08 - तुदादिगणः

From Samskrita Vyakaranam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2017 वर्गः
१) tudAdigaNaH-1--paricayaH_+_sAmAnya-dhAtavaH_2017-01-25
२) tudAdigaNaH-2--visheSha-dhAtavaH---ikArAntAH-ukArAntAH-RukArAntAH-ca_2017-02-01
३) tudAdigaNaH-3--visheSha-dhAtavaH---RukArAntAH--RUkArAntAH-ca_2017-02-15 
2015 वर्गः
१) tudAdigaNaH--1_gaNasya-saiddhAntikaM-cintanam _2015-07-21
२) tudAdigaNaH--2_sAmAnya-visheSha-ca dhAtavaH_+_ikArAntadhAtavaH _2015-07-28
३) tudAdigaNaH--3_ukArAntadhAtavaH_+_RukArAntadhAtavaH _2015-08-04
४) tudAdigaNaH--4_dIrgha-RUkArAntadhAtavaH _+_dhAtvAdeshaH_2015-08-11



तुदादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श-विकरणप्रत्ययः विहितः अस्ति | वस्तुतः प्रथमं 'कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः, तदा कर्तरि शप्‌ इति सूत्रं प्रबाध्य तुदादिभ्यः शः (३.१.७७) आगत्य कार्यं करोति | किमर्थम्‌ ? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत्‌ इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप्‌ इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः तुदादिभ्यः शः, कर्तरि शप्‌ इत्यस्य अपवादभूतसूत्रम्‌ | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत्‌ सूत्रं अपवादः अस्ति, तत्‌ अपरस्य अपेक्षया बलवत्‌ | अतः अत्र तुदादिभ्यः शः ' इति सूत्रस्य कार्यं सिध्यति |


तुदादिभ्यः शः (३.१.७७) = तुदादिगणे स्थितेभ्यः धातुभ्यः श-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तुद्‌ आदिर्येषां ते, तुदादयः बहुव्रीहिसमासः, तेभ्यः तुदादिभ्यः | तुदादिभ्यः पञ्चम्यन्तम्‌, श प्रथमान्तम्‌, द्विपदमिदं सूत्रम् | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— तुदादिभ्यः धातुभ्यः श प्रत्ययः परश्च कर्तरि सार्वधातुके |



कर्तरि शप्‌ (..६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |



अयं श-प्रत्ययः शित्‌ इति कारणतः तिङ्‌शित्सार्वधातुकम्‌ (..११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात्‌ कारणात्‌, -प्रत्ययः परश्चेत्‌, सार्वधातुकार्धधातुकयोः (..८४) पुगन्तलघूपधस्य च (..८६) इति सूत्राभ्यां गुणकार्यं विहितम्‌ | परन्तु श अपित्‌, अतः सार्वधातुकमपित्‌ (..) इति सूत्रेण ङिद्वत्‌ | ङिद्वत्‌ अतः क्क्ङिति च (..) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्‌, तत्र तत्र निषिद्धम्‌ |



सार्वधातुकमपित्‌ (..) = अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌ (..) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् |



क्क्ङिति च (..) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (..) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (..) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |



आहत्य तुदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे श-प्रत्ययः विहितः | श च ङिद्वत्‌ | अस्य एकः परिणामः गुणनिषेधः | परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य ङिद्वत्‌ इति भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |



किति ङिति विशिष्ट-कार्याणि


यः कोऽपि प्रत्ययः कित्‌ ङित्‌ भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—

) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | तुदादौ तुद्‌ + + ति → तुदति | क्क्ङिति (..) |

) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां हलन्तधातूनाम्‌ इत्‌-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | तृम्फ्‌ + + ति‌ → न्‌-लोपः | अनिदितां हल उपधाया क्ङिति (..२४) | परन्तु तुदादितणे विशिष्ट-वार्तिकेन एषां पुनः नुमागमः आनीयते | शे तृम्फादीनां नुम्वाच्यः | तृम्फ्‌ + + ति‌ → न्‌-लोपः → तृफ्‌ + + ति → नुम्‌-आगमः → तृम्फ्‌ + + ति‌ → तृम्फति |

) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च्‌ + + ति → वृश्चति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (..१६) |



धेयं यत्‌ दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित्‌ (श्यन्‌, ), तथापि सर्वत्र तयोः कार्यं समानं नास्ति; भेदाः सन्ति यतोहि श्यन्‌ → य हलादिः अपित्‌ प्रत्ययः; श → अ अजादिः अपित्‌ प्रत्ययः | हलादि-अजादि-भेदात्‌ कार्ये भेदाः सन्ति | परन्तु उपरितन-नियमत्रयं सार्वत्रिकम्‌ | नाम कित्‌ ङित्‌-प्रत्यये परे, एषां त्रयाणां कार्यं भवत्येव | एषु त्रिषु नियमेषु—गुण-निषेधः, न्‌-लोपः, सम्प्रसारणम्‌ इत्येषु—प्रत्ययस्य हलादि-अजादि-भेदात्‌ न कोऽपि प्रभावः |



किन्तु अन्यत्र हलादि-अजादि-भेदेन कार्ये भेदः | यद्यपि कार्ये कित्‌-ङित्‌ इति प्रसङ्गः अस्ति, परन्तु सूत्रेषु "हलादि परे”, "अजादि परे" इति कुत्रचित्‌ उक्तम्‌ | यथा प्रत्ययः हलादिः कित्‌-ङित्‌ चेत्‌, हलि च (..७७) इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति | दिवादिगणे श्यन्‌ हलादिः अतः इदं कार्यं भवति (जॄ + य → जिर् + य → जीर् + य → जीर्यति); तुदादौ श अजादिः अतः न भवति | अन्यत्र प्रत्ययः अजादिः कित्‌-ङित्‌ चेदेव भवति | यथा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) इति सूत्रेण अचि (किति ङिति) परे, इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ्‌ उवङ्‌ आदेशः भवति | रि + + ति → र् + इय्‌ + + ति → रियति | दिवादौ श्यन्‌ हलादिः अतः इदं कार्यं न सम्भवति |



अन्यानि कित्‌-ङित्‌-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |



अधुना तुदादिदिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम्‌ | तुदादिगणः प्रथमधातुगणसमूहे, नाम अस्मिन्‌ गणे अङ्गं सर्वत्र अदन्तम्‌ | -प्रत्ययस्य शकारस्य इत्‌-संज्ञा लशक्वतद्धिते (..) इति सूत्रेण, तस्य लोपः (..) इत्यनेन तस्य र्लोपः; '' इत्यवश्यिष्यते | तुदादिगणीयः धातुः यः कोऽपि भवतु नाम, अङ्गस्य अन्ते "" इति विकरण-सम्बद्ध-अकारः भवति एव | यथा लिख्‌ + अ → लिख |



पूर्वमेव अस्माभिः सार्वधातुकलकारेषु (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) तिङ्‌-प्रत्ययाः साधिताः | पूर्वतनेपाठे अदन्ताङ्ग-तिङ्‌प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्‌ | अधुना तुदादिगणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम्‌ इति ज्ञेयम्‌ | एकवारम्‌ अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम्‌ अदन्तम्‌ अङ्गम्‌ अपेक्षते; हस्ते अङ्गम्‌ अस्ति चेत्‌, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता |



तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्‌; अङ्गं ज्ञायते चेत्‌, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |



एकवारं तुदादिगणे, चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम | तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्ताङ्गस्य ज्ञानेन, सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते | अत्र दृष्टान्ते परस्मैपदे चल्‌-धातुः, अङ्गम्‌ अस्ति चल्‌ + श → चल |



          लटि सिद्ध-प्रत्ययाः—                            लट्‌-लकारे तिङन्तरूपाणि—

        ति        तः     अन्ति                        चलति         चलतः         चलन्ति

        सि        थः                                चलसि         चलथः          चल

        मि        वः        मः                         चलामि        चलावः         चलामः



        लोटि सिद्ध-प्रत्ययाः—                             लोट्‌-लकारे तिङन्तरूपाणि—

     तु, तात्‌     ताम्‌     अन्तु                       चलतु / चलता‌त्‌      चलताम्‌     चलन्तु

    , तात्‌     तम्‌       त                          चल/चलतात्‌         चलतम्‌       चल

      आनि      आव     आम                          चलानि                चलाव        चलाम



        लङि सिद्ध-प्रत्ययाः—                             लङ्-लकारे तिङन्तरूपाणि—

      त्‌        ताम्‌      अन्‌                            चलत्‌             चलताम्‌     चलन्‌

      स्‌        तम्‌                                    चलः             चलतम्‌     चल

     अम्‌                                            अचलम्‌              अचलाव         अचलाम



        विधिलिङि सिद्ध-प्रत्ययाः—                      विधिलिङ्-लकारे तिङन्तरूपाणि—

     इत्‌      इताम्‌      इयुः                             चलेत्‌              चलेताम्‌         चलेयुः

     इः       इतम्‌       इत                              चलेः               चलेतम्‌         चले

    इयम्‌      इव        इम                              चलेयम्‌              चलेव           चलेम



तुदादिगणे, आत्मनेपदे मृङ्‌‍-धातुः प्राणत्यागे, अङ्गम्‌ अस्ति मृ + श → म्रिय



      लटि‌ सिद्ध-प्रत्ययाः—                                 लट्‌-लकारे तिङन्तरूपाणि—

    ते       इते         अन्ते                             म्रियते             म्रियेते         म्रियन्ते

    से       इथे         ध्वे                               म्रियसे             म्रियेथे         म्रियध्वे

          वहे         महे                                म्रिये              म्रियावहे        म्रियामहे



     लोटि‌ सिद्ध-प्रत्ययाः—                                 लोट्‌-लकारे तिङन्तरूपाणि—

    ताम्‌     इताम्‌     अन्ताम्‌                           म्रियताम्‌         म्रियेताम्‌         म्रियन्ताम्‌

    स्व      इथाम्‌      ध्वम्‌                             म्रियस्व          म्रियेथाम्‌          म्रियध्वम्‌

           आवहै     आमहै                              म्रियै            म्रियावहै          म्रियामहै



     लङि‌ सिद्ध-प्रत्ययाः—                                लङ्-लकारे तिङन्तरूपाणि—

         इताम्‌     अन्त                               म्रिय      अम्रियेताम्‌           म्रियन्त

    थाः    इथाम्‌     ध्वम्‌                               म्रियथाः     म्रियेथाम्‌         म्रियध्वम्‌

         वहि        महि                                अम्रिये         अम्रियावहि          अम्रियामहि



     विधिलिङि‌ सिद्ध-प्रत्ययाः—                         विधिलिङ्-लकारे तिङन्तरूपाणि—

    ईत    ईयाताम्‌     ईरन्‌                               म्रिये       म्रियेयाताम्‌             म्रियेरन्‌

    ईथाः  ईयाथाम्‌     ईध्वम्‌                             म्रियेथाः      म्रियेयाथाम्‌             म्रियेध्वम्‌

     ईय    ईवहि       ईमहि                              म्रियेय         म्रियेवहि                म्रियेमहि



अग्रे केवलम्‌ अङ्गं च लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |



धातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम्‌ | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | अजन्तधातवः— अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः— अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति | तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति, तानि सूच्यन्ते; तदा विशेषधातूनां कार्याणि सूच्यन्ते |



तुदादिगणः (157 धातवः)



A. सामान्यधातवः (114 धातवः)



एषां धातूनां कृते अङ्गनिर्माण-समये किमपि कार्यं नास्ति | केवलं वर्णमेलनम्‌ | तुदादिगणे अजन्तधातूनां सर्वेषां विशिष्टम्‌ अङ्गकार्यं भवति, अतः एषु धातुषु न कोऽपि सामान्यः | हलन्तधातुषु लघु-इगुपधधातुः चेत्‌ पुगन्तलघूपधस्य च (..८६) इत्यनेन गुणः, तदा सार्वधातुकमपित्‌ (..), क्क्ङिति च (..) इत्याभ्यां गुणनिषेधः | तदा शेषधातूनां किमपि कार्यं तु न भवति एव |



अदुपधधातवः (4 धातवः)



चल विलसने (गच्छति, गतिमान्‌ भवति) → चल्‌ + श → चल्‌ + अ → चल इति अङ्गम्‌ → चल + ति → चलति



त्वच संवरणे (आच्छादनं करोति) → त्वच्‌ + श → त्व इति अङ्गम्‌ → त्व + ति → त्वचति

ओलजी वीडायाम्‌ (लज्जितः भवति) → लज्‌ + श → लज इति अङ्गम्‌ → लज + ति → लजति

कड मदे (अहङ्ग्कारयुक्तः भवति) → कड्‌ + श → कड इति अङ्गम्‌ → कड + ति → कडति



अत्र कश्चन प्रश्नः उदेति— भ्वादिगणः इति सामान्यं, तुदादिगणः इति विशेषः | नाम यत्र '' इति विकरणम्‌ अपि च धातोः व्यवहारः सामान्यः, तत्र स च धातुः पाणिनिना भ्वादिगणे स्थापितः | यदि '' इति विकरणं परन्तु धातोः व्यवहारः सामान्यो न (यथा लिख्‌-धातुः, यस्य उपधा-गुणो न भवति → लिखति), तदानीमेव पाणिनिना सः धातुः तुदादिगणे स्थाप्यते | नो चेत्‌ भ्वादिगणः इति ''-विकरणान्ताङ्गानां सर्वेषां धातूनां पात्रम्‌ | प्रश्नः अयम्अदुपधधातूनां किमपि विशिष्टं कार्यं तु न भवति खलु; तर्हि कुतः तुदादिगणे इमे धातवः स्थापिताः ? अस्य उत्तरम्‌ अग्रे अस्मिन्‌ पाठे प्राप्स्यते |




इदुपधधातवः (23 धातवः)



एषां लघूपध-इकारस्य गुणो न भवति अतः तुदादिगणे पाणिनिना इमे धातवः स्थापिताः |



लिख अक्षरविन्यासे → लिख्‌ + श → लिख्‌ + अ → लिख इति अङ्गम्‌ → लिख + ति → लिखति



ओविजी भयचलनयोः (आपद्ग्रस्तं करोति नाम भाययति, आपद्ग्रस्तः भवति नाम भयं अनुभवति) → विज्‌ → विज इति अङ्गम्‌ → उद्विजते

विध विधाने (क्रमेण आयोजयति) → विध्‌ → विधति

क्षिप प्रेरणे (प्रेषयति) → क्षिप्‌ → क्षिपति/ते | अभिप्रत्यतिभ्यः क्षिपः (..८०) इत्यनेन अभि, प्रति, अति इति उपसर्गाः पूर्वं चेत्‌, परस्मैपदी एव अयं धातुः | अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति |

डिप क्षेपे (प्रेषयति) → डिप्‌ → डिपति

रिफ कत्थनयुद्ध-निन्दाहिंसादानेषु (युध्यते इत्यादिकम्‌) → रिफ्‌ → रिफति

किल श्वैत्यक्रीडनयोः (श्वेतः भवति, क्रीडति) → किल्‌ → किलति

तिल स्नेहने (स्नेहः भवति [greasy, oily]; तैलम्‌ आदधाति/आचरति) → तिल्‌ → तिलति

चिल वसने (वस्त्रं शरीरे स्थापयति) → चिल्‌ → चिलति

इल स्वप्न-क्षेपणयोः (निद्रां करोति, प्रेषयति) → इल्‌ → इलति

विल संवरणे (छिद्रं करोति, भग्नं करोति, आच्छादयति) → विल्‌ → विलति

बिल भेदने (छेदयति, भागे-भागे विभागं करोति) → बिल्‌ → बिलति

णिल गहने (कठिनतया बोधति) → निल्‌ → निलति

हिल भावकरणे → हिल्‌ → हिलति

मिल सङ्गमे → मिल्‌ → मिलति

शिल उञ्छे → शिल्‌ → शिलति

षिल उञ्छे → सिल्‌ → सिलति

दिश अतिसर्जने → दिश्‌ → दिशति/ते

रिश हिंसायाम्‌ → रिश्‌ → रिशति

लिश गतौ → लिश्‌ → लिशति

विश प्रवेशने → विश्‌ → विशति | नेर्विशः (..१७) इत्यनेन नि-उपसर्गपूर्वकः विश्‌-धातुः आत्मनेपदी → निविशते | विशति he enters; निविशते he enters in | अत्र उक्तं यत्‌ 'नि' उपसर्गः भवेत्‌; नो चेत्‌ परस्मैपदे एव— मधुनि विशन्ति भ्रमराः | अत्र 'नि' इति सप्तमीविभक्त्यात्मकं, न तु उपसर्गः |



उदुपधधातवः (55 धातवः)



तुद व्यथने (पीडनं करोति, दुःखं प्रापयति) → तुद्‌ + श → तुद इति अङ्गम्‌ → तुद + ति → तुदति



कुच → कुच्‌, गुज → गुज्‌, रुजो → रुज्‌, भुज → भुज्‌, कुट → कुट्‌, पुट → पुट्‌, स्फुट → स्फुट्‌, मुट → मुट्‌, तुट → तुट्‌, चुट → चुट्‌, छुट → छुट्‌, जुट → जुट्‌ इत्यादयः पञ्च-पञ्चाशत्‌ धातवः | (एते धातवः लोके अप्रसिद्धाः |)



ऋदुपधधातवः (21 धातवः)



सृज विसर्गे (सृष्टिं करोति, रचयति) → सृज्‌ + श → सृज्‌ + अ → सृज इति अङ्गम्‌ → सृज + ति → सृजति

स्पृश संस्पर्शने (स्पर्शं करोति) → स्पृश्‌ + श → स्पृश्‌ + अ → स्पृश इति अङ्गम्‌ → स्पृश + ति → स्पृशति

कृष विलेखने (कृषिकार्यं करोति) → कृष् + श → कृष् + अ → कृष इति अङ्गम्‌ → कृष + ति → कृषति



ऋच → ऋच्‌, कृड → कृड्‌, मृड → मृड्‌, पृड → पृड्‌, पृण → पृण्‌, वृण → वृण्‌, मृण → मृण्‌, चृती → चृत्‌ इत्यादयः एकविंशतिः धातवः |



शेषधातवः (10 धातवः)


चर्च परिभाषण-भर्त्सनयोः (चर्चां करोति, विचार-विमर्शं करोति) → चर्च्‌ + श → चर्च्‌ + अ → चर्च इति अङ्गम्‌ → चर्च + ति → चर्चति



उच्छी → उच्छ्‌, ऋच्छ → ऋच्छ्‌, मिच्छ → मिच्छ्‌, उछि → उञ्छ्‌, उब्ज → उब्ज्‌, जर्ज → जर्ज्‌, झर्झ → झर्झ्‌, उज्झ → उज्झ्‌, घूर्ण → घूर्ण्‌


शेषधातुषु किमपि विशिष्टं गणनिमित्तकं कार्यं न दृष्यते | भ्वादिगणः सामान्यं, तुदादिगणः विशेषः इति उक्तं पूर्वं; तर्हि किमर्थम्‌ एते शेषधातवः तुदादिगणे सन्ति न तु भ्वादिगणे ? उत्तरम्‌ अस्ति यत्‌ अत्रापि विशिष्टं गणनिमित्तकं कार्यम्‌ अस्ति | आच्छीनद्योर्नुम्‌ (..८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्‌-आगमः वैकल्पिकः अस्ति | यथा बालिका चर्चन्ती गच्छति/बालिका चर्चती गच्छति | यावन्तः धातवः तुदादिगणे सन्ति, तेषां सर्वेषां शतरि स्त्रियां नुम्‌-विकल्पो भवति | अदुपधधातवः चल्‌ इत्यादयः अपि अनेन एव कारणेन तुदादिगणे सन्ति | एषां धातूनाम्‌ अङ्गम्‌ अदन्तम्‌, अतः भ्वादिगणे यदि अभविष्यन्‌ तर्हि स्त्रियां शत्रन्तं रूपं चर्चन्ती इत्येव अभविष्यत्‌, न तु चर्चती | इदं वैशिष्ट्यं सर्वेषां तुदादिगणीयधातूनां कृते प्रवर्तते | 




B. विशेषधातवः (44 धातवः)



1. इगन्तधातवः (16 धातवः)



इगन्तधातवः = इक्‌-प्रत्याहारे कश्चन सदस्यः अन्ते येषां ते | इक्‌-प्रत्याहारः नाम इ, , , | अतः अस्मिन्‌ इकारान्तधातवः, उकारान्तधातवः, ऋकारान्तधातवः च अन्तर्भूताः |



एतावता अस्माभिः दृष्टं यत्‌ इगन्तधातवः नियमानुसारं प्रवर्तन्ते | भ्वादिगणे दिवादिगणे च गणनियमम्‌ अनुसृत्य यथा विकरणप्रत्ययस्य स्वभावः, तथा एव इगन्तधातूनाम्‌ अङ्गकार्यम्‌ | भ्वादिगणे शप्‌ पित्‌ अतः सर्वत्र इगन्तधातौ गुणः— नी → ने, भू → भो, कृ → कर् इति | दिवादिगणे श्यन्‌ अपित्‌ अतः सर्वत्र इगन्तधातुः यथावत्‌ तिष्ठति— प्री → प्रीय → प्रीयते, सू → सूय → सूयते इति | अतः भ्वादिगणे दिवादिगणे च इगन्तधातवः सामान्याः इति उच्यते | परन्तु तुदादिगणे इगन्तधातवः विशेषधातवः सन्ति | किमर्थमिति अत्र दृश्यताम्‌ |



श इति विकरणप्रत्ययः | अयं श-प्रत्ययः सार्वधातुकम् (तिङ्‌-शित्सार्वधातुकम्), अपित्‌ (पकारः इत्‌ यस्य न), ङिद्वत् (क्ङिति च)‌, अजादिः (अच्‌ आदौ यस्य सः) | अतः सङ्क्षेपे अजादिः अपित्‌ इति वदेम |



एतावता वयं दृष्टवन्तः यत्‌ व्याकरणशास्त्रे इ, , ऋ इत्येषां कार्यद्वयं सम्भवति—

. गुणादेशः | नाम इ → ए, उ → ओ, ऋ → अर् |

. यण्‌ आदेशः (इको यणचि) | नाम इ → य्‌, उ → व्‌, ऋ → र् |



अधुना इतोऽपि द्वे कार्ये सम्भवतः इति बोध्यम्‌—

. इयङ्‌, उवङ्‌ आदेशौ | इ → इय्‌, उ → उव्‌ |

. रिङ्‌ इत्यादेशः | ऋ → रि |

कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्येम |



a. इकारान्तधातवः (4 धातवः)



श इति विकरणप्रत्ययः अजादिः अपित्‌ इति कारणतः एकं सूत्रम्‌ अत्र कार्यं करोति— अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) | अनेन इकारान्तधातूनाम्‌ इयङ्‌ आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यम्‌ अवलोकयेम | तुदादिगणीयः रि गतौ इति धातुः |



. अयं रि-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि किं रूपम्‌ अभविष्यत्‌ इति चिन्तयेम | रि + लट्‌ → रि + ति → रि + शप्‌ + ति → रि + + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → रे‌ + + ति → एचोऽयवायावः इत्यनेन अयादेशः → रय्‌ + + ति = रयति | इदं केवलं चिन्तनार्थम्; अयं रि-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |



. तुदादिगणे सामान्यचिन्तनम्‌ अकरिष्याम, तर्हि रि-धातोः लटि किं रूपम्‌ अभविष्यत्‌ इति चिन्तयेम | रि + लट्‌ → रि + ति → रि + श‌ + ति → रि + + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः → सार्वधातुकम्‌ अपित्‌ इत्यनेन श ङिद्वत्‌, क्ङिति च इत्यनेन गुणनिषेधः → रि + + ति → इको यणचि इत्यनेन यण्‌-सन्धेः प्राप्तिः → र्यति | इदं केवलं चिन्तनार्थम्‌; अयं रि-धातुः तुदादिगणे सामान्यधातुः नास्ति अतः इदं रूपं न सम्भवति |



. वस्तुस्थितिः का इति अग्रे पश्येम | रि + लट्‌ → रि + ति → रि + श‌ + ति → रि + + ति → सार्वधातुकार्धधातुकयोः (..८४) इत्यनेन गुणप्राप्तिः → सार्वधातुकम्‌ अपित्‌ इत्यनेन श ङिद्वत्‌, क्ङिति च इत्यनेन गुणनिषेधः → रि + + ति → इको यणचि (६.१.७७) इत्यनेन यण्‌-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित्‌ अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) इत्यनेन यण्‌-सन्धिं प्रबाध्य इयङ्‌ आदेशः भवति |




अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (..७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि |



मनसि भवेत्‌ यत्‌ अस्मिन्‌ सूत्रे "किति ङिति" इति न उक्तं, परन्तु प्रत्ययः कित्‌-ङित्‌ नास्ति चेत्‌ इगन्तानां धातूनाम्‌ इकः गुणः अतः तत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) इत्यस्य प्राप्तिः नास्ति | तत्रापि प्रसक्तिः आसीत्‌, परन्तु सार्वधातुकार्धधातुकयोः (..८४) इत्यस्य परसूत्रत्वात्‌ बलवत्‌ |



अनेकाल्शित्‌ सर्वस्य (..५५) इति सूत्रं वक्ति यत्‌ आदेशः अनेकाल्‌ अस्ति चेत्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः), तर्हि सर्वस्य, नाम सर्वाङ्गस्य स्थाने आदेशः आयाति | इयङ्‌ इत्यस्मिन्‌ आदेशे अकार-ङकारयोः इत्‌-संज्ञा भवतः अतः इय्‌ इति अवशिष्यते | इय्‌ इत्यस्मिन्‌ एक एव वर्णः न अपि तु तस्मात्‌ अधिकाः वर्णाः (“इ”, “य्‌” इति), अतः अनेकाल्‌ अस्ति | इदं सूत्रम्‌ अलोऽन्त्यस्य (..५२) इत्यस्य अपवादः | तर्हि अत्र पूर्णस्य "रि" इत्यस्य स्थाने इयङ्‌ भवतु इति इदं सूत्रं विदधाति | परन्तु ङिच्च (..५३), अनेकाल्शित्‌ सर्वस्य इत्यस्य अपवादभूतसूत्रम्‌ | ङिच्च इति सूत्रेण आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | अतः रि-धातौ इकारस्थाने इय्‌-आदेशः |



अनेकाल्शित्‌ सर्वस्य (..५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम्‌ अलोऽन्त्यस्य (..५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल्‌ यस्य सः अनेकाल्‌ बहुब्रीहिः; शकारः इत्‌ यस्य सः शित्‌ बहुब्रीहिः; अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌ समाहारद्वन्द्वः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (..५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाल्शित्‌ सर्वस्य स्थाने |



ङिच्च (..५३) = ङित्‌-आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम्‌ अनेकाल्शित्‌ सर्वस्य (..५५) इति सूत्रस्य अपवादः; अनेकाल्शित्‌ सर्वस्य ' (..५५) तु अलोऽन्त्यस्य (..५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अलोऽन्त्यस्य (..५२) इत्यस्मात्‌ अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (..५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ङित्‌ च न्त्यस्य अलः स्थाने |



रि गतौ → रि + श → रि + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) इत्यनेन अचि परे इयङ्‌-आदेशः → र् + इय्‌ + अ → रिय इति अङ्गम्‌ → रिय + ति → रियति



तुदादिगणे चत्वारः इकारान्तधातवः रि गतौ, पि गतौ, धि गतौ, क्षि गतौ | सर्वेषाम्‌ अर्थः 'गच्छति', अपि च सर्वेषां कार्यं रि यथावत्‌ अतः रियति, पियति, धियति, क्षियति |



b. उकारान्त/ऊकारान्तधातवः (6 धातवः)



श इति विकरणप्रत्ययः अजादिः अपित्‌ इति उक्तं; तस्मात्‌ कारणात्‌ अत्र पुनः इदं सूत्रम्‌ प्रवर्तते— अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) | अनेन उकारान्तधातूनाम्‌ उवङ्‌ आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यम्‌ अवलोकयेम | तुदादिगणीयः गु पुरीषोत्सर्गे इति धातुः |



. अयं गु-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि किं रूपम्‌ अभविष्यत्‌ इति चिन्तयेम | गु + लट्‌ → गु + ति → गु + शप्‌ + ति → गु + + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → गो + + ति → एचोऽयवायावः इत्यनेन अवादेशः → गव्‌ + + ति गवति | इदं केवलं चिन्तनार्थम्‌; अयं गु-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |



. यदि तुदादिगणे सामान्यचिन्तनम्‌ अकरिष्याम, तर्हि लटि किं रूपम्‌ अभविष्यत्‌ इति चिन्तयेम | गु + लट्‌ → गु + ति → गु + श‌ + ति → गु + + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः → सार्वधातुकम्‌ अपित्‌ इत्यनेन श ङिद्वत्‌, क्ङिति च इत्यनेन गुणनिषेधः → गु + + ति → इको यणचि इत्यनेन यण्‌-सन्धेः प्राप्तिः → ग्वति | इदं केवलं चिन्तनार्थम्‌; अयं गु-धातुः तुदादिगणे सामान्यधातुः नास्ति अतः इदं रूपं न सम्भवति |



. वस्तुस्थितिः का इति अग्रे पश्येम | गु + लट्‌ → गु + ति → गु + श‌ + ति → गु + + ति → सार्वधातुकार्धधातुकयोः (..८४) इत्यनेन गुणप्राप्तिः → सार्वधातुकम्‌ अपित्‌ इत्यनेन श ङिद्वत्‌, क्ङिति च इत्यनेन गुणनिषेधः → गु + + ति → इको यणचि (६.१.७७) इत्यनेन यण्‌-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित्‌ अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) इत्यनेन यण्‌-सन्धिं प्रबाध्य उवङ्‌-आदेशः भवति |



अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य अर्थः उपरि दत्तः | अत्र गु-धातुः उकारान्तः अतः उकारस्य स्थाने उवङ्‌-आदेशः न तु इयङ्‌, इत्येव भेदः— यतोहि सूत्रेण उक्तं यत्‌ इकारान्तधातोः स्थाने इयङ्‌, उकारान्तधातोः स्थाने उवङ्‌ | तदा उवङ्‌ आदेशः कस्य स्थाने इति चेत्‌, पुनः अनेकाल्‌ शित्सर्वस्य इत्यस्य अपवादे ङिच्च सूचयति यत्‌ ङित्त्वात्‌ अन्त्यस्य एव आदेशः | अतः यण्‌ प्रबाध्य उवङ्‍-आदेशः भवति अन्त्यस्य उकारस्य स्थाने |



गु पुरीषोत्सर्गे → गु + श → गु + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) इत्यनेन अचि परे उवङ्‌-आदेशः → ग्‌ + उव्‌ + अ → गुव इति अङ्गम्‌ → गुव + ति → गुवति



तुदादिगणे षट्‌ उकारान्तधातवः गु, ध्रु, कुङ्‌, णू, धू, षू | एषां सर्वेषां कार्यं गु-धातोः यथावत्‌ अतः गुवति, ध्रुवति, कुवते (ङित्‌ अतः आत्मनेपदिधातुः), नुवति, धुवति, सुवति |



गु पुरीषोत्सर्गे → गुवति

ध्रु गतिस्थैर्ययोः (गच्छति, स्थिरः भवति) → ध्रुव इति अङ्गम्‌ → ध्रुव + ति → ध्रुवति

कुङ्‌ शब्दे (ध्वनिं करोति) → कुव इति अङ्गम्‌ → कुव + ते → कुवते

णू स्तवने (स्तुतिं करोति, प्रशंसां करोति) → णो नः (..६५) → नू + श → नुव इति अङ्गम्‌ → नुव + ति → नुवति

धू विधूनने (बाधति, कम्पनं कारयति) → धुव इति अङ्गम्‌ → धुव + ति → धुवति

षू प्रेरणे (प्रेरयति) → धात्वादेः षः सः (..६४) → सू + श → सुव इति अङ्गम्‌ → सुव + ति → सुवति



c. ऋकारान्तधातवः



तुदादिगणे चत्वारः ऋकारान्तधातवः सन्ति— मृङ्‌, पृङ्‌, दृङ्‌, धृङ्‌ च | इमे सर्वे ङितः अतः अनुदात्तङित‌ आत्मनेपदम्‌ (..१२) इत्यनेन आत्मनेपदिनः |



तुदादिगणे शपं प्रबाध्य श-विकरणप्रत्ययः आयाति इति ज्ञातम्‌ | तस्मात्‌ कारणात्‌ अत्र रिङ्शयग्लिङ्क्षु (..२८) इति सूत्रं कार्यं करोति | अनेन ऋकारान्तधातूनां रिङ्‌-आदेशः भवति, -प्रत्यये परे | क्रमेण इदं कार्यम्‌ अवलोकयेम | तुदादिगणीयः मृङ्‌ प्राणत्यागे इति धातुः |



. अयं मृङ्‌-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि किं रूपम्‌ अभविष्यत्‌ इति चिन्तयेम | ङकारस्य इत्‌-संज्ञा अतः मृ अवशिष्यते; ङित्‌ अतः अनुदात्तङित‌ आत्मनेपदम्‌ (..१२) इत्यनेन आत्मनेपदिधातुः |



मृ + शप्‌ → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → मर् + अ → मर इति अङ्गम्‌ → मर + ते = मरते | इदं केवलं चिन्तनार्थम्; अयं मृङ्‌-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |



. यदि तुदादिगणे सामान्यचिन्तनम्‌ अकरिष्याम, तर्हि लटि किं रूपम्‌ अभविष्यत्‌ इति चिन्तयेम |



मृ + श → मृ + अ → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः → सार्वधातुकम्‌ अपित्‌ इत्यनेन श ङिद्वत्‌, क्ङिति च इत्यनेन गुणनिषेधः → इको यणचि इत्यनेन यण्‌-सन्धेः प्राप्तिः → म्र इति अङम्‌ → म्र + ते → म्रते | इदं केवलं चिन्तनार्थम्‌; वास्तवे इको यणचि बाधितम्‌ अस्ति अतः इदं रूपं न सम्भवति |


. वस्तुस्थितिः का इति अग्रे पश्येम |



मृङ्‌ प्राणत्यागे → मृ + श → मृ + अ → इको यणचि'(..७७) ' इत्यस्य प्राप्तिः, तत्‌ प्रबाध्य सार्वधातुकार्धधातुकयोः (..८४) इत्यनेन गुण-प्राप्तिः, सार्वधातुकमपित्‌ (..) इत्यनेन अपित्त्वात्‌ ङिद्वत्‌, क्क्ङिति च (..) इत्यनेन ङित्त्वात्‌ गुणनिषेधः → रिङ् शयग्लिङ्‌क्षु (..२८) इत्यनेन श-प्रत्यये परे ऋकारान्तस्य अङ्गस्य रिङ्‌-आदेशः (मृ-धातोः पूर्णतया स्थाने रि); ङिच्च (..५३) इत्यनेन आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः → म्‌ + रि + अ → म्रि + अ → इको यणचि इत्यनेन यण्‌-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित्‌ अतः यण्‌-सन्धिं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (..७७) इत्यनेन इयङ्‌ आदेशः → इयङ्‌ आदेशः ङित्‌ अतः ङिच्च इत्यनेन अन्त्यस्य एव आदेशः, इकारस्य स्थाने इय्‌-आदेशः → म्र् + इय्‌ + अ → म्रिय्‌ + अ → म्रिय इति अङ्गम्‌ → म्रिय + ते → म्रियते



अत्र एकः प्रश्नः उदेतियदा रिङ्‌-आदेशः विहितः, तदा म्रि इति रूपम्‌ | अस्यां स्थित्यां धातुसंज्ञा नास्ति किल, तर्हि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः कथम्‌ ?



आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति; स्वस्य धातुसंज्ञा तिष्ठति | मृ → म्रि इत्यस्य विकारेण म्रि तदानीं धातुः; तस्य धातुसंज्ञा तदानीम्‌ अस्ति | यतः रि इति आदेशः | अनन्तरम्‌ इयङ्‌ इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते | म्रि → म्रिय्‌ अयमपि धातुः | परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः, तदा धातुसंज्ञा न तिष्ठति | म्रिय्‌ + अ → म्रिय | श इति विकरणप्रत्ययः; तस्य पृथक्‌ प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिय इति अधुना धातुः नास्ति | अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते |



तुदादिगणे चत्वारः ऋकारान्तधातवः—

मृङ्‌ प्राणत्यागे → म्रियते

पृङ्‌ व्यायामे (कार्ये निमग्नः भवति) → प्रियते

दृङ्‌ आदरे (आदरं प्रकटयति) → द्रियते

धृङ्‌ अवस्थाने (स्थितः भवति, जीवितः भवति) → ध्रियते



रिङ् शयग्लिङ्‌क्षु (..२८) = ऋकारान्तस्य अङ्गस्य रिङ्‌-आदेशो भवति श-प्रत्यये, यक्‌-प्रत्यये, यकारादि-आर्धधातुक-लिङ्‌-प्रत्यये च परे | शश्च यक्‌ च लिङ्‌ च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्‌क्षु | रिङ्‌ प्रथमान्तं, शयग्लिङ्‌क्षु सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अयङ्‌ यि क्ङिति (..२२) इत्यस्मात्‌ यि, अकृत्सार्वधातुकयोर्दीर्घः (..२५) इत्यस्मात्‌ असार्वधातुके, रीङ्‌ ऋतः (..२७) इत्यस्मात्‌ ऋतः इत्येषाम्‌ अनुवृत्तिः | अङ्गस्य (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋतः अङ्गस्य रिङ्‌ यि असार्वधातुके शयग्लिङ्‌क्षु |



यस्मिन्‌ विधिः तदादावल्ग्रहणे इति परिभाषया यि नाम यकारादौ (यस्य आदौ यकारः, तस्मिन्‌ परे) | यि असार्वधातुके च लिङः विशेषणम्‌ | येन विधिस्तदन्तस्य (..७२) इत्यनेन ऋतः अङ्गस्य नाम न केवलम्‌ ऋकारस्य इत्यङ्गस्य, अपि तु ऋकारान्तस्य अङ्गस्य | रिङ् ङित्‌, अतः अलोऽन्त्यस्य (..५२) इत्यस्य बाधकसूत्रम्‌ अनेकाल्‌ शित्सर्वस्य (..५५), तत्‌ प्रबाध्य ङिच्च (..५३) इति सूत्रेण आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः|



येन विधिस्तदन्तस्य (..७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्‌, विधिः प्रथमान्तम्‌, तदन्तस्य षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (..६८) इत्यस्मात्‌ स्वम्‌, रूपम्‌ इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्‌— येन विधिः तदन्तस्य स्वस्य रूपस्य ()| परिभाषासूत्रम्‌ |



ङिच्च (..५३) = ङित्‌-आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम्‌ अनेकाल्शित्‌ सर्वस्य (..५५) इति सूत्रस्य अपवादः; अनेकाल्शित्‌ सर्वस्य (..५५) तु अलोऽन्त्यस्य (..५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अलोऽन्त्यस्य (..५२) इत्यस्मात्‌ अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (..५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ङित्‌ च न्त्यस्य अलः स्थाने |



*हलि च इति सूत्रे यथा, तथैव अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रे अपिति परे, किति परे, ङिति परे वा नोक्तम्‌, न वा अनुवृत्तौ अस्ति | परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे | अतः पाणिनेः वदनस्य आवश्यकता नासीत्‌ | "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः" इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अत्र अस्माभिः अनुमानेन अवगतमेव |



d. दीर्घ-ॠकारान्तधातवः (द्वौ धातू स्तः)



तुदादिगणे कॄ विक्षेपे (क्षिपति, प्रसारयति), गॄ निगरणे इति द्वौ ॠकारान्तधातू स्तः |



अधुना अस्माभिः दृष्टं यत्‌ ह्रस्व-ऋकारान्तधातूनां रिङ्‌-आदेशः भवति, यथा मृङ्‌ → रिङ्‌ आदेशः → म्रि → इयङ्‌ आदेशः → म्रिय्‌ + -विकरणप्रत्ययः → म्रिय इति अङ्गम्‌ + ते → म्रियते



दीर्घॠकारान्तधातूनां क्रमः भिन्नः |



स्मर्यते यत्‌ दिवादिगणे दीर्घॠकारान्तधातुषु ॠकारस्य स्थाने इ-आदेशः जॄ → जि | तुदादिगणे अपि तथा; उभयत्र ॠत इद्धातोः (..१००) इत्यस्य प्रसक्तिः | परन्तु ततः अग्रे भिद्यते यतोहि दिवादिगणे श्यन्‌ हलादिः अपित्‌; किन्तु तुदादिगणे श अजादिः अपित्‌ | दिवादिगणे हलि च इत्यनेन उपधायाम्‌ इकः दीर्घत्वम्‌, परन्तु तुदादिगणे हलि च इत्यस्य प्रसक्तिः नास्ति अतः उपधायाम्‌ इक्‌ ह्रस्वः तिष्ठति | अग्रे क्रमः प्रदत्तः अस्ति— कॄ इति धातुः |



कॄ + श‌ → कॄ + अ → इको यणचि (..७७) इत्यनेन यण्‌-सन्धेः प्राप्तिः → तं प्रबाध्य सार्वधातुकार्धधातुकयोः (..८४) इत्यनेन गुणप्राप्तिः → सार्वधातुकम्‌ अपित्‌ (..) इत्यनेन श ङिद्वत्‌, क्ङिति च (..) इत्यनेन गुणनिषेधः → कॄ + अ → ॠत इद्धातोः (..१००) इत्यनेन दन्तस्य धातोः ह्रस्व-इकारादेशः → कि + अ → उरण्‌ रपरः (..५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः → किर् → किर् + अ → किर इति अङ्गम्‌ → किर + ति → किरति



ॠत इद्‌ धातोः (..१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्‌-ङित्‌ भिन्नप्रत्ययः परे चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (..५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः तः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (..) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (..७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ |



अलोऽन्त्यस्य (..५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्‌, अन्त्यस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | षष्ठी स्थानेयोगा (..४९) इत्यस्मात्‌ षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) | परिभाषासूत्रम्‌ |



येन विधिस्तदन्तस्य (..७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्‌, विधिः प्रथमान्तम्‌, तदन्तस्य षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (..६८) इत्यस्मात्‌ स्वम्‌, रूपम्‌ इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्‌— येन विधिः तदन्तस्य स्वस्य रूपस्य ()| परिभाषासूत्रम्‌ |



उरण्‌ रपरः (..५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (..५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उः स्थाने अण्‌ रपरः |



ऋकारस्य स्थाने यदा अण्-प्रत्याहारस्य कश्चन सदस्यः ('', ', '' वा) आयाति, तदा तस्मात्‌ रेफः आयाति | अतः अण्‌ "रपरः" भवति— 'अर्', 'इर्', 'उर्' वा इति | अत्र ॠकारस्य स्थाने इ आगतः, अतः रपरः भवति, इर् इति | कि → किर् |



गॄ धातुः अपि तथा | गॄ + अ → गि + अ → गिर् + अ→ गिर इति अङ्गम्‌ → गिर + ति → गिरति



दिवादिगणे क्रमः तथैव अस्ति, किन्तु अन्ते इकारः दीर्घः भवति—



जॄ → (ॠत इद्धातोः) जि → (उरण्‌ रपरः) जिर् → (हलि च) जीर् + (श्यन्‌ विकरणप्रत्ययः) य → जीर्य इति अङ्गम्‌ → जीर्य + ति → जीर्यति



हलि च (..७७) इत्यनेन हलि परे रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति | दिवादिगणे श्यन्‌ हलादिः अपित्‌ अस्ति; तुदादिगणे श अजादिः अपित्‌ अस्ति | अतः दिवादौ ॠकारान्तधातुषु हलि च इत्यस्य प्रसक्तिः; तुदादौ अस्यामेव दशायां हलि च कार्यं न करोति |



अत्र उरण्‌ रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम्‌ एकवारम्‌ अवलोकयाम |



/+ /=

/+ /=

/+ /= अर्



इति सामान्यनियमः अस्ति | परन्तु गुणसंज्ञा-विधायकसूत्रम्‌ अदेङ्ग गुणः (..) इत्यनेन अ, , ओ इत्येषाम्‌ एव वर्णानां गुणसंज्ञा भवति | तत्र "अर्" किमपि नास्ति | यत्र गुणसन्धिः अपेक्षितः, तत्र आद्गुणः (..८७) इत्यनेन अवर्णात्‌ अचि परे पूर्वपरयोः एकः गुणादेशः भवति | गुणादेशः नाम पूर्वपरयोः स्थाने '' वा, '' वा '' वा आगच्छेत्‌ | तत्र "अर्" तु नास्त्येव | तर्हि अ + ऋ → अर् कथम्‌ ? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति— अ + ऋ → ", , " इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः | अधुना स्थानेऽन्तरतमः इति सूत्रेण ध्वनि-दृष्ट्या तेषु त्रिषु, द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं "स्थान-तौल्यम्‌" अस्ति इति अवलोकनीयं भवति | अकारस्य कण्ठस्थानम्‌, ऋकारस्य मूर्धास्थानम्‌ | , , ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानं नास्ति | (= कण्ठस्थानम्‌, = कण्ठतालुस्थानम्‌, = कण्ठोष्ठस्थानम्‌ इति |) तेषु त्रिषु, -ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते | अतः अ-ऋ इत्यनयोः स्थाने "" इत्यस्य गुणादेशप्राप्तिः | अधुना ऋ-स्थाने यः अकारः आगतः, सः अण्‌-प्रत्याहारस्य सदस्यः, अतः उरण्‌ रपरः इत्यनेन रेफः परः भवति | तर्हि आहत्य अ/+ /ॠ → आद्गुणः इत्यनेन पूर्वपरयोः स्थाने '' → उरण्‌ रपरः → अर् | महा + ऋषिः → मह्‌ + अर् + षि → महर्षिः |



अवधेयं यत्‌ ॠत इद्धातोः इति सूत्रं किति ङिति प्रत्यये परे एव कार्यं करोति | अतः सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः अपित्‌ नास्ति, तत्र यद्यपि प्रसक्तिः तु अस्ति, किन्तु प्राप्तिः न भविष्यति | वृत्तान्ते भ्वादिगणे तॄ इति धातुः | यद्यपि ॠकारान्तधातुः अस्ति, तथापि ॠत इद्धातोः इत्यनेन ॠ-स्थाने इकारादेशः न भवति | भ्वादिगणे शप्‌ पित्‌ अस्ति अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति | तॄ + शप्‌ → तॄ + अ → तर् + अ → तर इति अङ्गम्‌ → तर + ति → तरति |



अतः गणम्‌ अनुसृत्य ॠकारान्तधातूनां कः भेदः इति पश्येम—

भ्वादिगणे तॄ → गुणः → तरति

दिवादिगणे जॄ → इ-आदेशः, हलि च दीर्घः → जीर्यति

तुदादिगणे कॄ → इ-आदेशः, अजादिः अपित्‌ अतः न दीर्घः → किरति



केचन जनाः वदन्ति यत्‌ भ्वादितुदादिगणयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन्‌ गणे इति | किन्तु यत्र गणसम्बद्धकार्यं वर्तते, तत्र अस्माकं न कोऽपि भ्रमः स्यात्‌ | भ्वादिगणे गुणकार्यं प्रवर्तते; तुदादिगणे न कुत्रापि गुणकार्यम्‌ | तुदादिगणे विकरणप्रत्ययः अजादिः अपित्‌ अतः सामान्यम्‌ अपित्‌-निमित्तं कार्यम्‌ अपि, विशिष्टम्‌ अजादि-अपित्‌-निमित्तं कार्यम्‌ अपि भवतः, ये भ्वादौ न सञ्जायेते | यथा दीर्घ-ॠकारः → इ-कारः प्रवर्तते केषुचिदपि अपित्सु प्रत्ययेषु, अतः दिवादौ अपि (जॄ → जीर्यति), तुदादौ अपि (कॄ → किरति) | इयङ्‌-आदेशः किन्तु अजादिषु अपित्सु एव प्रवर्तते (अचि श्नुधातुभ्रुवां य्वोरियङुवङौ) | रि + अ → रियति |



Swarup – May 2013 (updated July 2015)


८ - तुदादिगणः.pdf (107k) Swarup Bhai, Apr 11, 2019, 12:10 AM

Subpages (1): तदादि-तदन्त-ग्रहणाम्‌ - परिभाषा २३




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.