07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌

From Samskrita Vyakaranam
< 04 - अष्टाध्यायी-परिचयः04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam
Jump to navigation Jump to search
ध्वनिमुद्रणानि -
2017 वर्गः
१) aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2017-05-24
२) aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2017-05-31
३) aShTAdhyAyyAM_sUtrANAM_balAbalam_III--antarangam-1_2017-06-07
४) aShTAdhyAyyAM_sUtrANAM_balAbalam_IV--antarangam-2---arthanimittakatvam_2017-06-14
५) aShTAdhyAyyAM_sUtrANAM_balAbalam_V--antarangam-3---arthanimittakatvam_+_pUrvopasthitanimittakatvam_2017-06-21
६) aShTAdhyAyyAM_sUtrANAM_balAbalam_VI--antarangam-4---aparanimittakam_+_apavAdaH_+_pUrvatrAsiddham_2017-06-28  
७) aShTAdhyAyyAM_sUtrANAM_balAbalam_VII--pUrvatrAsiddham_+_balAbala-abhyAsaH---shaknu_+_anti_2017-07-05
८) sUtrANAM_balAbalam_VIII--abhyAsaH---cinu_+_anti_&_kuru_+_anti_2017-07-12
2014 वर्गः
१) aShTAdhyAyyAM_sUtrANAM_balAbalam_I_2014-07-02
२) aShTAdhyAyyAM_sUtrANAM_balAbalam_II_2014-07-09
३)  aShTAdhyAyyAM_sUtrANAM_balAbalam_III_2014-07-16
४) aShTAdhyAyyAM_sUtrANAM_balAbalam_IV_2014-07-23




अष्टाध्याय्याः सूत्रक्रमायोजनं किम्‌ ?


प्रश्नः समीचीन एव | यथा, किमर्थं समाससम्बद्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बद्धानि सूत्राणि ग्रन्थस्य अन्ते ? किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः ? यः शिष्यः अस्ति, तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति | नाम अष्टाध्याय्याः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत्‌ अध्येतॄणां कृते लाभदायकः स्यात्‌ |



उत्तरम्‌ अस्ति यत्‌ अष्टाध्याय्याः अन्त एव कश्चन सुन्दरतर्कोऽस्ति | तस्य च तर्कस्य लक्ष्यम्‌ अस्ति ग्रन्थस्य लघुत्वम्‌ | येन सूत्राणि अतिन्यूनानि स्युः, किन्तु विषयः सम्पूर्णस्स्यात्‌ | तदर्थं सर्वं कृतं; तदर्थम्‌ एतादृशः क्रमः विरचितः | लघुत्वस्य सिद्ध्यर्थम्‌ (१) अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्‌, (२) सूत्राणां बलाबलम्‌ समन्वितं स्यात्‌ |


अनुवृत्ति-विषये अस्माकं परिचयस्तु जातः; अधुना सूत्राणां बलाबल-प्रसङ्गे वक्तव्यम्‌ | यदा किञ्चनपदं निर्मीयते, तदा निर्माणार्थं सोपानानि सन्ति | एकैकस्मिन्‌ सोपाने कार्यं वर्तते | केन क्रमेण इदं सर्वं स्यात्‌ अपि च कस्मिंश्चित्‌ अवसरे किं सूत्रम्‌ आगत्य कार्यं कुर्यात्‌ इति निर्णेतुं सूत्राणां बलाबलं भवति | एकस्मिन्‌ समये द्वयोः सूत्रयोः प्रसक्तिः; अथवा बहूनां सूत्राणां प्रसक्तिः | तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्‌ ? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना | बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्‌ | इमे द्वे सूत्रे द्वे परिभाषे च, अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति |



१. महाभाष्यवाक्यम्‌ - अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः | लब्धः अवकाशः यस्य तत्‌, लब्धावकाशं सूत्रम्‌ | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित्‌ कार्यं कर्तुम्‌ अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत्‌ एकस्मिन्‌ स्थले कार्यं कर्तुम्‌ आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः तुल्यबलविरोधः इत्युच्यते |


यथा—

सुपि च (७.३.१०२) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादि-सुप्‌-प्रत्यये परे | अनुवृत्ति-सहितसूत्रं— यञि सुपि च अङ्गस्य अतः दीर्घः | वृक्ष + भ्याम्‌ → वृक्ष्‌ + आ + भ्याम्‌ → वृक्षाभ्याम्‌ |


बहुवचने झल्येत्‌ (७.३.१०३) = अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति झलादि-बहुवचनार्थ-सुप्‌-प्रत्यये परे | अनुवृत्ति-सहितसूत्रं— बहुवचने झलि सुपि अङ्गस्य अतः एत्‌ | वृक्ष + सुप्‌ → वृक्ष्‌ + ए + सु → वृक्षेषु |


वृक्ष + भ्याम्‌ इति स्थितौ सुपि च इत्यस्य प्रसक्तिरस्ति, बहुवचने झल्येत्‌ इत्यस्य प्रसक्तिर्नास्ति (यतः भ्याम्‌ बहुवचनार्थे नास्ति) | वृक्ष + सु इति स्थितौ बहुवचने झल्येत्‌ इत्यस्य प्रसक्तिरस्ति, सुपि च इत्यस्य प्रसक्तिर्नास्ति (यतः सुप्‌ यञादिः नास्ति) | अतः उभयत्र एकत्र प्राप्तिः नास्ति— सूत्रविरोधः नास्ति; उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः |


वृक्ष + भ्यस् = अत्र किं भवति इति पश्याम | भ्यस् यञादि-सुप्‌-प्रत्ययः अतः सुपि च इत्यस्य प्रसक्तिरस्ति | भ्यस् झलादि-बहुवचनार्थ-सुप्‌-प्रत्ययः अतः बहुवचने झल्येत्‌ इत्यस्य प्रसक्तिरस्ति | द्वेऽपि सूत्रे अन्यत्रलब्धावकाशे अपि च तयोः अधुना एकत्रप्राप्तिः वृक्ष + भ्यस् इत्यस्यां स्थितौ— अतः अत्र तुल्यबलविरोधः वर्तते | द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत्‌ इति निर्णेतुं अग्रे पठेम |


प्रथमम्‌ एकम्‌ उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिरस्ति, परन्तु तुल्यबलविरोधः नास्ति | अत्र + एव = अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिध्यति इति पश्येम | अत्र द्वयोः सूत्रयोः प्रसक्तिरस्ति— आद्‌गुणःवृद्धिरेचि च |


आद्‌गुणः (६.१.८७) = अवर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ अकः सवर्णे दीर्घः इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |


वृद्धिरेचि (६.१.८८) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आद्‌गुणः (६.१.८७) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌ |


इदानीम्‌ अस्माकम्‌ उदाहरणम्‌— अत्र + एव | पूर्वम्‌ अकारः अस्ति, पश्चात्‌ एकारः | एकारः अचि अपि अस्ति, एचि अपि अस्ति | अतः द्वयोः सूत्रयोः प्रसक्तिः— एकत्र प्राप्तिः अस्ति | अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा ? अधुना द्रष्टव्यं यत्‌ तुल्यबलविरोधः अस्ति न वा | तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्रलब्धावकाशः भवेत्‌ | अत्र + एव इत्यस्यां दशायां आद्‌गुणः कार्यं करोति चेत्‌, वृद्धिरेचि इत्यस्य अन्यत्रावकाशः भविष्यति वा ? नैव | एचि यदि गुणसन्धिः भवति, तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति | तस्य कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति | अस्यां दशायां द्वेऽपि सूत्रे अन्यत्रान्यत्रलब्धावकाशे न स्तः अतः तुल्यबलविरोधः नास्ति | आद्‌गुणः इति सामान्यं; वृद्धिरेचि इति विशेषः | यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात्‌ कारणात्‌ अत्र लब्धावकाशे सति कार्यं न करोति चेत्‌ अन्यत्र अवकाशो नैव प्राप्स्यते, तत्‌ सूत्रम्‌ अपवाद इत्युच्यते | वृद्धिरेचि, आद्‌गुणः इति सूत्रस्य अपवादः | अतः आद्‌गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण |


आद्‌गुणः इति सूत्रे अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात्‌ अकारः परश्चेत्‌ कार्यं बाधितम्‌ अकः सवर्णे दीर्घः इत्यनेन; अकारात्‌‍ एच्‌ परश्चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च | वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्र-प्रवृत्तिः कर्तव्या |


तर्हि अत्र तुल्यबलविरोधः नास्ति अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति | अधुना अस्माकं पूर्वतनम्‌ उदाहरणं प्रत्यागच्छाम | वृक्ष + भ्यस् | अत्र द्वयोः सूत्रयोः एकत्रप्राप्तिः— सुपि च, बहुवचने झल्येत्‌ च | द्वयोरपि अन्यत्र लब्धावकाशः अतः तुल्यबलविरोधः अस्ति | तुल्यबलविरोधः इत्यस्य समानार्थी शब्दः विप्रतिषेधः | अत्र कस्य सूत्रस्य प्राप्तिः भवेत्‌ इति निर्णेतुम्‌ एकं सूत्रं साहाय्यं करोति |


२. विप्रतिषेधे परं कार्यम्‌ (१.४.२) = समानकाले तुल्यबले सूत्रे कार्यं कर्तुम्‌ आयातश्चेत्‌, परसूत्रस्य कार्यं पूर्वं भवति | विप्रतिषेधे सप्तम्यन्तं, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः |


वृक्ष + भ्यस्‌ → विप्रतिषेधे परं कार्यम्‌सुपि च (७.३.१०२) इत्यस्य अपेक्षया बहुवचने झल्येत्‌ (७.३.१०३) परम्‌ अस्ति अतः तद्‌ बलवत्‌ → एकारादेशः → वृक्ष्‌ + ए + भ्यस्‌ → वृक्षेभ्यः |


अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम्‌ आगत्य सूचयति यत्‌ परसूत्रस्य कार्यं पूर्वं भवति (धेयं यत्‌ अस्य सूत्रस्य प्रसक्तिर्नास्ति त्रिपाद्याम्‌; अग्रे [#४] इयं सूचना प्राप्यते) | अध्याय-दृष्ट्या, पाद-दृष्ट्या, सूत्रसङ्ख्या-दृष्ट्या एकं सूत्रं परम्‌ अस्ति चेत्‌, तत्‌ सूत्रं परसूत्रम्‌ इत्युच्यते |


इदानीम्‌ आद्‌गुणः (६.१.८७), वृद्धिरेचि (६.१.८८) इति पश्येम | अस्माभिः दृष्टं यत्‌ अत्र + एव इति स्थितौ वृद्धिरेचि इत्यस्य प्राबल्यम्‌ अस्ति अपवादत्वात्‌ | वृद्धिरेचि इत्यस्य अन्यत्रलब्धावकाशो नास्ति; अतः अत्रैव [अत्र + एव] कार्यं साधनीयम्‌ |


वृद्धिरेचि परसूत्रम्‌ अस्ति; तथापि अत्र विप्रतिषेधे परं कार्यम्‌ इत्यनेन स्वस्य कार्यं न सिध्यति यतः अत्र तुल्यबलविरोधः नास्ति | विप्रतिषेधः इत्युक्तौ तुल्यबलविरोधः; परसूत्रस्य कार्यं भवति यदा विप्रतिषेधः विद्यते | अत्र + एव इति स्थितौ विप्रतिषेधः नास्ति (वृद्धिरेचि अत्र कार्यं न करोति चेत्‌, कुत्रापि कर्तुं न शक्ष्यति—अन्यत्रलब्धावकाशो नास्ति) अतः अत्र विप्रतिषेधे परं कार्यम्‌ इति सूत्रेस्य प्रसक्तिर्नास्त्येव |


सुपि च - बहुवचने झल्येत्‌ इति एका स्थितिः; आद्‌गुणः - वृद्धिरेचि इति अन्या स्थितिः | पूर्वस्यां स्थित्यां विप्रतिषेधे परं कार्यम्‌ इत्यनेन बलाबलस्य निर्णयः क्रियते; उत्तरस्यां स्थित्यां सामान्यविशेषत्वम्‌ (अपवादभूतत्वम्‌) इत्यनेन बलाबलस्य निर्णयः क्रियते | अधः चित्रद्वयम्‌ अस्ति, येन अस्माकं चित्रा-भगिन्या विप्रतिषेधः अपवादः चेत्यनयोर्भेदः सुन्दररीत्या निरूप्यते | अवश्यं दृश्यताम्‌ ! अधोभागे तयोः pdf अपि प्राप्यते, download इत्यर्थम्‌ | चित्रा-भगिनि, धन्यवादाः !


04-07-अष्टाध्याय्यां सूत्राणां बलाबलम्‌ slide 2.jpg


अधः एका परिभाषा अस्ति यया बुद्धं यत्‌ अपवादः बलीयान्‌ सामान्यसूत्रस्य अपेक्षया | यत्र अपवादः अस्ति, तत्र सूत्रसङ्ख्यायाः किमपि महत्वं नास्ति | अपवादभूतसूत्रस्य सूत्रसङ्ख्या या काऽपि भवतु नाम, तस्य बलं भवति एव | यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते, तत्र इयं परिभाषा कार्यं करोति | परिभाषाः अत्यन्तं पुरातनाः; तेषां लेखकाः अस्माभिर्न ज्ञायन्ते परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति | तर्हि अत्रास्ति एका परिभाषा—


३. पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः | [परिभाषा ३८] अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्‌ भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्‌ भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्‌ भवति |


अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम्‌ इत्यस्यैव अभिव्यक्तिः— पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ | तत्पश्चात्‌ तत्त्वत्रयं वर्तते—नित्य, अन्तरङ्ग, अपवाद—येषां उपस्थितौ विप्रतिषेधे परं कार्यम्‌ इति सूत्रं कार्यं न करोति |


एतावता पूर्व-पर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्‌ | अधुना नित्य, अन्तरङ्ग, अपवाद इति प्रसङ्गेषु परिशीलयाम |



a) नित्यम्‌ | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्‌, तस्यां दशायां यत्‌ अपरं सूत्रम्‌ अस्ति, तत्‌ नित्यसूत्रम्‌ इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्‌, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम्‌ अस्ति, तदा तत्‌ सूत्रं प्रथममेव प्रवर्तनीयम्‌ | नित्यम्‌ इत्यस्मात् कारणात्‌ बलवत्‌ | अतः पूर्वसूत्रं नित्यम्‌ अस्ति चेत्‌ पूर्वसूत्रं सत्यपि पूर्वम्‌ आयाति |


तुदति इति वृत्तान्तः |

तुद्‌ + लट्‌        वर्तमाने लट्‌ (३.२.१२३)

तुद्‌ + ति          (३.४.७८)

तुद्‌ + श + ति   तुदादिभ्यः शः (३.१.७७),

अनुबन्धलोपे तुद्‌ + अ + ति → तुदति


अत्र तुद्‌-धातोः वर्तमाने लट्‌ (३.२.१२३) इत्यनेन लट्‌ कर्तव्यः | तदा लटः स्थाने तिबादयः भवन्ति | एकवचनविवक्षायां तिप्‌-प्रत्ययः | तुद्‌ + ति | इदानीं ति-प्रत्ययः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इति अनुवर्तमाने पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः प्राप्यते | तुद्‍ + ति → पुगन्तलघूपधस्य च → तोद्‌ + ति |


नाम मध्ये श-विकरणप्रत्ययः तदानीं न भवति चेत्‌, गुणस्य प्राप्तिः | तुदादिभ्यः शः (३.१.७७) इत्यनेन श-प्रत्ययस्य करणात्‌ प्राक्‌ तिपं निमित्तीकृत्य गुणः भवति पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन | तुदादिभ्यः शः (३.१.७७) इति सूत्रं प्रति पुगन्तलघूपधस्य च (७.३.८६) तु परसूत्रम्‌, अतः तस्य कार्यं पूर्वं स्यात्‌ | अनेन चिन्तनेन तुद्‍ + ति → पुगन्तलघूपधस्य च → तोद्‌ + ति → तुदादिभ्यः शः → तोद्‌ + अ + ति → तोदति | किन्तु इदं रूपम्‌ अनिष्टम्‌ | तर्हि किं कर्तव्यम्‌ ?


अत्र नित्यम्‌ इति सिद्धान्तः आयाति, यतोहि विकरणप्रत्यये कृते गुणः न प्राप्य्ते किन्तु गुणे कृतेऽपि विकरणप्राप्तिः | कृताकृतप्रसङ्गे नित्यं— कृतेऽपि अकृतेऽपि यस्य प्रसङ्गः वर्तते, सः नित्यः | इदानीं गुणः तथा नास्ति— विकरणप्रत्यये कृते गुणप्राप्तिर्नास्ति | विकरणप्रत्यये अकृते एव गुणः प्राप्यते | पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये श-विकरणप्रत्ययः नास्ति | विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिर्नास्ति ? इति चेत्‌, श-प्रत्ययः अपित्‌ | यद्यपि शित्‌ अस्ति अतः पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम्‌ अपित्‌ (१.२.४) इत्यानेन अपित्‌ सार्वधातुकं ङिद्वत्‌ स्यात्‌ | अतः क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः |


श-प्रत्यये अकृते गुणः भवति किन्तु श-प्रत्यये कृते गुणः न भवति— तदर्थं गुणः अनित्यः | श-प्रत्ययस्य तु गुणे कृतेऽपि अकृतेऽपि प्राप्तिरस्ति | नाम गुणः क्रियतां, तुद्‌ + ति → तोद्‌ + ति → तदानीमपि तुदादिभ्यः शः (३.१.७७) इत्यनेन -विकरणप्रत्ययः विहितः → तोद्‌ + श + ति | गुणे कृतेऽपि विकरणः प्राप्यते; गुणे अकृतेऽपि विकरणः प्राप्यते | कृताकृतप्रसङ्गे नित्यम्‌, अतः तुदादिभ्यः शः (३.१.७७) नित्यसूत्रम्‌ | यद्यपि पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य अपेक्षया पूर्वसूत्रं, तथापि तस्य (तुदादिभ्यः शः इत्यस्य) कार्यं पूर्वं प्रवर्तते |


b) अन्तरङ्गम्‌ | अन्तरङ्गं बहुविधम्‌, अतः महान्‌ प्रपञ्चः | अत्र प्रकारद्वयं प्रदर्श्यते | अस्मिन्‌ प्रसङ्गे 'अङ्गम्‌' इत्यनेन न 'अवयवः', न वा यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्‌ (१.४.१३) इति रीत्या अङ्गकार्यस्य अङ्गम्‌, अपि तु अत्र 'अङ्गम्‌' इत्युक्ते 'निमित्तम्‌' |


परिभाषेन्दुशेखरग्रन्थे लिख्यते— नित्यादप्यन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्‌ | नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्‌ | कारणम्‌ अस्ति यत्‌ अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्‌ | अतः 'बलवत्‌' इति कथनस्य स्थाने बहिरङ्गशास्त्रम्‌ 'असिद्धम्‌' इति कथनम्‌ उचितम्‌ | अत्र 'अन्तरङ्गे' इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति— द्वयोः सूत्रयोः समकालप्राप्त्यवसरे, अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम्‌ असिद्धं भवति | अत्र 'नित्यादप्यन्तरङ्गं बलीयः' इत्यस्मिन्‌ 'अपि'-शब्देन परशास्त्रस्य ग्रहणम्‌ | अतः किमपि 'ब' नामकं सूत्रं, 'अ' नामकं सूत्रं प्रति बहिरङ्गं चेत्‌, तेन 'अ' इति अन्तरङ्गसूत्रेण इदं 'ब'-सूत्रम्‌ असिद्धं यद्यपि 'अ'-सूत्रं प्रति 'ब'-सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्‌ | इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत्‌, तदपि असिद्धं भवति | अस्य प्रकटीकरणार्थम्‌ अग्रिमपरिभाषा अस्ति, असिद्धं बहिरङ्गमन्तरङ्गे [परिभाषा ५०] |


ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम्‌ उच्यते— अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्‌ | एवं तदीयनिमित्तसमुदायाद्‌ बहिर्भूताङ्गकं बहिरङ्गम्‌ | अन्तरङ्ग-शब्दे भागद्वयम्‌, अन्तर्‍ + अङ्गम्‌ | अन्तर्‍ इत्युक्ते 'मध्ये' | कस्य मध्ये ? बहिरङ्गशास्त्रीय-निमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्‌ | अनया रीत्या अन्तरङ्गशास्त्रीय-निमित्तसमुदायात्‌ बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्‌ |


इत्थञ्च अन्तर्भूतनिमित्तकत्वमन्तरङ्गत्वम्‌ | बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत्‌, तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते, तदन्तरङ्गम्‌ | बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत्‌, अन्तरङ्गत्वम् |


उपर्युक्तं यत्‌ अन्तरङ्गं बहुविधम्‌; अत्र प्रकारद्वयं प्रदर्श्यते |


१. पूर्वोपस्थितनिमित्तकम्‌ अन्तरङ्गम्‌


पूर्वोपस्थितनिमित्तकस्याप्यन्तरङ्गत्वात्‌ | यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते, तदप्यन्तरङ्गम्‌ |


अस्य बोधनार्थं दृष्टान्तो दीयते—


सिव्‌-धातुः + न-प्रत्ययः → स्योन-शब्दः | 'न' इति उणादि-प्रत्ययः (३.९) | सर्वे उणादि-प्रत्ययाः कृत्‌-प्रत्ययाः |


'सिव्‌ + न' इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति— लोपो व्योर्वलि (६.१.६६), च्छ्वोः शूडनुनासिके च (६.४.१९), पुगन्तलघूपधस्य च (७.३.८६) | त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन्‌ विषये चिन्तनीयम्‌ |


लोपो व्योर्वलि (६.१.६६) = वल्‌-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व्‌ च य्‌ च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— व्योः लोपः वलि |


च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात्‌ क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— च्छ्वोः अङ्गस्य शूड्‌ क्विझलोः अनुनासिके च |


दृष्टान्तः तुक्‌-सहित्‌-छकारस्य स्थाने शकारादेशः—


पाप्रच्छ्‌ + मिच्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश्मि


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


सर्वप्रथमं लोपो व्योर्वलि (६.१.६६), च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनयोर्मध्ये किं भवति इति द्रष्टव्यम्‌ |


लोपो व्योर्वलि (६.१.६६) इत्यस्य प्रप्तिर्भवति चेत्‌, च्छ्वोः शूडनुनासिके च (६.४.१९) इति सूत्रे ऊठ्‌-आदेशः न कुत्रापि भविष्यति, अतः सूत्रस्य अयं भागः निरवकाशः | तदर्थं लोपो व्योर्वलि (६.१.६६) इत्यस्य अपवादः च्छ्वोः शूडनुनासिके च (६.४.१९) |


ततः अग्रे चिन्तनीयं यत्‌ च्छ्वोः शूडनुनासिके च (६.४.१९), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोर्मध्ये किं भवति | द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि अङ्गकार्यञ्च | पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य परत्वात्‌ बलवत्‌ स्यात्‌ | 'सिव्‌ + न' → पुगन्तलघूपधस्य च (७.३.८६) → सेव्‌ + न |


अधुना अस्मिन्‌ विषये इतोऽपि चिन्तनीयम्‌ | 'सिव्‌ + न' इति स्थितौ च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य कति निमित्तानि ? वकारान्तम्‌ अङ्गं स्यात्‌, अपि च अनुनासिकादि-प्रत्ययः परः स्यात्‌ | अतः अस्य सूत्रस्य निमित्तद्वयं भवति | तदा अत्रैव 'सिव्‌ + न' इति स्थितौ पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य कति निमित्तानि ? अङ्गम्‌, इक्‌-लक्षणा, लघ्वी, उपधा, आर्धधातुक-प्रत्ययः इत्यनेन पञ्च निमित्तानि | नाम पञ्चसंज्ञाः अपेक्षिताः— अङ्गसंज्ञा, इक्‌-संज्ञा, लघुसंज्ञा, उपधा-संज्ञा, आर्धधातुकसंज्ञा | पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य अपेक्षया च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य अल्पनिमित्तकत्वं भवति, तदर्थम्‌ अनया दृष्ट्या च्छ्वोः शूडनुनासिके च (६.४.१९) अन्तरङ्गं, पुगन्तलघूपधस्य च (७.३.८६) च बहिरङ्गम्‌ | इति कैयटः नाम्ना प्राचीनावैयाकरणस्य मतम्‌ |


अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किमिति निश्चेतव्यम्‌ | अर्थकृतनिमित्तं वा, संज्ञाकृतनिमित्तं वा, शब्दकृतनिमित्तं वा इति ज्ञेयम्‌ | अस्मिन्‌ विषये च महती चर्चा भवति | अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम्‌ अद्यत्वे स्वीक्रियते | तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव, इति अङ्गीकारः | नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि | भाष्यकारस्य चिन्तनं किं, किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति |


सारांशः अत्र उच्यते | व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यम्‌ | शब्दः नाम कः ? वर्णः पदं चेति; यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति | अर्थः तस्मात्‌ भिन्नः, संज्ञा च तस्मात्‌ भिन्ना | शब्दः अर्थवान्‌ भवति, अर्थविशिष्टः भवति— अतः अर्थः शब्दस्य विशेषणं; शब्दः एव विशेष्यः | स च शब्दः व्याकरणस्य प्रमुखविषयः | तदर्थम्‌ असिद्धं बहिरङ्गमन्तरङ्गे इति परिभाषायाम्‌‍ अङ्ग-शब्देन शब्दरूपि निमित्तस्य ग्रहणम्‌ | तात्पर्यम्‌ एवं यत्‌ अन्तरङ्गं, बहिरङ्गम्‌ इत्यनयोः 'अङ्ग'-शब्देन शब्दरूपि निमित्तं स्वीक्रियते |


उदाहरणार्थम्‌ अत्र सिव्‌ + न इति स्थितौ अङ्गसम्बन्धित्वम्‌, इक्त्वं, लघुत्वम्‌, उपधात्वम्‌, एतत्‌ सर्वं संज्ञानां भेदेऽपि अपेक्षमाणः शब्दः तु 'सिव्‌' इत्येव | अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य | शब्दशास्त्रे शब्दस्य एव प्राधान्यात्‌ सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्थः शब्दः एव निमित्तपदेन गृह्यते | न तु अर्थः संज्ञा वा |


दृष्टान्ते इको यणचि (६.१.७६) इति सूत्रे तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यनेन अजव्यवहितपूर्वस्य इकः यणादेशो भवति | 'अचि' इति सप्तम्याम्‌ अस्ति | अनेन शब्दरूपनिमित्तमेव ग्राह्यं, न तु संज्ञारूपनिमित्तम्‌ | संज्ञा न शब्दः | संज्ञायाः इदमेव कार्यं, सज्ञिनं विशेषयति | 'अच्‌' इति संज्ञा, तत्र किन्तु 'अच्‌' इति संज्ञा-विशिष्ट-संज्ञी अपेक्षते | 'अपि + अस्ति → अप्यस्ति' इत्यस्मिन्‌ अकारः संज्ञी | 'इति + उपस्थितम्‌ → इत्युपस्थितम्‌' इत्यस्मिन्‌ उकारः संज्ञी | तस्य च उकारस्य संज्ञा 'अच्‌' | अतः 'अचि' इति पदं संज्ञिपदं, न तु संज्ञापदम्‌ | अत्र संज्ञी उकारः निमित्ततया आश्रितः, न तु संज्ञा | अयम्‌ उकारः शब्दः | सूत्रेषु सप्तम्यन्ततया वा पञ्चम्यन्ततया वा यः निमित्ततया गृह्यते, स च शब्दः | न तु संज्ञा वा अर्थो वा |


संज्ञा इत्यस्य उदाहरणं दृष्टम्‌ | अधुना अर्थस्य | स्त्रीलिङ्गे त्रि-शब्दः + आम्‌-प्रत्ययः → तिसृणाम्‌ | त्रिचतुरोस्त्रियां तिसृचतसृ (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्‍-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | ह्रस्वनद्यापो नुट्‌ (७.१.५४) इत्यनेन ह्रस्वात्‌ अङ्गात्‌ आम्‌-प्रत्ययस्य नुट्‌-आगमः, तदा नामि (६.४.३) इत्यनेन अजन्ताङ्गस्य दीर्घः भवति नामि परे | रामाणाम्‌ | न तिसृचतसृ (६.४.४) इत्यनेन तिसृ चतसृ इत्यनयोः नामि दीर्घो न भवति | न तिसृचतसृ (६.४.४) इति सूत्रं नामि (६.४.३) इत्यस्य बाधकसूत्रम्‌ | त्रि + आम्‌ इति स्थितौ त्रेस्त्रयः (७.१.५३) इत्यनेन त्रयादेशः, त्रिचतुरोस्त्रियां तिसृचतसृ (७.२.९९) इत्यनेन तिसृ-आदेशः, द्वयोः प्रसक्तिः | त्रेस्त्रयः (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्‌-प्रत्यये परे | त्रिचतुरोस्त्रियां तिसृचतसृ (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ-आदेशः विभक्तिसंज्ञकप्रत्यये परे | द्वयोः अन्यत्र लब्धावकाशो वर्तते अतः परत्वात्‌ तिसृ-आदेशस्य प्राप्तिः | अत्र ह्रस्वनद्यापो नुट्‌ (७.१.५४) इत्यनेन ह्रस्वात्‌ अङ्गात्‌ आम्‌-प्रत्ययस्य नुट्‌-आगमः → तिसृ + नाम् | तदा नामि इत्यनेन आदिष्टस्य दीर्घत्वं निषिध्यते न तिसृचतसृ (६.४.४) इत्यनेन | तिसृणाम्‌ इति रूपम्‌ |


अस्यां प्रक्रियायां त्रिचतुरोस्त्रियां तिसृचतसृ (७.२.९९) इत्यस्मिन्‌ स्त्रियाम्‌ इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत्‌, तिसृ‌-आदेश-विधायकशास्त्रं बहिरङ्गं भवति त्रेस्त्रयः (७.१.५३) इति त्रयादेश-विधायकशास्त्रं प्रति | त्रिचतुरोस्त्रियां तिसृचतसृ (७.२.९९) इत्यनेन स्त्रियां त्रि-स्थाने तिसृ, चतुर्‍-स्थाने चतसृ, विभक्तिसंज्ञकप्रत्यये परे | त्रेस्त्रयः (७.१.५३) इत्यनेन त्रि-स्थाने त्रयादेशो भवति आम्‌-प्रत्यये परे | उभयत्र परनिमित्तकत्वम्‌ अस्ति, अतः स्त्रियाम्‌ इत्यस्य अर्थनिमित्तकत्वं स्वीक्रियते चेत्‌ त्रिचतुरोस्त्रियां तिसृचतसृ (७.२.९९) इति बहिरङ्गं भवति त्रेस्त्रयः (७.१.५३) इति सूत्रं प्रति | यतोहि त्रेस्त्रयः (७.१.५३) इति सूत्रे किमपि अर्थनिमित्तं नास्ति | अनेन कारणेन अन्तरङ्गत्वात्‌ त्रयादेशस्य प्राप्तिः | अस्यां दशायां तिसृ-आदेशस्य अभावात्‌ तिसृ-आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति; तस्माच्च दीर्घत्वस्य निषेधकसूत्रंं न तिसृचतसृ (६.४.४) व्यर्थम्‌ | तन्न भवेत्‌ |


यदि च त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिसृ-आदेशः उच्येत, तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिसृचतसृ (६.४.४) इत्यस्य अवसरः स्यात्‌ इति कथनेनापि न भवति यतोहि यया रीत्या तिसृ-आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम्‌ अस्ति, तया एव रीत्या तिसृ-आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्‌; अन्तरङ्गत्वात्‌ दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ-आदेशः स्यात्‌, पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति | अस्यां दशायां न तिसृचतसृ (६.४.४) इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव | अस्य निवारणार्थम्‌ अर्थनिमित्तकत्वं न स्वीक्रियते |


स्थानिवद्भावः नाम कः इति चेत्‌, आदेशस्य स्वभावः स्थानिवत्‌ भवति | दृष्टान्ते चतुर्थीविभक्तौ 'राम + ङे' इति स्थितौ ङेर्यः (७.१.१३) इत्यनेन अतः अङात्‌ ङेः यः भवति, नाम अदन्तात्‌ अङ्गात्‌ ङे-प्रत्ययस्य स्थाने 'य'-आदेशो भवति | राम + ङे → राम + य | अत्र सुपि च (७.३.१०२) इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादि-सुप्‌-प्रत्यये परे | सुप्‌-प्रत्याहारे सु इत्यस्मात्‌ आरभ्य सुप्‌ पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः— सु, औ, जस्‌, अम्‌, औट्‌, शस्‌, टा, भ्याम्‌, भिस्‌, ङे, भ्याम्‌, भ्यस्‌, ङसि, भ्याम्‌, भ्यस्‌, ङस्‌, ओस्‌, आम्‌, ङि, ओस्‌, सुप्‌ | अधुना 'य'-आदेशः यद्यपि यञादिः किन्तु सुप्‌ नास्ति अतः सुपि च (७.३.१०२) इत्यस्य प्रसक्तिः न स्यात्‌ | किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावोऽपि तथा | स्थानिनः स्वभावस्य सुपि अध्याहृते य-प्रत्ययस्य सुप्त्वात्‌ सुपि च (७.३.१०२) इत्यस्य प्रसक्तिः भवति | राम + य → सुपि च (७.३.१०२) इत्यनेन अदन्ताङ्गस्य दीर्घादेशः → रामाय इति रूपं सिध्यति | अत्र स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति अतिदेशसूत्रम्‌ | आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बद्धस्य अल्‌-वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत्‌, तुल्यं न भवति |


प्रकृते स्त्रियाम्‌ इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात्‌ त्रयादेशः भवति | त्रि + आम्‌ → त्रेस्त्रयः (७.१.५३) इत्यनेन आमि परे त्रयादेशः → त्रय + आम्‌ → ह्रस्वनद्यापो नुट्‌ (७.१.५४) इत्यनेन ह्रस्वात्‌ अङ्गात्‌ आम्‌-प्रत्ययस्य नुट्‌-आगमः → त्रय + नाम्‌ → नामि (६.४.३) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति नाम्‌-प्रत्यये परे → त्रया + नाम्‌ |


अधुना त्रयादेशस्य अनन्तरं 'त्रया + नाम्‌' इति स्थितौ स्थानिवद्भावेन तिसृ-आदेशः | इत्युक्तौ त्रय इति आदेशः त्रि-शब्दः इव अस्ति, 'त्रि + नाम्‌' | एकदेशविकृतम्‌ अनन्यवत्‌ इति परिभाषया एकदेशविकारः जातश्चेदपि अनन्यवत्‌— अन्यवत्‌ न भवति | अनेन त्रय इत्यस्मिन्‌ दीर्घादेशः (त्रया) इति जातः चेदपि त्रय इतिवत्‌, त्रय इव भवति | अनेन त्रयादेशस्य स्थानिवद्भावेन 'त्रि + नाम्‌' इति स्थितिः |


तस्माच्च त्रिचतुरोस्त्रियां तिसृचतसृ (७.२.९९) इत्यस्य प्रसक्तिः | तिसृ + नाम्‌ | तदा नामि (६.४.३) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति नाम्‌-प्रत्यये परे → अस्यां स्थितौ न तिसृचतसृ (६.४.४) इति दीर्घबाधकसूत्रस्य अवसरः स्यात्‌ | अनेन अस्य सूत्रस्य व्यर्थता वारिता |


परन्तु अर्थनिमित्तकत्वं स्वीक्रियते चेत्‌, यया रीत्या तिसृ-आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम्‌ अस्ति, तया एव रीत्या तिसृ-आदेशस्य अपेक्षया नामि (६.४.३) इत्यनेन दीर्घादेशः अपि अन्तरङ्गं यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति अतः 'त्रया + नाम्‌'; अन्तरङ्गत्वात्‌ दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ-आदेशः स्यात्‌, पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशो न भवति | लक्ष्ये लक्षणन्यायः सूचयति यत्‌ एकस्मिन्‌ लक्ष्ये, लक्षणं नाम सूत्रम्‌, सकृदेव भवति नाम एकवारमेव भवति | अतः तिसृ-आदेशात्‌ पूर्वं तस्मिन्नेव स्थाले दीर्घादेशः भवति चेत्‌, पुनः न भवितुम्‌ अर्हति | अस्यां दशायां न तिसृचतसृ (६.४.४) इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव | अस्य च निवारणार्थम्‌ अर्थनिमित्तकत्वं न स्वीक्रियते |


अत्र स्त्री 'अर्थः' इत्युच्यते | लिङ्गम्‌ अर्थनिष्ठम्‌ इति उच्यते | 'अकारान्त-पुंलिङ्ग-रामशब्दः' इति यथा लिङ्गवत्त्वं वदामः व्यवहारे, तथा वस्तुतः लिङ्गम्‌ अर्थनिष्ठम्‌ | स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते | विशेषयति इत्यस्मात्‌ स्त्रीत्वम्‌ अर्थनिष्ठम्‌ | गुणानां साक्षात्‌ निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते | अर्थः निमित्ततया न गृह्यते; इत्युक्ते विशेष्यतया निमित्ततया न गृह्यते | अपरेषु स्थलेषु प्रदर्श्यते यत्‌ विशेषणतया निमित्ततया गृह्यते— अर्थः सम्पूर्णतया परित्यक्तव्यः इति न उच्यते | किन्तु निमित्तानाम्‌ उपादाने, निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः | अपि च विशेष्यतया गृहीतानि यानि निमित्तानि, तानि एव अत्र ग्राह्याणि | इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते |


तर्हि अग्रे प्रकृतविषये स्योनशब्दप्रसङ्गे, कैयटस्य प्राचीनानां व मतं यत्‌ यथा अर्थनिमित्तकत्वं भवति, तथैव संज्ञानिमित्तकत्वं भवति— संज्ञा अपि एकं निमित्तम्‌ | नागेशः नवीनाः च एतत्‌ न स्वीकुर्वन्ति | अर्थप्रसङ्गे ते वदन्ति— स्त्रीत्वम्‌ अर्थनिष्ठं भवति; स्त्रीत्वं न शब्दः | शब्दशास्त्रे शब्दस्य प्राधान्यं; गुणानां प्राधान्यं न | अर्थः न आश्रीयते, शब्दः एव निमित्ततया आश्रीयते अतः 'स्त्रियाम्‌' इति कथनेऽपि तत्‌ निमित्ततया वक्तुं न शक्यम् | एवमेव नागेशः वदति यत्‌ संज्ञा न शब्दः, अतः संज्ञा न निमित्तम्‌ |


तर्हि ततः परं नागेशस्य मतं भाष्यकारस्य च सिद्धन्तं मनसि निधाय शब्दरूपमेव ग्राह्यम्‌ इति निश्चीयते चेत्‌, यस्य शास्त्रस्य शब्दरूपनिमित्तम्‌ अन्तर्भूतं भवति, तदन्तरङ्गम्‌ | तादृशनिमित्तानां समुदाये यस्य अन्तर्भावः वर्तते, तदन्तरङ्गम्‌ | तदन्तर्भूतञ्च बहुविधम्‌ |


एतदाधारेण उपरि 'सिव्‌ + न' इति स्थितौ संज्ञाकृतनिमित्तगणनेन परिशीलनं न शक्यम्‌ | अग्रे नागेशः वदति यत्‌ कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इति कृत्वा च्छ्वोः शूडनुनासिके च (६.४.१९) नित्यशास्त्रम्‌ | यतोहि तस्य 'सिव्‌ + न' इति स्थितौ अपि प्रसक्तिः, पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणं कृत्वापि 'सेव्‌ + न' इति स्थितौ अपि च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य प्रसक्तिः | किन्तु प्रथमं च्छ्वोः शूडनुनासिके च (६.४.१९) भवति चेत्‌, तदनन्तरं पुगन्तलघूपधस्य च (७.३.८६) भवति न वा इति अग्रे द्रष्टव्यम्‌ |


च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन अनुनासिकादि-प्रत्यये परे वकारस्य स्थाने ऊठ्‌-आदेशः → सिऊ + न → इको यणचि (६.१.७७), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोः द्वयोः प्रसक्तिः |


अत्र युगपत्‌ द्वयोः सूत्रयोः प्रसक्तिः— इको यणचि (६.१.७७) च पुगन्तलघूपधस्य च (७.३.८६) च | इको यणचि (६.१.७६) इत्यनेन इकारस्य स्थाने यकारादेशः, पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः नाम इकारस्य स्थाने एकारादेशः | इमे द्वे सूत्रे एकत्रप्राप्ते, अपि च अन्यत्रान्यत्रलब्धावकाशे अतः तयोः तुल्यबलविरोधः | तस्मात्‌ विप्रतिषेधे परं कार्यम्‌ (१.४.२) इत्यस्य प्रसक्तत्वात्‌ पुगन्तलघूपधस्य च (७.३.८६) परत्वात्‌ बलवत्‌ | अपि च वार्णादाङ्गं बलीयः इति परिभाषया तस्य बलम्‌ |


'सिऊ + न' इति स्थितौ इको यणचि (६.१.७७) इत्यस्मिन्‌ ऊकारः निमित्तं, पुगन्तलघूपधस्य च (७.३.८६) इत्यस्मिन् 'न' इति आर्धधातुकप्रत्ययः निमित्तम्‌ | नाम गुणास्य निमित्तं नप्रत्ययपर्यन्तसमुदायः; यण्‌-आदेशस्य निमित्तम्‌ ऊकारः एव | स च ऊकारः नप्रत्ययपर्यन्तसमुदायस्य अन्तर्भूतः | 'न' च अत्र सि-ऊ-समुदायापेक्षया बहिर्भूतः | इको यणचि (६.१.७७) इति शास्त्रस्य निमित्तं पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य निमित्तस्य अन्तर्भूतम्‌ इति कारणतः इको यणचि (६.१.७७) अन्तरङ्गशास्त्रम्‌ | अन्तरङ्गत्वात्‌ पुगन्तलघूपधस्य च (७.३.८६) इति शास्त्रम्‌ असिद्धम्‌ | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया इको यणचि (६.१.७७) इत्यस्य प्रवर्तनप्रसङ्गे पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य अस्तित्वमेव नास्ति |


सिऊ + न → इको यणचि (६.१.७६) → स्यू + न → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्योन इति शब्दः निष्पन्नः |


अत्र पूर्वोपस्थितनिमित्तकत्वम्‌ इत्युच्यते | नाम लघूपधगुणस्य निमित्तापेक्षया यणादेशस्य निमित्तं पूर्वोपस्थितम्‌ अस्ति | लघूपधगुणस्य निमित्तं न-प्रत्ययः | तदपेक्षया ऊकारः पूर्वः [सि-ऊ-न] | सि-ऊ इति पर्याप्तं भवति यणादेशस्य कृते, किन्तु सि-ऊ-न अपेक्षते लघूपधगुणं प्रति; अतः पुगन्तलघूपधस्य च (७.३.८६) इति शास्त्रनिमित्तापेक्षया यणादेशशास्त्रस्य निमित्तं पूर्वम्‌ उपस्थितम्‌ | अनेन पूर्वोपस्थितनिमित्तकत्वम्‌ |


अधुना पुनः अवलोकनीयं यत्‌ 'सिव्‌ + न' इति मूलस्थितौ यत्र द्वयोः सूत्रयोः प्रसक्तिः— च्छ्वोः शूडनुनासिके च (६.४.१९), पुगन्तलघूपधस्य च (७.३.८६) | अधुना एव ज्ञातं यत् सिऊ + न → इको यणचि (६.१.७७), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोः मध्ये इको यणचि (६.१.७७) इति अन्तरङ्गशास्त्रं यस्मात्‌ पुगन्तलघूपधस्य च (७.३.८६) इति शास्त्रम्‌ असिद्धम्‌ | अनेन ज्ञायते यत्‌ 'सिव्‌ + न' इति स्थितौ पुगन्तलघूपधस्य च (७.३.८६) नित्यं नास्ति यतोहि च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन 'सिऊ + न' इति भवति चेत्‌, तदानीं पुगन्तलघूपधस्य च (७.३.८६) इत्यस्य प्राप्तिर्नास्ति | तस्मात्‌ उच्यते यत्‌ 'सिव्‌ + न' इति स्थितौ नित्यत्वात्‌ च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य प्राप्तिः |


इको यणचि (६.१.७६) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे अकः सवर्णे दीर्घः इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इकः यण्‌ अचि संहितायाम्‌ |


२) अपरनिमित्तकम्‌ अन्तरङ्गम्‌


यस्य शास्त्रस्य परं निमित्तं नास्ति, तत्‌ अपरनिमित्तकं भवति | आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वं भवति | तत्र अशिति इत्यनेन आत्त्वप्रतिषेधः; नाम शिति कार्यं न भवति | तथा च उपदेशे एजन्तस्य धातोः आत्त्वं भवति; कस्मिन् परे ? इति चेत्‌, किमपि नोक्तम्‌ | एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति, तदपरनिमित्तकम्‌ अस्ति |


अत्र धेयं यत्‌ 'अशित्त्वं भवेत्‌' इति नोक्तम्‌; अशिति प्रत्यये परे इति नोक्तम्‌; शिति न भवति इत्युक्तम्‌ | अतः निषेधार्थः | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्‌—

प्रथमं वाक्यम्‌ = उपदेशे एजन्तस्य धातोः आत्त्वं भवति | इति एकः अर्थः |

द्वितीयं वाक्यम्‌ = उपदेशे एजन्तस्य धातोः शिति प्रत्यये परे आत्त्वं न भवति | इति द्वितीयः अर्थः |


प्रथमे अर्थे किमुक्तम्‌ ? उपदेशे एजन्तस्य धातोः आत्त्वं भवति | कस्मिन्‌ परे ? नोक्तम्‌ | द्वितीये अर्थे तु शिति परे निषेधः | एवं च निषेधस्य निमित्तम्‌ अस्ति किन्तु विधिं प्रति निमित्तं नास्ति | तर्हि निषेधांशे निमित्तं वर्तते; विध्यंशे निमित्तं नास्ति |


एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः— एकञ्च अपरनिमित्तकम्‌, अन्यस्य च निमित्तम्‌ अस्ति— तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गम्‌ | तदर्थम्‌ आदेच उपदेशेऽशिति (६.१.४५) इति शास्त्रम्‌ अन्यत्‌ शास्त्रं प्रति अन्तरङ्गं भवति |


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्‌ | उपदेशावस्थायाम्‌ एजन्तधातूनाम्‌ अन्त्यस्य एचः स्थाने आत्वादेशः अशिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


एवं च परिभाषेन्दुशेखरे ग्रन्थकारः वदति, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्‌ | 'अन्तर्भूतानि अङ्गानि' अत्र अन्तर्भूतत्वं बहुविधम्‌ अस्ति | अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितम्‌ | कदाचि‌त्‌ पूर्वोपस्थितनिमित्तकतया भवति, कदाचित्‌ अपरनिमित्तकतया भवति, कदाचित्‌ तदीयसमुदायमध्ये भवति, कदाचित्‌ एकपदवर्णद्वयापेक्षतया भवति | अतः व्याख्यायां 'निमित्तानाम्‌ अन्तर्भावश्च' इत्यारभ्य लिखितम्‌ अस्ति |


c) एकं सूत्रम्‌ औत्सर्गिकं (सामान्यम्‌), अन्यत्‌ अपवादभूतम्‌ अस्ति चेत्‌, अपवादः बलवान्‌ | उदाहरणम्‌ उपरि दत्तम्‌—वृद्धिरेचि (६.१.८८), आद्‌गुणः (६.१.८७) इति सूत्रस्य अपवादः | अतः यद्यपि वृद्धिरेचि परसूत्रं, तथापि विप्रतिषेधे परं कार्यम्‌ इत्यनेन तस्य कार्यं न सिध्यति | अनया परिभाषया सिध्यति, आद्‌गुणः इत्यस्य अपवादत्वात्‌ |


पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषायाः प्रथमपदद्वयं—पूर्वपरविप्रतिषेधे परं कार्यम्‌ इत्यस्य तात्पर्यम्‌ | तस्याः अग्रिमेण तत्त्वत्रयेण—नित्यान्तरङ्गापवाद—इत्यनेन विप्रतिषेधे परं कार्यम्‌ इति सूत्रंं निषिध्यते | नाम नित्यान्तरङ्गापवाद एषु अन्यतमः अस्ति चेत्‌, तुल्यबलविरोधः नैव भवति | तुल्यबलविरोधाभावे परसूत्रस्य कार्यं पूर्वं न भवति | (तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम्‌ अर्हति, किन्तु नित्यान्तरङ्गापवाद इति शास्त्रेण; विप्रतिषेधे परं कार्यम्‌ इत्यनेन न |)


अधः अस्माकं वसुधा-भगिनी अस्याः परिभाषायाः सिद्धान्तं सुन्दरतया निरूपितवती !




अधः अस्माकं विजयलक्ष्मी- भगिनि अस्याः परिभाषायाः सिद्धान्तं सुन्दरतया निरूपितवती !


बलाबलसङ्क्षेपः



४. पूर्वत्रासिद्धम्‌' (८.२.१) = अनेन सूत्रेण अष्टाध्याय्यी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति, तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि | अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि | सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम्‌ अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌, असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रम्‌ अधिकारसूत्रम्‌; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते |


पूर्वत्रासिद्धम्‌ इत्यस्य कार्यं द्विविधं— शास्त्रासिद्धं, कार्यासिद्धं च | द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्‌, परत्रिपादिसूत्रं स्वयम्‌ असिद्धम्‌ इति कारणात्‌ शास्त्रासिद्धम्‌ इत्युच्यते | पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत्‌ किमपि क्रियते तत्‌ पूर्वत्रासिद्धम्‌ इत्यनेन असिद्धम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |



1. शास्त्रासिद्धम्‌ - द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्‌, परत्रिपादिसूत्रं स्वयम्‌ असिद्धम्‌ इति कारणात्‌ शास्त्रासिद्धम्‌ इत्युच्यते | अस्य बहूनि उदाहरणानि सन्ति |


a) यथा हल्‌-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम्‌ | अतः एकत्र हल्‌-सन्धि-विधायकसूत्रद्वयम्‌ आयाति चेत्‌, परसूत्रस्य असिद्धत्वात्‌ पूर्वसूत्रम्‌ आगत्य कार्यं करोति | यत्‌ + जायते → झलां जशोऽन्ते (८.२.३९), स्तोः श्चुना श्चुः (८.४.४०) एकत्र आयातः → स्तोः श्चुना श्चुः इत्यस्य असिद्धत्वात् झलां जशोऽन्ते पूर्वं भवति → यद् + जायते → स्तोः श्चुना श्चुः इत्यनेन श्चुत्वम्‌ → यज्‌ + जायते → यज्जायते | एवमेव सर्वाणि हल्‌-सन्धि-सूत्राणि |

हल्‌-सन्धि सूत्रक्रमः
सन्धिः सूत्रसंख्या सूत्रम्‌ लघु संख्या
जश्त्वसन्धिः ८.२.३९ झलां जशोऽन्ते ६७
यवलोपसन्धिः ८.३.१९ लोपः शाकल्यस्य ३०
अनुस्वारसन्धिः ८.३.२३

८.३.२४

मोऽनुस्वारः

नश्चापदान्तस्य झलि

७७

७८

ङमुडागमसन्धिः ८.३.३२ ङमो ह्रस्वादचि ङमुण्‌ नित्यम्‌ ८९
श्चुत्वसन्धिः ८.४.४० स्तोः श्चुना श्चुः ६२
ष्टुत्वसन्धिः ८.४.४१ ष्टुना ष्टुः ६४
अनुनासिकसन्धिः ८.४.४५ यरोऽनुनासिकेऽनुनासिको ६८
चर्त्वसन्धिः ८.४.५५ खरि च ७४
परसवर्णसन्धिः ८.४.५८

८.४.५९

८.४.६०

अनुस्वारस्य ययि परसवर्णः

वा पदान्तस्य

तोर्लि

७८

८०

६९

१० पूर्वसवर्णसन्धिः ८.४.६२ झयो होऽन्यतरस्याम्‌ ७५
११ छत्वसन्धिः ८.४.६३ शश्छोऽटि ७६


b) मनोरथः | मनसः इच्छा, अभिलाषा |


मनस्‌ + रथ → ससजुषो रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशः → मन + रु + रथ → अनुबन्धलोपे → मनर्‌ + रथ → रो रि (८.३.१४), हशि च (६.१.११४) → रो रि इत्यनेन रेफस्य लोपस्य असिद्धत्वात्‌ हशि च इत्यनेन रेफस्य उकारादेशः → मन + उ + रथ → आद्‌गुणः (६.१.८७) इत्यनेन गुणादेशः → मनो + रथ → वर्णमेलने → मनोरथ


रो रि (८.३.१४) = रेफस्य रेफे परे लोपो भवति |

हशि च (६.१.११४) = हशि परे अतः उत्तरस्य रेफस्य उकारादेशो भवति |


c) मो‍ऽनुस्वारः (८.३.२३), समः सुटि (८.३.५)


कृ + क्तिन्‌ → कृति → सम्‌ + कृति → सम्पर्युपेभ्यां करोतौ भूषणे इत्यनेन सुट्‌-आगमः → सम्‌ + सुट् + कृति → अनुबन्धलोपे → सम्‌ + स्‌ + कृति → मो‍ऽनुस्वारः इत्यनेन म्‌-स्थाने अनुस्वारादेशः → परन्तु मो‍ऽनुस्वारः (८.३.२३), समः सुटि (८.३.५) च त्रिपादि-सूत्रे स्तः | अतः पूर्वत्रासिद्धिम्‌ इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति; परसूत्रम्‌ असिद्धम्‌ → समः सुटि इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → उपदेशेऽजनुनासिका इत्‌ इत्यनेन उकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन लोपश्च → सर्‍ स्कृति → अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अँ-आदेशः → विपक्षे अनुनासिकात्‌ परोऽनुस्वारः इत्यनेन अनुस्वारागमः → सँर्‍ स्कृति / संर्‌ स्कृति → खरवसानयोर्विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |


2. कार्यासिद्धम्‌ - पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत्‌ किमपि क्रियते तत्‌ पूर्वत्रासिद्धम्‌ इत्यनेन असिद्धम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |


उभौ + अपि → एचोऽयवायावः (६.१.७८) इत्यनेन यान्तवान्तादेशसन्धिः → उभावपि → लोपः शाकल्यस्य (८.३.१९) इत्यनेन विकल्पेन वकार-लोपः → उभा अपि → सवर्णदीर्घसन्धिः अकः सवर्णे दीर्घः (६.१.१०१) इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्‌ अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यासिद्धत्वात्‌ | उभा अपि |


बालः इह विसर्गसन्धिः | अत्रापि तथा | बाल + सु + इह → अनुबन्धलोपे → बालस्‌ + इह → ससजुषो रुः → बाल + रु + इह → अनुबन्धलोपे बालर्‌ + इह → भोभगोअघोअपूर्वस्य योऽशि → बालय्‌ + इह → लोपः शाकल्यस्य (८.३.१९) इत्यनेन विकल्पेन यकार-लोपः → बाल इह → आद्‌गुणः (६.१.८७) इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातं अतः अत्र गुणसन्धिः न प्रवर्तते कार्यासिद्धत्वात्‌ | बाल इह |


भट्टोजिदीक्षितमहाभागेन (सिद्धान्तकौमुद्याः लेखकेन) इदं सिद्धान्तद्वयं प्रणीतम्‌ | सर्वे न मन्यन्ते, तेषु माता अन्यतमा | तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति |


धेयं यत्‌ पूर्वत्रासिद्धम्‌ इति सूत्रं विप्रतिषेधे परं कार्यम्‌ इत्यस्य अपवादो नास्ति | विप्रतिषेधे परं कार्यम्‌ इत्यनेन परशास्त्रस्य कार्यं भवति | 'पूर्वत्रासिद्धम्‌' इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम्‌ असिद्धम्‌ | सुतरां विरुद्धम्‌ | अत्र सामान्य-विशेषयोरुदाहरणं न | अतः द्वयोः कृते पृथक्‌-पृथक्‌ मार्गः कल्पनीयः, इत्याशेन किं कृतम्‌ ? विप्रतिषेधे परं कार्यम्‌ इति सूत्रं केवलं सपादसप्ताध्याय्याम्‌ एव प्रवर्तते | त्रिपाद्यां विप्रतिषेध विचारः नास्ति, यतोहि तत्र परशास्त्रमेव नास्ति, उत्तरस्य अभावात्‌, परशास्त्राणाम्‌ अभावात्‌ | अपि च पूर्वत्रासिद्धम्‌ इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्‌ |


५. वार्णादाङ्गं बलीयः | [परिभाषा ५५] – वर्णस्य इदं वार्णम्‌; वर्णं निमित्तीकृत्य जायमानं कार्यम्‌ | वर्णसम्बद्धं वार्णम्‌ | अङ्गस्य इदम्‌ आङ्गम्‌ | अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम्‌ आङ्गम्‌ | अङ्गसम्बद्धम्‌ आङ्गम्‌ | वर्णनिमित्तिक-कार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्‌ |


प्रत्यय = प्रति + इ + अच्‌ | एरच्‌ (३.३.५६) |


प्रति + इ + अ → अ-प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति → प्रति + ए + अ → एचोऽयवायावः (६.१.७८) इत्यनेन यान्तवान्तादेशसन्धिः → प्रति + अय्‌ + अ → इको यणचि (६.१.७७) इत्यनेन यणादेशः → प्रत्य्‌ + अय्‌ + अ → वर्णमेलने → प्रत्ययः |


एवम्‌ अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत्‌—


प्रति + इ + अ → अकः सवर्णे दीर्घः (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिः → प्रती + अ → अ-प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति → प्रते + अ → एचोऽयवायावः इत्यनेन यान्तवान्तादेशसन्धिः → प्रतय्‌ + अ → प्रतयः | दोषपूर्णरूपं सिद्धम्‌ |


६. अभ्यासः


अत्र सन्ति त्रीणि तिङन्तपदानि—


शक्नु + अन्ति → शक्नुवन्ति

चिनु + अन्ति → चिन्वन्ति

कुरु + अन्ति → कुर्वन्ति


एषां रूपाणां निष्पादनार्थम्‌ अधः प्रासङ्गिकसूत्राणि दत्तानि | बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम्‌ इति निर्णीयताम्‌ | वर्गे अस्मिन्‌ विषये चर्चयिष्यामः; तत्पश्चत्‌ अत्रैव समाधानं लेखिष्यते |


a) "अन्ति" इत्यस्य प्रत्यय-सिद्धिः


परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः—


तिप्‌ तस्‌ झि

सिप्‌ थस्‌ थ

मिप्‌ वस्‌ मस्‌‍


झोऽन्तः (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌ प्रत्ययस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य प्रत्ययस्य झः अन्तः |


झि - झि → झ्‌ + इ → झोऽन्तः (७.१.३) इत्यनेन 'झ्‌'-स्थाने अन्त्‌-आदेशः → अन्त्‌ + इ → 'अन्ति' इति लट्‌ प्रत्ययः निष्पन्नः |


b) अङ्ग-व्युत्पत्तिः


स्वादिगणे विकरणप्रत्ययः श्नु | स्वादिभ्यः श्नुः (३.१.७३) | लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपः | नु इति अवशिष्यते |


शक्‌ + नु → शक्नु → शक्नु + अन्ति → शक्नुवन्ति

चि + नु → चिनु → चिनु + अन्ति → चिन्वन्ति


तनादिगणे तनादिकृञ्भ्यः उः (३.१.७९) इति सूत्रेण उ विकरण-प्रत्ययः विहितः भवति |


कुरु + अन्ति → कुर्वन्ति


कृ-धातोः अङ्गद्वयम्‌


१) पित्सु प्रत्ययेषु — कृ + उ → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इकः गुणः → कर्‍ + उ → करु इति अङ्गम्‌ |

२) अपित्सु प्रत्ययेषु — अत उत्सार्वधातुके (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः | करु‌ → कुरु इति अङ्गम्‌ |


अन्ति (झि) अपित्‌ अस्ति अतः अङ्गम्‌ अत्र 'कुरु' | तर्हि कुरु + अन्ति → कुर्वन्ति |


अत उत्सार्वधातुके (६.४.११०) = उप्रत्ययान्तकृ-धातोः ह्रस्व-अकारस्य स्थाने उकारादेशो भवति किति ङिति सार्वधातुक-प्रत्यये परे | अतः षष्ठ्यन्तम्‌, उत्‌ प्रथमान्तं, सार्वधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्मात्‌ उतः, प्रत्ययात्‌ चेत्यनयोः अनुवृत्तिः | विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तं कृत्वा उतः प्रत्ययस्य → येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उ इति प्रत्ययः → उप्रत्ययान्तस्य (अङ्गस्य) | नित्यं करोतेः (६.४.१०८) इत्यस्मात्‌ करोतेः इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत्‌ क्क्ङिति सार्वधातुके |


c) प्रासङ्गिकसूत्राणि


अत्र अस्माकं चिन्तनं भवतु | १) शक्नु + अन्ति → शक्नुवन्ति; २) चिनु + अन्ति → चिन्वन्ति; ३) कुरु + अन्ति → कुर्वन्ति | एषां निष्पादनार्थम्‌ अधस्तनेषु सूत्रेषु केषां प्रसक्तिः, अपि च कस्मिन्‌ क्रमे | अत्र बलाबलस्य परिशीलनम्‌ अपेक्षितम्‌ |


इको यणचि (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इकः यण्‌ अचि संहितायाम्‌ |


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि |


हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशो भवति अजादि-सार्वधातुकप्रत्यये परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; इणो यण्‌ (६.४.८१) इत्यस्मात् यण्‌ इत्यस्य अनुवृत्तिः; एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यस्मात्‌ अनेकाचः, असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः; ओः सुपि (६.४.८३) इत्यस्मात् ओः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्अचि सार्वधातुके |


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) = यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | श्‌ इत्‌ यस्य सः शित्‌, बहुव्रीहिः | तिङ्‌ च शित्‌ च तयोः समाहारद्वन्द्वः तिङ्‌शित्‌ | तिङ्‌शित्‌ प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम्‌ अधिकारः) | अनुवृत्ति-सहितसूत्रम्‌— धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌ |


सार्वधातुकमपित्‌ (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌ (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


सार्वधातुकलकारेषु "पित्सु गुणः, अपित्सु गुण-निषेधः" इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः | शित्‌ प्रत्ययाः सार्वधातुकसंज्ञकाः | तेषु ये पित्‌ अपि सन्ति, तेषां द्वारा गुणकार्यं सम्भवति | ये अपित्‌ सन्ति (नाम ये पित्‌ न सन्ति), तेषां द्वारा गुणकार्यं निषिद्धं-- न सम्भवति एव | तर्हि यः प्रत्ययः शित्‌ अपि अस्ति, पित्‌ अपि अस्ति तस्य एव द्वारा गुणगार्यं सिध्यते | विकरणप्रत्ययेषु कः प्रत्ययः शित्‌ अपि पित्‌ अपि अस्ति ? केवलं शप्‌ | श्यन्‌, श्नु, श, श्नम्‌, श्ना च शित्‌ सन्ति किन्तु अपित्‌ सन्ति, अतः तेषाम्‌ उपस्थितौ गुणकार्यं निषिद्धम्‌ | तर्हि शप्‌ कुत्र लभ्यते ? केवलं भ्वादिगणे चुरादिगणे च | धातुः अङ्गं मनसि निधाय, अङ्गकार्ये गुणः सम्भवति केवलं भ्वादिगणे चुरादिगणे च | भ्वादिगणे यत्र धातुः इगुपधः वा इगन्तः वा, तत्र अङ्गे गुणकार्यं भवति | चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित्‌ भिन्नः यतः शप्‌-इत्यस्मात्‌ पूर्वं णिच्‌ भवति | णिचि अनुबन्धलोपं कृत्वा "इ" इत्येव अवशिष्यते; तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति |


अत्र प्रश्नः उदेति— इको यणचि (६.१.७७) इति सूत्रं यदा बाधितं भवति सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन, तदा एकवारं यदा गुणनिषेधो भवति क्क्ङिति च (१.१.५) , तत्पश्चात्‌ पुनः इको यणचि (६.१.७७) इत्यस्य प्राप्तिः कथं वा स्यात्‌ ? अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्‌— पुनः प्रसङ्गविज्ञानात्सिद्धम्‌ (३९), सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव (४०) च |


इति अष्टाध्यायी-सूत्राणां बलाबलस्य परिचयः |


०७_-_अष्टाध्याय्यां_सूत्राणां_बलाबलम्‌.pdf ‎


Swarup – July 2014 (updated May 2017)




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.