08 - तुदादिगणः
05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH
तुदादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श-विकरणप्रत्ययः विहितः अस्ति | वस्तुतः प्रथमं कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाध्य तुदादिभ्यः शः (३.१.७७) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप् इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः तुदादिभ्यः शः, कर्तरि शप् इत्यस्य अपवादभूतसूत्रम् | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र तुदादिभ्यः शः इति सूत्रस्य कार्यं सिध्यति |
तुदादिभ्यः शः (३.१.७७) = तुदादिगणे स्थितेभ्यः धातुभ्यः श-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तुद् आदिर्येषां ते, तुदादयः बहुव्रीहिसमासः, तेभ्यः तुदादिभ्यः | तुदादिभ्यः पञ्चम्यन्तम्, शः प्रथमान्तम्, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— तुदादिभ्यः धातुभ्यः श प्रत्ययः परश्च कर्तरि सार्वधातुके |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
अयं श-प्रत्ययः शित् इति कारणतः तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात् कारणात्, श-प्रत्ययः परश्चेत्, सार्वधातुकार्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम् | परन्तु श अपित्, अतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत् | ङिद्वत् अतः क्क्ङिति च (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
आहत्य तुदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे श-प्रत्ययः विहितः | श च ङिद्वत् | अस्य एकः परिणामः गुणनिषेधः | परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य ङिद्वत् इति भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |
किति ङिति विशिष्ट-कार्याणि
यः कोऽपि प्रत्ययः कित् ङित् भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | तुदादौ तुद् + श + ति → तुदति | क्क्ङिति च (१.१.५) |
२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां हलन्तधातूनाम् इत्-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | तृम्फ् + श + ति → न्-लोपः | अनिदितां हल उपधाया क्ङिति (६.४.२४) | परन्तु तुदादितणे विशिष्ट-वार्तिकेन एषां पुनः नुमागमः आनीयते | शे तृम्फादीनां नुम्वाच्यः | तृम्फ् + श + ति → न्-लोपः → तृफ् + अ + ति → नुम्-आगमः → तृम्फ् + अ + ति → तृम्फति |
३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च् + श + ति → वृश्चति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
धेयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित् (श्यन्, श), तथापि सर्वत्र तयोः कार्यं समानं नास्ति; भेदाः सन्ति यतोहि श्यन् → य हलादिः अपित् प्रत्ययः; श → अ अजादिः अपित् प्रत्ययः | हलादि-अजादि-भेदात् कार्ये भेदाः सन्ति | परन्तु उपरितन-नियमत्रयं सार्वत्रिकम् | नाम कित् ङित्-प्रत्यये परे, एषां त्रयाणां कार्यं भवत्येव | एषु त्रिषु नियमेषु—गुण-निषेधः, न्-लोपः, सम्प्रसारणम् इत्येषु—प्रत्ययस्य हलादि-अजादि-भेदात् न कोऽपि प्रभावः |
किन्तु अन्यत्र हलादि-अजादि-भेदेन कार्ये भेदः | यद्यपि कार्ये कित्-ङित् इति प्रसङ्गः अस्ति, परन्तु सूत्रेषु "हलादि परे”, "अजादि परे" इति कुत्रचित् उक्तम् | यथा प्रत्ययः हलादिः कित्-ङित् चेत्, हलि च (८.२.७७) इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | दिवादिगणे श्यन् हलादिः अतः इदं कार्यं भवति (जॄ + य → जिर् + य → जीर् + य → जीर्यति); तुदादौ श अजादिः अतः न भवति | अन्यत्र प्रत्ययः अजादिः कित्-ङित् चेदेव भवति | यथा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण अचि (किति ङिति) परे, इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ् उवङ् आदेशः भवति | रि + अ + ति → र् + इय् + अ + ति → रियति | दिवादौ श्यन् हलादिः अतः इदं कार्यं न सम्भवति |
अन्यानि कित्-ङित्-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |
अधुना तुदादिदिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम् | तुदादिगणः प्रथमधातुगणसमूहे, नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम् | श-प्रत्ययस्य शकारस्य इत्-संज्ञा लशक्वतद्धिते (१.३.८) इति सूत्रेण, तस्य लोपः (१.३.९) इत्यनेन तस्य र्लोपः; 'अ' इत्यवश्यिष्यते | तुदादिगणीयः धातुः यः कोऽपि भवतु नाम, अङ्गस्य अन्ते "अ" इति विकरण-सम्बद्ध-अकारः भवति एव | यथा लिख् + अ → लिख |
पूर्वमेव अस्माभिः सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) तिङ्-प्रत्ययाः साधिताः | पूर्वतनेपाठे अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम् | अधुना तुदादिगणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम् इति ज्ञेयम् | एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते; हस्ते अङ्गम् अस्ति चेत्, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता |
तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्; अङ्गं ज्ञायते चेत्, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |
एकवारं तुदादिगणे, चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम | तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्ताङ्गस्य ज्ञानेन, सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते | अत्र दृष्टान्ते परस्मैपदे चल्-धातुः, अङ्गम् अस्ति चल् + श → चल |
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ति तः अन्ति चलति चलतः चलन्ति
सि थः थ चलसि चलथः चलथ
मि वः मः चलामि चलावः चलामः
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
तु, तात् ताम् अन्तु चलतु / चलतात् चलताम् चलन्तु
०, तात् तम् त चल/चलतात् चलतम् चलत
आनि आव आम चलानि चलाव चलाम
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त् ताम् अन् अचलत् अचलताम् अचलन्
स् तम् त अचलः अचलतम् अचलत
अम् व म अचलम् अचलाव अचलाम
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
इत् इताम् इयुः चलेत् चलेताम् चलेयुः
इः इतम् इत चलेः चलेतम् चलेत
इयम् इव इम चलेयम् चलेव चलेम
तुदादिगणे, आत्मनेपदे मृङ्-धातुः प्राणत्यागे, अङ्गम् अस्ति मृ + श → म्रिय
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ते इते अन्ते म्रियते म्रियेते म्रियन्ते
से इथे ध्वे म्रियसे म्रियेथे म्रियध्वे
ए वहे महे म्रिये म्रियावहे म्रियामहे
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
ताम् इताम् अन्ताम् म्रियताम् म्रियेताम् म्रियन्ताम्
स्व इथाम् ध्वम् म्रियस्व म्रियेथाम् म्रियध्वम्
ऐ आवहै आमहै म्रियै म्रियावहै म्रियामहै
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त इताम् अन्त अम्रियत अम्रियेताम् अम्रियन्त
थाः इथाम् ध्वम् अम्रियथाः अम्रियेथाम् अम्रियध्वम्
इ वहि महि अम्रिये अम्रियावहि अम्रियामहि
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
ईत ईयाताम् ईरन् म्रियेत म्रियेयाताम् म्रियेरन्
ईथाः ईयाथाम् ईध्वम् म्रियेथाः म्रियेयाथाम् म्रियेध्वम्
ईय ईवहि ईमहि म्रियेय म्रियेवहि म्रियेमहि
अग्रे केवलम् अङ्गं च लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |
धातवः चतुर्दशविधाः इत्यस्माभिः पूर्वमेव ज्ञातम् | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | अजन्तधातवः— अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातवः— अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति | तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तुदादौ किमपि अङ्गकार्यं नास्ति, तानि सूच्यन्ते; तदा विशेषधातूनां कार्याणि सूच्यन्ते |
तुदादिगणः (157 धातवः)
A. सामान्यधातवः (114 धातवः)
एषां धातूनां कृते अङ्गनिर्माण-समये किमपि कार्यं नास्ति | केवलं वर्णमेलनम् | तुदादिगणे अजन्तधातूनां सर्वेषां विशिष्टम् अङ्गकार्यं भवति, अतः एषु धातुषु न कोऽपि सामान्यः | हलन्तधातुषु लघु-इगुपधधातुः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः, तदा सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः | तदा शेषधातूनां किमपि कार्यं तु न भवति एव |
अदुपधधातवः (4 धातवः)
चल विलसने (गच्छति, गतिमान् भवति) → चल् + श → चल् + अ → चल इति अङ्गम् → चल + ति → चलति
त्वच संवरणे (आच्छादनं करोति) → त्वच् + श → त्वच इति अङ्गम् → त्वच + ति → त्वचति
ओलजी व्रीडायाम् (लज्जितः भवति) → लज् + श → लज इति अङ्गम् → लज + ति → लजति
कड मदे (अहङ्ग्कारयुक्तः भवति) → कड् + श → कड इति अङ्गम् → कड + ति → कडति
अत्र कश्चन प्रश्नः उदेति— भ्वादिगणः इति सामान्यं, तुदादिगणः इति विशेषः | नाम यत्र 'अ' इति विकरणम् अपि च धातोः व्यवहारः सामान्यः, तत्र स च धातुः पाणिनिना भ्वादिगणे स्थापितः | यदि 'अ' इति विकरणं परन्तु धातोः व्यवहारः सामान्यो न (यथा लिख्-धातुः, यस्य उपधा-गुणो न भवति → लिखति), तदानीमेव पाणिनिना सः धातुः तुदादिगणे स्थाप्यते | नो चेत् भ्वादिगणः इति 'अ'-विकरणान्ताङ्गानां सर्वेषां धातूनां पात्रम् | प्रश्नः अयम्— अदुपधधातूनां किमपि विशिष्टं कार्यं तु न भवति खलु; तर्हि कुतः तुदादिगणे इमे धातवः स्थापिताः ? अस्य उत्तरम् अग्रे अस्मिन् पाठे प्राप्स्यते |
इदुपधधातवः (23 धातवः)
एषां लघूपध-इकारस्य गुणो न भवति अतः तुदादिगणे पाणिनिना इमे धातवः स्थापिताः |
लिख अक्षरविन्यासे → लिख् + श → लिख् + अ → लिख इति अङ्गम् → लिख + ति → लिखति
ओविजी भयचलनयोः (आपद्ग्रस्तं करोति नाम भाययति, आपद्ग्रस्तः भवति नाम भयं अनुभवति) → विज् → विज इति अङ्गम् → उद्विजते
विध विधाने (क्रमेण आयोजयति) → विध् → विधति
क्षिप प्रेरणे (प्रेषयति) → क्षिप् → क्षिपति/ते | अभिप्रत्यतिभ्यः क्षिपः (१.३.८०) इत्यनेन अभि, प्रति, अति इति उपसर्गाः पूर्वं चेत्, परस्मैपदी एव अयं धातुः | अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति |
डिप क्षेपे (प्रेषयति) → डिप् → डिपति
रिफ कत्थनयुद्ध-निन्दाहिंसादानेषु (युध्यते इत्यादिकम्) → रिफ् → रिफति
किल श्वैत्यक्रीडनयोः (श्वेतः भवति, क्रीडति) → किल् → किलति
तिल स्नेहने (स्नेहः भवति [greasy, oily]; तैलम् आदधाति/आचरति) → तिल् → तिलति
चिल वसने (वस्त्रं शरीरे स्थापयति) → चिल् → चिलति
इल स्वप्न-क्षेपणयोः (निद्रां करोति, प्रेषयति) → इल् → इलति
विल संवरणे (छिद्रं करोति, भग्नं करोति, आच्छादयति) → विल् → विलति
बिल भेदने (छेदयति, भागे-भागे विभागं करोति) → बिल् → बिलति
णिल गहने (कठिनतया बोधति) → निल् → निलति
हिल भावकरणे → हिल् → हिलति
मिल सङ्गमे → मिल् → मिलति
शिल उञ्छे → शिल् → शिलति
षिल उञ्छे → सिल् → सिलति
दिश अतिसर्जने → दिश् → दिशति/ते
रिश हिंसायाम् → रिश् → रिशति
लिश गतौ → लिश् → लिशति
विश प्रवेशने → विश् → विशति | नेर्विशः (१.३.१७) इत्यनेन नि-उपसर्गपूर्वकः विश्-धातुः आत्मनेपदी → निविशते | विशति he enters; निविशते he enters in | अत्र उक्तं यत् 'नि' उपसर्गः भवेत्; नो चेत् परस्मैपदे एव— मधुनि विशन्ति भ्रमराः | अत्र 'नि' इति सप्तमीविभक्त्यात्मकं, न तु उपसर्गः |
उदुपधधातवः (55 धातवः)
तुद व्यथने (पीडनं करोति, दुःखं प्रापयति) → तुद् + श → तुद इति अङ्गम् → तुद + ति → तुदति
कुच → कुच्, गुज → गुज्, रुजो → रुज्, भुज → भुज्, कुट → कुट्, पुट → पुट्, स्फुट → स्फुट्, मुट → मुट्, तुट → तुट्, चुट → चुट्, छुट → छुट्, जुट → जुट् इत्यादयः पञ्च-पञ्चाशत् धातवः | (एते धातवः लोके अप्रसिद्धाः |)
ऋदुपधधातवः (21 धातवः)
सृज विसर्गे (सृष्टिं करोति, रचयति) → सृज् + श → सृज् + अ → सृज इति अङ्गम् → सृज + ति → सृजति
स्पृश संस्पर्शने (स्पर्शं करोति) → स्पृश् + श → स्पृश् + अ → स्पृश इति अङ्गम् → स्पृश + ति → स्पृशति
कृष विलेखने (कृषिकार्यं करोति) → कृष् + श → कृष् + अ → कृष इति अङ्गम् → कृष + ति → कृषति
ऋच → ऋच्, कृड → कृड्, मृड → मृड्, पृड → पृड्, पृण → पृण्, वृण → वृण्, मृण → मृण्, चृती → चृत् इत्यादयः एकविंशतिः धातवः |
शेषधातवः (10 धातवः)
चर्च परिभाषण-भर्त्सनयोः (चर्चां करोति, विचार-विमर्शं करोति) → चर्च् + श → चर्च् + अ → चर्च इति अङ्गम् → चर्च + ति → चर्चति
उच्छी → उच्छ्, ऋच्छ → ऋच्छ्, मिच्छ → मिच्छ्, उछि → उञ्छ्, उब्ज → उब्ज्, जर्ज → जर्ज्, झर्झ → झर्झ्, उज्झ → उज्झ्, घूर्ण → घूर्ण्
शेषधातुषु किमपि विशिष्टं गणनिमित्तकं कार्यं न दृष्यते | भ्वादिगणः सामान्यं, तुदादिगणः विशेषः इति उक्तं पूर्वं; तर्हि किमर्थम् एते शेषधातवः तुदादिगणे सन्ति न तु भ्वादिगणे ? उत्तरम् अस्ति यत् अत्रापि विशिष्टं गणनिमित्तकं कार्यम् अस्ति | आच्छीनद्योर्नुम् (७.१.८०) इत्यनेन तुदादौ शतरि स्त्रीयां नुम्-आगमः वैकल्पिकः अस्ति | यथा बालिका चर्चन्ती गच्छति/बालिका चर्चती गच्छति | यावन्तः धातवः तुदादिगणे सन्ति, तेषां सर्वेषां शतरि स्त्रियां नुम्-विकल्पो भवति | अदुपधधातवः चल् इत्यादयः अपि अनेन एव कारणेन तुदादिगणे सन्ति | एषां धातूनाम् अङ्गम् अदन्तम्, अतः भ्वादिगणे यदि अभविष्यन् तर्हि स्त्रियां शत्रन्तं रूपं चर्चन्ती इत्येव अभविष्यत्, न तु चर्चती | इदं वैशिष्ट्यं सर्वेषां तुदादिगणीयधातूनां कृते प्रवर्तते |
B. विशेषधातवः (44 धातवः)
1. इगन्तधातवः (16 धातवः)
इगन्तधातवः = इक्-प्रत्याहारे कश्चन सदस्यः अन्ते येषां ते | इक्-प्रत्याहारः नाम इ, उ, ऋ, ऌ | अतः अस्मिन् इकारान्तधातवः, उकारान्तधातवः, ऋकारान्तधातवः च अन्तर्भूताः |
एतावता अस्माभिः दृष्टं यत् इगन्तधातवः नियमानुसारं प्रवर्तन्ते | भ्वादिगणे दिवादिगणे च गणनियमम् अनुसृत्य यथा विकरणप्रत्ययस्य स्वभावः, तथा एव इगन्तधातूनाम् अङ्गकार्यम् | भ्वादिगणे शप् पित् अतः सर्वत्र इगन्तधातौ गुणः— नी → ने, भू → भो, धृ → धर् इति | दिवादिगणे श्यन् अपित् अतः सर्वत्र इगन्तधातुः यथावत् तिष्ठति— प्री → प्रीय → प्रीयते, सू → सूय → सूयते इति | अतः भ्वादिगणे दिवादिगणे च इगन्तधातवः सामान्याः इति उच्यते | परन्तु तुदादिगणे इगन्तधातवः विशेषधातवः सन्ति | किमर्थमिति अत्र दृश्यताम् |
श इति विकरणप्रत्ययः | अयं श-प्रत्ययः सार्वधातुकः (तिङ्-शित्सार्वधातुकम्), अपित् (पकारः इत् यस्य न), ङिद्वत् (क्ङिति च), अजादिः (अच् आदौ यस्य सः) च | अतः सङ्क्षेपे अजादिः अपित् इति वदेम |
एतावता वयं दृष्टवन्तः यत् व्याकरणशास्त्रे इ, उ, ऋ इत्येषां कार्यद्वयं सम्भवति—
१. गुणादेशः | नाम इ → ए, उ → ओ, ऋ → अर् |
२. यण् आदेशः (इको यणचि) | नाम इ → य्, उ → व्, ऋ → र् |
अधुना इतोऽपि द्वे कार्ये सम्भवतः इति बोध्यम्—
३. इयङ्, उवङ् आदेशौ | इ → इय्, उ → उव् |
४. रिङ् इत्यादेशः | ऋ → रि |
कुत्र एतादृशकार्ययोः अवसरः प्राप्तः इति अधः पश्येम |
a. इकारान्तधातवः (4 धातवः)
श इति विकरणप्रत्ययः अजादिः अपित् इति कारणतः एकं सूत्रम् अत्र कार्यं करोति— अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) | अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यम् अवलोकयेम | तुदादिगणीयः रि गतौ इति धातुः |
१. अयं रि-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम | रि + लट् → रि + ति → रि + शप् + ति → रि + अ + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → रे + अ + ति → एचोऽयवायावः इत्यनेन अयादेशः → रय् + अ + ति = रयति | इदं केवलं चिन्तनार्थम्; अयं रि-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |
२. तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि रि-धातोः लटि किं रूपम् अभविष्यत् इति चिन्तयेम | रि + लट् → रि + ति → रि + श + ति → रि + अ + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् इत्यनेन श ङिद्वत्, क्ङिति च इत्यनेन गुणनिषेधः → रि + अ + ति → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → र्यति | इदं केवलं चिन्तनार्थम्; अयं रि-धातुः तुदादिगणे सामान्यधातुः नास्ति अतः इदं रूपं न सम्भवति |
३. वस्तुस्थितिः का इति अग्रे पश्येम | रि + लट् → रि + ति → रि + श + ति → रि + अ + ति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् इत्यनेन श ङिद्वत्, क्ङिति च इत्यनेन गुणनिषेधः → रि + अ + ति → इको यणचि (६.१.७७) इत्यनेन यण्-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित् अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन यण्-सन्धिं प्रबाध्य इयङ् आदेशः भवति |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
मनसि भवेत् यत् अस्मिन् सूत्रे "किति ङिति" इति न उक्तं, परन्तु प्रत्ययः कित्-ङित् नास्ति चेत् इगन्तानां धातूनाम् इकः गुणः अतः तत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्य प्राप्तिः नास्ति | तत्रापि प्रसक्तिः आसीत्, परन्तु सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य परसूत्रत्वात् बलवत् |
अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रं वक्ति यत् आदेशः अनेकाल् अस्ति चेत् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः), तर्हि सर्वस्य, नाम सर्वाङ्गस्य स्थाने आदेशः आयाति | इयङ् इत्यस्मिन् आदेशे अकार-ङकारयोः इत्-संज्ञा भवतः अतः इय् इति अवशिष्यते | इय् इत्यस्मिन् एक एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः (“इ”, “य्” इति), अतः अनेकाल् अस्ति | इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | तर्हि अत्र पूर्णस्य "रि" इत्यस्य स्थाने इयङ् भवतु इति इदं सूत्रं विदधाति | परन्तु ङिच्च (१.१.५३), अनेकाल्शित् सर्वस्य इत्यस्य अपवादभूतसूत्रम् | ङिच्च इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | अतः रि-धातौ इकारस्थाने इय्-आदेशः |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
ङिच्च (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित् सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङित् च अन्त्यस्य अलः स्थाने |
रि गतौ → रि + श → रि + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अचि परे इयङ्-आदेशः → र् + इय् + अ → रिय इति अङ्गम् → रिय + ति → रियति
तुदादिगणे चत्वारः इकारान्तधातवः रि गतौ, पि गतौ, धि गतौ, क्षि गतौ | सर्वेषाम् अर्थः 'गच्छति', अपि च सर्वेषां कार्यं रि यथावत् अतः रियति, पियति, धियति, क्षियति |
b. उकारान्त/ऊकारान्तधातवः (6 धातवः)
श इति विकरणप्रत्ययः अजादिः अपित् इति उक्तं; तस्मात् कारणात् अत्र पुनः इदं सूत्रम् प्रवर्तते— अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) | अनेन उकारान्तधातूनाम् उवङ् आदेशः भवति अजाद्यपिति प्रत्यये परे | क्रमेण इदं कार्यम् अवलोकयेम | तुदादिगणीयः गु पुरीषोत्सर्गे इति धातुः |
१. अयं गु-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम | गु + लट् → गु + ति → गु + शप् + ति → गु + अ + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → गो + अ + ति → एचोऽयवायावः इत्यनेन अवादेशः → गव् + अ + ति → गवति | इदं केवलं चिन्तनार्थम्; अयं गु-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |
२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम | गु + लट् → गु + ति → गु + श + ति → गु + अ + ति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् इत्यनेन श ङिद्वत्, क्ङिति च इत्यनेन गुणनिषेधः → गु + अ + ति → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → ग्वति | इदं केवलं चिन्तनार्थम्; अयं गु-धातुः तुदादिगणे सामान्यधातुः नास्ति अतः इदं रूपं न सम्भवति |
३. वस्तुस्थितिः का इति अग्रे पश्येम | गु + लट् → गु + ति → गु + श + ति → गु + अ + ति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् इत्यनेन श ङिद्वत्, क्ङिति च इत्यनेन गुणनिषेधः → गु + अ + ति → इको यणचि (६.१.७७) इत्यनेन यण्-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित् अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन यण्-सन्धिं प्रबाध्य उवङ्-आदेशः भवति |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य अर्थः उपरि दत्तः | अत्र गु-धातुः उकारान्तः अतः उकारस्य स्थाने उवङ्-आदेशः न तु इयङ्, इत्येव भेदः— यतोहि सूत्रेण उक्तं यत् इकारान्तधातोः स्थाने इयङ्, उकारान्तधातोः स्थाने उवङ् | तदा उवङ् आदेशः कस्य स्थाने इति चेत्, पुनः अनेकाल् शित्सर्वस्य इत्यस्य अपवादे ङिच्च सूचयति यत् ङित्त्वात् अन्त्यस्य एव आदेशः | अतः यण् प्रबाध्य उवङ्-आदेशः भवति अन्त्यस्य उकारस्य स्थाने |
गु पुरीषोत्सर्गे → गु + श → गु + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अचि परे उवङ्-आदेशः → ग् + उव् + अ → गुव इति अङ्गम् → गुव + ति → गुवति
तुदादिगणे षट् उकारान्तधातवः गु, ध्रु, कुङ्, णू, धू, षू | एषां सर्वेषां कार्यं गु-धातोः यथावत् अतः गुवति, ध्रुवति, कुवते (ङित् अतः आत्मनेपदिधातुः), नुवति, धुवति, सुवति |
गु पुरीषोत्सर्गे → गुवति
ध्रु गतिस्थैर्ययोः (गच्छति, स्थिरः भवति) → ध्रुव इति अङ्गम् → ध्रुव + ति → ध्रुवति
कुङ् शब्दे (ध्वनिं करोति) → कुव इति अङ्गम् → कुव + ते → कुवते
णू स्तवने (स्तुतिं करोति, प्रशंसां करोति) → णो नः (६.१.६५) → नू + श → नुव इति अङ्गम् → नुव + ति → नुवति
धू विधूनने (बाधति, कम्पनं कारयति) → धुव इति अङ्गम् → धुव + ति → धुवति
षू प्रेरणे (प्रेरयति) → धात्वादेः षः सः (६.१.६४) → सू + श → सुव इति अङ्गम् → सुव + ति → सुवति
c. ऋकारान्तधातवः
तुदादिगणे चत्वारः ऋकारान्तधातवः सन्ति— मृङ्, पृङ्, दृङ्, धृङ् च | इमे सर्वे ङितः अतः अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यनेन आत्मनेपदिनः |
तुदादिगणे शपं प्रबाध्य श-विकरणप्रत्ययः आयाति इति ज्ञातम् | तस्मात् कारणात् अत्र रिङ्शयग्लिङ्क्षु (७.४.२८) इति सूत्रं कार्यं करोति | अनेन ऋकारान्तधातूनां रिङ्-आदेशः भवति, श-प्रत्यये परे | क्रमेण इदं कार्यम् अवलोकयेम | तुदादिगणीयः मृङ् प्राणत्यागे इति धातुः |
१. अयं मृङ्-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम | ङकारस्य इत्-संज्ञा अतः मृ अवशिष्यते; ङित् अतः अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यनेन आत्मनेपदिधातुः |
मृ + शप् → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → मर् + अ → मर इति अङ्गम् → मर + ते = मरते | इदं केवलं चिन्तनार्थम्; अयं मृङ्-धातुः भ्वादौ नास्ति अतः इदं रूपं न सम्भवति |
२. यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम |
मृ + श → मृ + अ → सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् इत्यनेन श ङिद्वत्, क्ङिति च इत्यनेन गुणनिषेधः → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → म्र इति अङम् → म्र + ते → म्रते | इदं केवलं चिन्तनार्थम्; वास्तवे इको यणचि बाधितम् अस्ति अतः इदं रूपं न सम्भवति |
३. वस्तुस्थितिः का इति अग्रे पश्येम |
मृङ् प्राणत्यागे → मृ + श → मृ + अ → इको यणचि (६.१.७७) इत्यस्य प्राप्तिः, तत् प्रबाध्य सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुण-प्राप्तिः, सार्वधातुकमपित् (१.२.४) इत्यनेन अपित्त्वात् ङिद्वत्, क्क्ङिति च (१.१.५) इत्यनेन ङित्त्वात् गुणनिषेधः → रिङ् शयग्लिङ्क्षु (७.४.२८) इत्यनेन श-प्रत्यये परे ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः (मृ-धातोः पूर्णतया स्थाने रि); ङिच्च (१.१.५३) इत्यनेन आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः → म् + रि + अ → म्रि + अ → इको यणचि इत्यनेन यण्-सन्धेः प्राप्तिः → श-प्रत्ययः अजादिः अपित् अतः यण्-सन्धिं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् आदेशः → इयङ् आदेशः ङित् अतः ङिच्च इत्यनेन अन्त्यस्य एव आदेशः, इकारस्य स्थाने इय्-आदेशः → म्र् + इय् + अ → म्रिय् + अ → म्रिय इति अङ्गम् → म्रिय + ते → म्रियते
अत्र एकः प्रश्नः उदेति— यदा रिङ्-आदेशः विहितः, तदा म्रि इति रूपम् | अस्यां स्थित्यां धातुसंज्ञा नास्ति किल, तर्हि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः कथम् ?
आदेशस्य योजनेन आगमस्य योजनेन च धातुः धातुरेव तिष्ठति; स्वस्य धातुसंज्ञा तिष्ठति | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण आदेशः स्थानिवद्भवति | आगमाः तु यस्य आगमः तस्य अवयवः भवति यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते इति परिभाषया | मृ → म्रि इत्यस्य विकारेण म्रि तदानीं धातुः; तस्य धातुसंज्ञा तदानीम् अस्ति | यतः रि इति आदेशः | अनन्तरम् इयङ् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते | म्रि → म्रिय् अयमपि धातुः | परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः, तदा धातुसंज्ञा न तिष्ठति | म्रिय् + अ → म्रिय | श इति विकरणप्रत्ययः; तस्य पृथक् प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन म्रिय इति अधुना धातुः नास्ति | अस्यां दशायां धातुसंज्ञा न तिष्ठति, अधुना अङ्गसंज्ञा एव वर्तते |
तुदादिगणे चत्वारः ऋकारान्तधातवः—
मृङ् प्राणत्यागे → म्रियते
पृङ् व्यायामे (कार्ये निमग्नः भवति) → प्रियते
दृङ् आदरे (आदरं प्रकटयति) → द्रियते
धृङ् अवस्थाने (स्थितः भवति, जीवितः भवति) → ध्रियते
रिङ् शयग्लिङ्क्षु (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्-आदेशो भवति श-प्रत्यये, यक्-प्रत्यये, यकारादि-आर्धधातुक-लिङ्-प्रत्यये च परे | शश्च यक् च लिङ् च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्क्षु | रिङ् प्रथमान्तं, शयग्लिङ्क्षु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि, अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात् असार्वधातुके, रीङ् ऋतः (७.४.२७) इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋतः अङ्गस्य रिङ् यि असार्वधातुके शयग्लिङ्क्षु |
यस्मिन् विधिः तदादावल्ग्रहणे इति परिभाषया यि नाम यकारादौ (यस्य आदौ यकारः, तस्मिन् परे) | यि असार्वधातुके च लिङः विशेषणम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन ऋतः अङ्गस्य नाम न केवलम् ऋकारस्य इत्यङ्गस्य, अपि तु ऋकारान्तस्य अङ्गस्य | रिङ् ङित्, अतः अलोऽन्त्यस्य (१.१.५२) इत्यस्य बाधकसूत्रम् अनेकाल् शित्सर्वस्य (१.१.५५), तत् प्रबाध्य ङिच्च (१.१.५३) इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः|
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च)| परिभाषासूत्रम् |
ङिच्च (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित् सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङित् च अन्त्यस्य अलः स्थाने |
*हलि च इति सूत्रे यथा, तथैव अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रे अपिति परे, किति परे, ङिति परे वा नोक्तम्, न वा अनुवृत्तौ अस्ति | परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे | अतः पाणिनेः वदनस्य आवश्यकता नासीत् | "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः" इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अत्र अस्माभिः अनुमानेन अवगतमेव |
d. दीर्घ-ॠकारान्तधातवः (द्वौ धातू स्तः)
तुदादिगणे कॄ विक्षेपे (क्षिपति, प्रसारयति), गॄ निगरणे इति द्वौ ॠकारान्तधातू स्तः |
अधुना अस्माभिः दृष्टं यत् ह्रस्व-ऋकारान्तधातूनां रिङ्-आदेशः भवति, यथा मृङ् → रिङ् आदेशः → म्रि → इयङ् आदेशः → म्रिय् + श-विकरणप्रत्ययः → म्रिय इति अङ्गम् + ते → म्रियते
दीर्घॠकारान्तधातूनां क्रमः भिन्नः |
स्मर्यते यत् दिवादिगणे दीर्घॠकारान्तधातुषु ॠकारस्य स्थाने इ-आदेशः जॄ → जि | तुदादिगणे अपि तथा; उभयत्र ॠत इद्धातोः (७.१.१००) इत्यस्य प्रसक्तिः | परन्तु ततः अग्रे भिद्यते यतोहि दिवादिगणे श्यन् हलादिः अपित्; किन्तु तुदादिगणे श अजादिः अपित् | दिवादिगणे हलि च इत्यनेन उपधायाम् इकः दीर्घत्वम्, परन्तु तुदादिगणे हलि च इत्यस्य प्रसक्तिः नास्ति अतः उपधायाम् इक् ह्रस्वः तिष्ठति | अग्रे क्रमः प्रदत्तः अस्ति— कॄ इति धातुः |
कॄ + श → कॄ + अ → इको यणचि (६.१.७७) इत्यनेन यण्-सन्धेः प्राप्तिः → तं प्रबाध्य सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्राप्तिः → सार्वधातुकम् अपित् (१.२.४) इत्यनेन श ङिद्वत्, क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → कॄ + अ → ॠत इद्धातोः (७.१.१००) इत्यनेन ऋदन्तस्य धातोः ह्रस्व-इकारादेशः → कि + अ → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः → किर् → किर् + अ → किर इति अङ्गम् → किर + ति → किरति
ॠत इद् धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्-ङित् भिन्नप्रत्ययः परे चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात् षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) | परिभाषासूत्रम् |
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च)| परिभाषासूत्रम् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
ऋकारस्य स्थाने यदा अण्-प्रत्याहारस्य कश्चन सदस्यः ('अ', 'इ, 'उ' वा) आयाति, तदा तस्मात् रेफः आयाति | अतः अण् "रपरः" भवति— 'अर्', 'इर्', 'उर्' वा इति | अत्र ॠकारस्य स्थाने इ आगतः, अतः रपरः भवति, इर् इति | कि → किर् |
गॄ धातुः अपि तथा | गॄ + अ → गि + अ → गिर् + अ→ गिर इति अङ्गम् → गिर + ति → गिरति
दिवादिगणे क्रमः तथैव अस्ति, किन्तु अन्ते इकारः दीर्घः भवति—
जॄ → (ॠत इद्धातोः) जि → (उरण् रपरः) जिर् → (हलि च) जीर् + (श्यन् विकरणप्रत्ययः) य → जीर्य इति अङ्गम् → जीर्य + ते → जीर्यते
हलि च (८.२.७७) इत्यनेन हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | दिवादिगणे श्यन् हलादिः अपित् अस्ति; तुदादिगणे श अजादिः अपित् अस्ति | अतः दिवादौ ॠकारान्तधातुषु हलि च इत्यस्य प्रसक्तिः; तुदादौ अस्यामेव दशायां हलि च कार्यं न करोति |
अत्र उरण् रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम |
अ/आ + इ/ई = ए
अ/आ + उ/ऊ = ओ
अ/आ + ऋ/ॠ = अर्
इति सामान्यनियमः अस्ति | परन्तु गुणसंज्ञा-विधायकसूत्रम् अदेङ्ग गुणः (१.१.२) इत्यनेन अ, ए, ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति | तत्र "अर्" किमपि नास्ति | यत्र गुणसन्धिः अपेक्षितः, तत्र आद्गुणः (६.१.८७) इत्यनेन अवर्णात् अचि परे पूर्वपरयोः एकः गुणादेशः भवति | गुणादेशः नाम पूर्वपरयोः स्थाने 'अ' वा, 'ए' वा 'ओ' वा आगच्छेत् | तत्र "अर्" तु नास्त्येव | तर्हि अ + ऋ → अर् कथम् ? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति— अ + ऋ → "अ, ए, ओ" इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः | अधुना स्थानेऽन्तरतमः इति सूत्रेण ध्वनि-दृष्ट्या तेषु त्रिषु, द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं "स्थान-तौल्यम्" अस्ति इति अवलोकनीयं भवति | अकारस्य कण्ठस्थानम्, ऋकारस्य मूर्धास्थानम् | अ, ए, ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धास्थानं नास्ति | (अ= कण्ठस्थानम्, ए= कण्ठतालुस्थानम्, ओ= कण्ठोष्ठस्थानम् इति |) तेषु त्रिषु, अ-ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते | अतः अ-ऋ इत्यनयोः स्थाने "अ" इत्यस्य गुणादेशप्राप्तिः | अधुना ऋ-स्थाने यः अकारः आगतः, सः अण्-प्रत्याहारस्य सदस्यः, अतः उरण् रपरः इत्यनेन रेफः परः भवति | तर्हि आहत्य अ/आ + ऋ/ॠ → आद्गुणः इत्यनेन पूर्वपरयोः स्थाने 'अ' → उरण् रपरः → अर् | महा + ऋषिः → मह् + अर् + षि → महर्षिः |
अवधेयं यत् ॠत इद्धातोः इति सूत्रं किति ङिति प्रत्यये परे एव कार्यं करोति | अतः सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः अपित् नास्ति, तत्र यद्यपि प्रसक्तिः तु अस्ति, किन्तु प्राप्तिः न भविष्यति | वृत्तान्ते भ्वादिगणे तॄ इति धातुः | यद्यपि ॠकारान्तधातुः अस्ति, तथापि ॠत इद्धातोः इत्यनेन ॠ-स्थाने इकारादेशः न भवति | भ्वादिगणे शप् पित् अस्ति अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति | तॄ + शप् → तॄ + अ → तर् + अ → तर इति अङ्गम् → तर + ति → तरति |
अतः गणम् अनुसृत्य ॠकारान्तधातूनां कः भेदः इति पश्येम—
भ्वादिगणे तॄ → गुणः → तरति
दिवादिगणे जॄ → इ-आदेशः, हलि च दीर्घः → जीर्यति
तुदादिगणे कॄ → इ-आदेशः, अजादिः अपित् अतः न दीर्घः → किरति
केचन जनाः वदन्ति यत् भ्वादितुदादिगणयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन् गणे इति | किन्तु यत्र गणसम्बद्धकार्यं वर्तते, तत्र अस्माकं न कोऽपि भ्रमः स्यात् | भ्वादिगणे गुणकार्यं प्रवर्तते; तुदादिगणे न कुत्रापि गुणकार्यम् | तुदादिगणे विकरणप्रत्ययः अजादिः अपित् अतः सामान्यम् अपित्-निमित्तं कार्यम् अपि, विशिष्टम् अजादि-अपित्-निमित्तं कार्यम् अपि भवतः, ये भ्वादौ न सञ्जायेते | यथा दीर्घ-ॠकारः → इ-कारः प्रवर्तते केषुचिदपि अपित्सु प्रत्ययेषु, अतः दिवादौ अपि (जॄ → जीर्यति), तुदादौ अपि (कॄ → किरति) | इयङ्-आदेशः किन्तु अजादिषु अपित्सु एव प्रवर्तते (अचि श्नुधातुभ्रुवां य्वोरियङुवङौ) | रि + अ → रियति |
Swarup – May 2013 (updated July 2015)
८ - तुदादिगणः.pdf (107k) Swarup Bhai, Apr 11, 2019, 12:10 AM
Subpages (1): तदादि-तदन्त-ग्रहणाम् - परिभाषा २३