवति, तस्य आट्-आगमो भवति, अपि च तस्य पित्त्वं भवति | आद्यन्तौ टकितौ इत्यनेन आट्-आगमः प्रत्ययात् प्राक् आयाति | आड् प्रथमान्तम्, उत्तमस्य षष्ठ्यन्तं, पित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य उत्तमस्य आट् पित् च |
५. वस् मस् ङित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः |
नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | येन विधिस्तदन्तस्य (१.१.७७) इत्यनेन तादृशः उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः स्यात् | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य सकारस्य एव लोपो भवति, न तु पूर्णतया प्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणं, ङितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | स उत्तमस्य (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य सः उत्तमस्य नित्यं लोपः |
६. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः | अपित्त्वम् आरोपितम् |
सेर्ह्यपिच्च (३.४.८७) = लोट्-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित् भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्, अपित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य सेः हि अपित् च |
७. अङ्गम् अदन्तं चेत् तस्य हि-प्रत्ययस्य लोपः |
अतो हेः (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् हेः लुक् |
लोटि नवसु सिद्ध-तिङ्प्रत्ययेषु हि-प्रत्ययः एक एव यस्य रूपं परिवर्तते अङ्गम् अदन्तम् अनदन्तं चेति अवलम्ब्य |
८. तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः |
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् (७.१.३५) = तु हि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे | ङमो ह्रस्वादचि ङमुण् नित्यम् (८.३.३२) इत्यनेन प्रकृतसूत्रे तातङ् इति पदात् ङुट्-आगमः | तुश्च हिश्च तयोरितरेतरद्वन्द्वः तुही, तयोः तुह्योः | तुह्योः षष्ठ्यन्तं, तातङ् प्रथमान्तम्, आशिषि सप्तम्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य तुह्योः तातङ् आशिषि अन्यतरस्याम् |
Bonus
अत्र प्रश्नः उदेति अयं तातङ्-आदेशः कस्य स्थाने आयाति ?
1. यः कोऽपि आदेशः, सः कस्य स्थाने आयाति इत्यस्य निर्णयार्थं सामान्यसूत्रं भवति अलोऽन्त्यस्य (१.१.५२) | अनेन, आदेशः स्थानिनः अन्त्यस्य अलः स्थाने भवति | अयम् अन्तादेशः इत्युच्यते—
अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | परिभाषासूत्रम् | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात् षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |
यथा—
सार्वधातुकार्धधातुकयोः (७.३.८४) = सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
भू + शप् इति स्थितौ चिन्तयतु | अनुवृत्ति-सहितसूत्रे 'अङ्गस्य गुणः' इत्यनेन सर्वस्य अङ्गस्य स्थाने गुणादेशः स्यात् | किन्तु अलोऽन्त्यस्य (१.१.५२) इति परिभाषासूत्रस्य साहाय्येन तथा न भवति—
भू + शप् → भू + अ → अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः → भो + अ → भव
2. किन्तु आदेशे एकस्मात् अधिकाः वर्णाः सन्ति चेत्, अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन पूर्णस्थानिनः स्थाने भवति—
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
यथा—
ज्ञाजनोर्जा (७.३.७९) = ज्ञा (क्र्यादिगणे), जन् (दिवादिगणे) चेत्यनयोः जा-आदेशो भवति शिति प्रत्यये परे | आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | ज्ञाश्च जन् च तयोरितरेतरद्वन्द्वः ज्ञाजनौ, तयोः ज्ञाजनोः | ज्ञाजनोः षष्ठ्यन्तं, जा लुप्तप्रथमाकं पदं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.७५) इत्यस्मात् शिति इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ज्ञाजनोः अङ्गस्य जा शिति |
जन्-धातुः आत्मनेपदी—
जनीँ → अनुबन्धलोपे जन् → जन् + श्यन् → ज्ञाजनोर्जा (७.३.७९) इत्यनेन शिति परे जा-आदेशः, अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन स च सर्वादेशः → जा + य → जाय इति अङ्गम् → जाय + ते → जायते
3. अधुना स च अनेकाल् आदेशः ङित् चेत्, अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति—
ङिच्च (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित् सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङिच् च अन्त्यस्य अलः स्थाने |
यथा—
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
तुदादिगणे श इति विकरणप्रत्ययः, अनुबन्धलोपे 'अ' इति अजादि-प्रत्ययः | रि गतौ इति इकारान्त-धातुः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अचि परे इकारान्त-धातूनाम् इयङ्-आदेशः | इयङ् इति आदेशः अनेकाल्, किन्तु ङित् अपि अस्ति अतः ङिच्च (१.१.५३) इति सूत्रेण अन्तादेशः |
तुदादिगणे रि गतौ → रि + श → रि + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अचि परे इयङ्-आदेशः, ङिच्च (१.१.५३) इत्यनेन स च अन्तादेशः → र् + इय् + अ → रिय इति अङ्गम् → रिय + ति → रियति
वैशिष्ट्यम् अत्र इदं यत् इयङ्-आदेशे ङित् इत्यस्य अन्यत् किमपि कार्यं नास्ति | ङित्त्वात् अन्तादेशः इत्येव प्रयोजनम् |
4. अधुना तातङ्-आदेशः अपि अनेकाल्, ङित् च | अतः नियमानुसृत्य ङिच्च (१.१.५३) इत्यनेन अन्तादेशः— अन्त्यस्य अलः स्थाने स्यात् | यथा तिप् → तु → तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् (७.१.३५), ङिच्च (१.१.५३) इत्यनेन उकारस्य स्थाने तातङ् → त् + तात् |
किन्तु एवं भवति चेत्, सिद्धं रूपं 'त्तात्'; तत् तु इष्टं रूपं नास्ति | इष्टम् अस्ति तात्, नाम तु-स्थाने सर्वादेशः | तदर्थम् अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन कार्यं स्यात् | परन्तु तातङ् ङित्— तस्मात् इष्ट-सूत्रेण कार्यं कथं साधयितुं शक्येत ?
समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते—
"आशिषि तुह्योस्तातङ् वा स्यात् | अनेकाल्त्वात्सर्वादेशः। यद्यपि ङिच्च इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते | इहोत्सर्गापवादयोरपि समबलत्वात् | भवतात् |”
'यद्यपि ङिच्च इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थः'— अस्य अर्थः एवं यत् यद्यपि ङिच्च (१.१.५३) इति अपवादभूत-सूत्रेण तातङ् ङित्त्वात् अन्त्यस्य अलः स्थाने स्यात्, तथापि इदं सूत्रं ङिच्च (१.१.५३) 'अनन्यार्थङित्त्वेष्वनङादिषु चरितार्थः' | नाम, येषाम् आदेशानां ङित्त्वस्य एकम् एव प्रयोजनम् 'अन्तादेशः', तेषां द्वारा ङिच्च (१.१.५३) इति सूत्रस्य साफल्यम् | तेषु अनन्य-अर्थ-ङित्त्वेषु अनङादिषु ङिच्च (१.१.५३) इति सूत्रस्य अर्थः पूरितः |
अत्र सिद्धान्तकौमुदी-वृत्तौ अनङ् इत्यादेशस्य दृष्टान्तः दीयते | अनङ् अपि अनेकाल्-आदेशः, ङित् च |
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (७.१.७५) = तृतीयादि-अजादि-विभक्तिषु परेषु अस्थि, दधि, सक्थि, अक्षि च एषां शब्दानाम् अनङ्-आदेशो भवति |
तृतीयाविभक्तौ दधि + टा-प्रत्ययः → दधि + आ → अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (७.१.७५) इत्यनेन अनङ्-आदेशः, ङिच्च (१.१.५३) इत्यनेन अन्तादेशः → दध् + अन् + आ → दधन् + आ → अल्लोपोऽनः (६.४.१३४) इत्यनेन सर्वनामस्थानभिन्न-यकारादौ अजादौ च स्वादि-प्रत्यये परे अङ्गस्य अन्-अवयवस्य अकार-लोपः → दध्न् + आ → दध्ना
एवमेव सर्वेषु सर्वनामस्थानभिन्नेषु अजादिषु स्वादिषु प्रत्ययेषु तथा भवति | दधि + ए → दधन् + ए → दध्ने | दधि + अस् → दधन् + अस् → दध्नः | दधि + ओस् → दध्नोः | दधि + आम् → दध्नाम् |
सु औ जस् स् औ अस्
अम् औट् शस् अम् औ अस्
टा भ्याम् भिस् आ भ्याम् भिस्
ङे भ्याम् भ्यस् ए भ्याम् भ्यस्
ङसि भ्याम् भ्यस् अस् भ्याम् भ्यस्
ङस् ओस् आम् अस् ओस् अम्
ङि ओस् सुप् इ ओस् सु
तर्हि वृत्तौ टीकाकारः अनङ्-आदेशस्य उदाहरणम् अददत् किमर्थम् ? अनङ्-आदेशः दधि-शब्दस्य इकारस्य एव स्थाने आयाति न तु पूर्णस्य दधि-शब्दस्य, यतोहि अनङ् यद्यपि अनेकाल्, तथापि ङित् अस्ति अपि च तस्य ङित्त्वस्य अन्यत् किमपि प्रयोजनं नास्ति | एतादृशैः आदेशैः ङिच्च (१.१.५३) इति सूत्रस्य अपवादबलं पूरितम् |
किन्तु क्वचित् कस्यचित् आदेशस्य ङित्त्वस्य अनेकानि प्रयोजनानि सन्ति | यथा तातङ्-प्रत्ययः, तस्य विद्यमानस्य ङित्त्वस्य चत्वारि प्रयोजनानि सन्ति ङिच्च इति सूत्रं विहाय |
१. प्रथमं प्रयोजनं गुण-निषेधः | द्विष् इति परस्मैपदिधातुः अदादिगणे, तत्र च विकरणप्रत्ययस्य लुक् (लोपः) | द्विष् + तातङ् | तातङ् तु-प्रत्ययस्य स्थाने आगतः अपि च तु-प्रत्ययः पित् इत्यस्मात् आगतः; अनेन तातङ् इत्यस्यापि पित्त्वं; पित्त्वात् गुणः भवेत् | द्विष्-धातोः उपधायां यः लघु-इकारः, तस्य गुणः प्राप्तः पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रेण | किन्तु तातङ् ङित्, अतः क्क्ङिति च (१.१.५) इति सूत्रेण गुण-निषेधः, द्विष् + तातङ् → द्विष्टात् |
२. द्वितीयं प्रयोजनं वृद्धि-निषेधः | वृद्धिविषये स्तु-धातुः अदादिगणे | स्तु + तात् इति स्थितौ उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यनेन सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रं प्रबाध्य वृद्धिम् आदिशति | परन्तु तातङ् ङित्, अतः क्क्ङिति च (१.१.५) इति सूत्रेण वृद्धि-निषेधः, स्तु + तातङ् → स्तुतात् |
३. तृतीयं ङित्त्वनिमित्तकं कार्यं सम्प्रसारणम् | अग्रे अस्माभिः बहुत्र सम्प्रसारणकार्यं परिशीलयिष्यते | अधुना केवलं बोध्यं यत् कुत्रचित् यण्-सन्धेः विपरीतत्वेन कार्यं भवति | सम्प्रसारणं भवति ङित्त्वेन कित्त्वेन च | यथा ग्रह्-धातुतः क्तवतौ, प्रत्ययस्य कित्त्वात् ग्रह् → गृह्, अनेन गृहीतवान् | तथैव वस्-धातोः क्तवतौ वस् → उस्, अनेन उषितवान् | अत्र प्रकृतौ, अदादिगणे वश् इत्यपि सम्प्रसारणिधातुः | वश् + तातङ् → ङित्त्वात् सम्प्रसारणम् → उष्टात् |
४. चतुर्थं प्रयोजनं ईट्-आगम-निषेधः | ब्रुव ईट् (७.३.९३) इत्यनेन ब्रू-धातुतः हलादि-पित्-प्रत्ययस्य ईट्-आगमो भवति | यथा ब्रू + तिप् → ब्रू + ति → ब्रू + ईट् + ति → ब्रू + ईति → ब्रो + ईति → ब्र् + अव् + ईति → ब्रवीति | तातङ् अपि हलादिः, अपि च तु-स्थाने आयाति इति कृत्वा पित्त्वं विधीयते | किन्तु ङित्त्वात् पित्त्वं न मन्यते— प्रामाण्येन महाभाष्ये वाक्यम् अस्ति 'ङिच्च पिन्न, पिच्च ङिन्न' | तस्मात् अत्र पित्त्वाभावे ब्रुव ईट् (७.३.९३) इत्यस्य प्रसक्तिर्नास्ति | ङित्त्वात् अत्र गुणनिषेधः अपि अस्ति | ब्रू + तात् → ब्रूतात् |
'गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते' | गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया—अत्र गुण-वृद्धि-निषेधः, सम्प्रसारण-आद्यर्थता, तया | तातङि ङित्त्वस्य विभिन्नानि प्रयोजनानि सन्ति, तेषां प्रभावेन— तेषां प्रभावेन अग्रे उच्यते किं भवति | 'सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः'— 'सम्भवत्प्रयोजनङकारे' इत्युक्तौ यस्य ङकारस्य सम्भावितप्रयोजनानि, विभिन्नप्रयोजनानि | अनङ्-आदेशे ङित्त्वस्य अनन्यप्रयोजनम् | न विद्यते अन्यत्प्रयोजनं यस्य, तदनन्यप्रयोजनम् | तातङ्-आदेशस्य ङित्त्वस्य विभिन्नप्रयोजनानि— सम्भवन्ति प्रयोजनानि अन्यान्यापि यस्य सः सम्भवत्प्रयोजनः | तादृशङकारयुक्तादेशे तातङि ङिच्च (१.१.५३) इति सूत्रं प्रति शिथिलता, मन्थरगतिः आयाति |
'इहोत्सर्गापवादयोरपि समबलत्वात्'— अत्र उत्सर्गस्य अपवादस्य च समबलं भवति | अनेन तातङि ङित्त्वस्य ङिच्च (१.१.५३) इति सूत्रं प्रति अपवादबलं न निर्वहति | तस्मात् ङिच्च (१.१.५३) इति अपवादभूतसूत्रं 'परेण बाध्यते'— सामान्यसूत्रेण बाध्यते |
विविधकार्यैः तातङः विषये मन्दगत्या प्रवृत्तिः भवति | यथा कश्चन लोकन्यायः अस्ति यत् यः बुभुक्षितः तस्य शीघ्रमेव भोजनस्य विषये प्रवृत्तिः भवति | यः तस्मिन् एव क्षणे खादितवान्, उदरं पूरितं, तस्य भोजनविषये, प्रवृत्तौ मन्थरगतिः आयाति | एवमेव तातङः ङित्त्वस्य अनेकानि कार्याणि अभवन् एव, यस्मात् ङिच्च (१.१.५३) प्रति तादृशी प्रवृत्तिः नास्ति, अतः अपवादत्वस्य बलं नश्यति |
अधुना यदा अपवादस्य बलं नास्ति, तदा पूर्वपरत्वं परिशीलनीयं भवति | ङिच्च (१.१.५३), अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रद्वयमपि सपादसप्ताध्याय्याम् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यस्य परत्वात् बलम् | तदर्थं च सिद्धान्तकौमुद्याम् उच्यते, “इहोत्सर्गापवादयोरपि समबलत्वात् | भवतात् |” एतस्मात् तातङ् अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन न केवलम् उकारस्य अपि तु तु-प्रत्ययस्य पूर्णतया स्थाने आयाति |
Swarup March 2013 (Updated March 2015, Sept 2016)
परिशिष्टम्
अत्र श्रीराममहोदयः अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या परस्मैपदि अदन्ताङ्गानां लट् च लोट् चेतनयोः तिङ्-सिद्धिः चित्रत्वेन निरूपितवान्—


३ - तिङ्-प्रत्यय-सिद्धिः.pdf (92k) Swarup Bhai, Mar 31, 2019, 6:12 AM v.1