04 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?

From Samskrita Vyakaranam
10---nyAyashAstram/04---samavAyaH-atiriktaH-padArthaH
Jump to navigation Jump to search


पदार्थसङ्ख्या न्यूनातिन्यूना स्यात्‌ इति नैयायिकानां सिद्धान्तः | यदि विश्वे यावन्ति वस्तूनि सन्ति तानि सर्वाणि पञ्चसु पदार्थेषु अर्हन्ति, तर्हि पञ्च एव पदार्थाः भवन्तु; चतुर्षु पदार्थेषु विश्वस्य वस्तूनि गच्छन्ति चेत्‌ पुनः इतोऽपि सम्यक्‌; त्रिषु अर्हन्ति चेत् पुनः इतोऽपि सम्यक्‌ | विश्वस्य विश्लेषणं सम्पूर्णं, पदार्थसङ्ख्या न्यूनातिन्यूना—इति लक्ष्यम्‌ |


अतः यदा पदार्थचिन्तनं क्रियते नैयायिकैः, तदा "सप्तसु पदार्थेषु इदं वस्तु भवतु" इति प्रथमप्रयासः | कदाचित्‌ चिन्तनक्रमे तादृशं वस्तु मनसि उदेति यत्‌ सप्तसु पदार्थेषु नान्तर्भवितुम्‌ अर्हति, तदानीमेव अन्योपायस्य अभावात्‌ पृथक्‌ नूतनपदार्थः कल्पनीयः | उपायाभावात्‌ एव सर्वोपरि स्तरे नूतनपदार्थः, इति विधिः |


यथा समवायं विहाय षट्‌ पदार्थाः सन्ति; यदि षट्सु कुत्रचित्‌ समवायस्य सदस्यत्वं शक्येत, तर्हि सप्तमपदार्थः मास्तु | अतः अस्माकं पुरतः प्रश्नः एवम्‌— किमर्थं समवायः पृथक्‌ पदार्थः ?


एतदर्थं प्रथमं तमः उदाह्रियते |


नव द्रव्याणि सन्ति इति सिद्धान्तः | तत्र चिन्तनक्रमे तमः द्रव्यं वा ? तमः द्रव्यम् इति चेत्‌, नवसु अन्यतमम्‌ अथवा अतिरिक्तं दशमम्‌ ? सिद्धान्ती वदति द्रव्याणि नव एव | प्रतिपक्षी तमः दशमं द्रव्यम्‌ इति आक्षिपति |


प्रतिपक्षी "तमः अतिरिक्तं द्रव्यम्‌" इति प्रमाणयितुं वदति—

१. नीलरूपं तमसि अस्ति | नीलरूपं गुणः | गुणः केवलं द्रव्ये भवति, यथा श्वेतरूपं वस्त्रे | अतः नीलरूपं तमसि अस्ति चेत्‌, तमः द्रव्यम्‌ |

२. चलन-रूप-क्रिया तमसि अस्ति | कर्म (क्रिया) केवलं द्रव्ये | यथा फलं पतति; फले पतन-रूप-क्रिया अस्ति अतः फलं द्रव्यम्‌ | तथैव चलन-रूप-क्रिया तमसि अस्ति | रात्रौ मनुष्यः दीपं स्वीकृत्य गच्छति | तस्मिन्‌ समये मनुष्यस्य पुरतः तमः अग्रे अग्रे सरति | तमसि क्रिया अस्ति, अतः तमः द्रव्यम्‌ |

३. तमः द्रव्यं नीलरूपवत्वात्‌ | तमः द्रव्यं चलनवत्वात्‌ |

४. तमः द्रव्यम्‌ इति सिद्धम्‌‍ | किन्तु नवसु द्रव्येषु कुत्रचित्‌ अन्तर्भवति, अथवा अतिरिक्तं दशमं द्रव्यम्‌ ?

- तमः गन्धशून्यत्वात्‌ न पृथिवी |

- तमः नीलरूपवत्वात्‌ जलादिकं न | नीलरूपम्‌ अष्टसु जलादिषु नास्ति | अतः नीलरूपतमः नवसु द्रव्येषु न |

- प्रतिपक्षिणः निष्कर्षः— तमः द्रव्यम्‌, किन्तु नवसु न अतः अतिरिक्तं दशमं द्रव्यम्‌ |


सिद्धान्तिनः समाधानम्‌— तमः अतिरिक्तं द्रव्यं न अपितु तेजोऽभावः | तेजसः अभावः एव तमः |

- तमसि नीलरूपं प्रतीयते | परन्तु तत्‌ तु तमसि विद्यमानं न; इदं भ्रमात्मकं ज्ञानम्‌ |

- तमसि चलनक्रिया इत्यपि भ्रमात्मकं ज्ञानम्‌ |

- यतोहि तमः द्रव्यं न अपि तु अभावः एव | कस्य अभावः ? तेजसः | अभावः न रूपस्य आश्रयः, न वा क्रियायः |


एवं रीत्या समवायस्य विषये, चिन्तनीयं यत्‌ षट्सु सत्सु पदार्थेषु तस्य कुत्रचित्‌ अन्तर्भावः; अस्ति चेत्‌, पृथक्‌ सप्तमः पदार्थः मास्तु | नैयायिकानां निष्कर्षः एवं यत् समवायः अन्यत्र कुत्रापि न गच्छति, अतः सप्तमपदार्थः एव; अन्ये सर्वे सम्बन्धाः अपरेषु पदार्थेषु अन्तर्भूताः येन कारणेन तेषां कृते पृथक्‌ पदार्थः मास्तु |


समवायः अतिरिक्तः सप्तमः पदार्थः किमर्थम्‌ इति चेत्‌, नित्यः सम्बन्धः समवायः |


समवायः नित्यः, अन्ये सम्बन्धाः अनित्याः किमर्थम्‌ इत्यस्य बोधार्थं सर्वप्रथमं बोध्यं यत्‌ समवायः एक एव; समवायाः भिन्न-भिन्नाः इति न | गुणगुणिनोः, अवयवावयविनोः, क्रियाक्रियावतोः मध्ये यः समवायः भवति, सः एकः |


संयोगसम्बन्धः अनित्यपदार्थः | संयोगस्य उत्पत्तिः अपि भवति, तस्य नाशः अपि भवति |

१. विभागः भवति चेत्‌, संयोगनाशो भवति | पुस्तकभूतलयोः विभागः भवति चेत्‌, तयोः मध्ये यः संयोगः आसीत्‌ सः नष्टः |

२. संयोगः भिन्न-भिन्नः इति अङ्गीक्रियते | पुस्तकभूतलयोः संयोगः भिन्नः, घटपटयोः संयोगः भिन्नः, हस्तपादयोः संयोगः भिन्नः | द्वयोः द्रव्ययोः स्पर्शे सति संयोगः जायते; विभागे सति संयोगः नश्यति | अतः संयोगः सदा जायते, नश्यति, जायते नश्यति |


किन्तु समवायस्त्वेक एव, नित्यः च उत्पत्ति-नाश-अनुभवविरुद्धत्वात्‌ | पुस्तक-रूपयोः समवायसम्बन्धः | पुस्तकस्य नाशे सत्यपि रूपस्य समवायसम्बन्धः तथैव तिष्ठति | समवायः नित्यः अतः तस्य कोऽपि आश्रयः न अपेक्ष्यते |


पुस्तके विद्यमानरूपस्य नाशेऽपि रूपसमवायः वर्तते एव समवायस्य एकत्वात्‌ | रूपमात्रं नष्टम्‌; रूपसमवायः न नष्टः | पुस्तकं नष्टं चेदपि रूपसमवायः न नश्यति | पुस्तकरूपयोः मध्ये यः समवायः, सर्प-प्रसर्पणक्रिययोः मध्ये स एव समवायः यतोहि समवायः एक एव | अतः समवायः सदैव तिष्ठति, जातिवत्‌ |


तर्हि संयोगः नश्यति; समवायः न नश्यति |

- संयोग-नाशकः गुणः विभागः | संयोग-नाशकः गुणः वर्तते, स एव विभागः इत्युच्यते |

- संयोगः भिन्न-भिन्नः भवति | घट-भूतलयोः संयोगः अन्यः | पट-भूतलयोः संयोगः अन्यः | तत्र भेदः प्रत्यक्षेण दृश्यते | अनुभवः एव प्रमाणम्‌‍ |


रूपसमवायः पुस्तके स्वरूपसम्बन्धेन अस्ति | तत्र पुस्तकम्‌ अपि नष्टं चेत्‌, रूपसमवायः कुत्र अस्ति ? आश्रयः नष्टः तथा च विद्यमानः धर्मः समवायः अपि नष्टः खलु इति चेत्‌‍, समवायः न नश्यति | पुस्तकं विना अपि तिष्ठति |

- घटः नश्यति चेदपि घटत्वम्‌ इति जातिः न नश्यति; घटत्व-जातिः नित्या इति अङ्गीक्रियते | तथैव समवायः अपि | जातिः अपि नित्या, समवायः अपि नित्यः |

- किन्तु यः नित्यः सः अत एव, नित्यत्वात्‌, पृथक्‌ पदार्थः इति न | सर्वे पदार्थाः न नित्याः | यथा द्रव्यम्‌ | नित्यद्रव्याणि अपि सन्ति, अनित्यद्रव्याणि अपि सन्ति |

- तर्हि समवायः नित्यः अतः पदार्थः इति न | पदार्थत्वार्थं नित्यत्वं न अपेक्ष्यते यतोहि अनित्यपदार्थः अपि भवति |

- पदार्थत्वार्थं निकषः कः ? अन्यत्र स्थानस्य कल्पना अशक्या इति यदा, तदा नूतनपदार्थः कल्पनीयः | अन्येषां सर्वेषां सम्बन्धानाम्‌ अन्यत्र अन्तर्भावः कृतः | संयोगः गुणे अन्तर्गतः | स्वरूपसम्बन्धः अन्यत्र अन्तर्गतः (कुत्र इति अपरस्मिन्‌ समये चर्चा) | समवायः तथा अन्यत्र न शक्यते षट्सु पदार्थेषु | अतः अतिरिक्तत्वं स्वीकार्यम्‌ | समवायस्य कुत्रापि षट्सु पदार्थेषु अन्तर्भावः न शक्यते इति कृत्वा तस्य अतिरिक्तत्वम्‌ अङ्गीकरणीयम्‌ एव | अनुभव-सिद्धत्वात्‌ समवायस्य कुत्रापि अन्तर्भावकत्वस्य अशक्यत्वात्‌ |


Swarup – October 2015


---------------------------------


०४ - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ?.pdf