पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्
पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः अर्थः – सूत्रपाठक्रमे पूर्वपठितानि विशेषशास्त्राणि स्व-अव्यवहितानि सामान्यशास्त्राणि एव बाधन्ते न तु व्यवहितानि | यथा सूत्रपाठक्रमे एत्येधत्यूठसु ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रं एङि पररूपं ( ६.१.९४), अतः तदेव बाधते न तु व्यवहितम् ओमाङोश्च (६.१.९५) इति पररूपम् |
उदाहरणम् –
१) अव + आ + इहि इति स्थितिः | इण् गतौ इति धातुतः लोट्लकारे मध्यपुरुषे एकवचने हि इति प्रत्ययं योजयित्वा इहि इति रूपं लभ्यते | महाभाष्ये उक्तम् अस्ति यत् धातूपसर्गयोः (आ + इण् + हि) अन्तरङ्गत्वात् आ + इहि इति प्रथमं कार्यं करणीयम् | आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह आद्गुणः (६.१.८७) इत्यनेन सूत्रेण गुणैकादेशे कृते एहि इति रूपं प्राप्यते | अव + एहि इति लब्धम् |
अव + एहि इति स्थितौ बहूनि सूत्राणि प्रसक्तानि | अत्र सूत्रक्रमः एवमसति -
सूत्रक्रमः | सूत्रार्थः | सम्बन्धः |
---|---|---|
वृद्धिरेचि (६.१.८८) | अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । अत्र + एव = अत्रैव । | उत्सर्गसूत्रम् |
एत्येधत्यूठ्सु (६.१.८९) | अवर्णात् इण्-धातोः, एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । उप + एति = उपैति । | इदं सूत्रम् एङि पररूपं ( ६.१.९४) इत्यस्य अपवादः । |
एङि पररूपं ( ६.१.९४) | अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति । प्र + एजते = प्रेजते । 'एजते' इति एजृ (दीप्तौ, १.२६३) धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । | इदं सूत्रं वृद्धिरेचि (६.१.८८) इत्यस्य अपवादः । |
ओमाङोश्च (६.१.९५) | अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति । शिवाय ओम् नमः = शिवायोम् नमः । | इदं सूत्रं वृद्धिरेचि (६.१.८८) इत्यस्य अपवादः । |
अव + एहि इति स्थितौ वृद्धिरेचि (६.१.८८) इति सूत्रम् आदौ प्रसक्तम् अस्ति किन्तु तत्सूत्रं प्रबाध्य एङि पररूपं (६.१.९४) इत्यनेन पररूपादेशः प्राप्तः अस्ति यतोहि अन्तादिवच्च (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः सः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च इण् इत्यस्य धातुत्वं स्वीक्रियते, अपि च तत् इदानीं एजादिः अपि अस्ति | किन्तु एङि पररूपं (६.१.९४) इति सूत्रं बाधित्वा एत्येधत्यूठ्सु (६.१.८९) इत्यनेन वृद्ध्येकादेशः प्राप्तः अस्ति यतोहि अन्तादिवच्च (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः सः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च इण् इति धातुत्वं स्वीक्रियते | अधुना ओमाङोश्च (६.१.९५) इत्यनेन पररूपादेशः अपि प्राप्तः अस्ति यतोहि अन्तादिवच्च (६.१.८४) इत्यनेन एहि इत्यत्र यः एकारः सः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते | अन्तादिवच्च (६.१.८४) इत्यनेन 'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति | एत्येधत्यूठ्सु (६.१.८९) इति सूत्रं यथा एङि पररूपं (६.१.९४) इति सूत्रस्य अपवादः तथा ओमाङोश्च (६.१.९५) इत्यस्यापि अपवादः अस्ति वा?
एत्येधत्यूठ्सु (६.१.८९) इति विशेषसूत्रम् अस्ति, एङि पररूपं (६.१.९४) इति सामान्यशास्त्रम् अस्ति | अतः एत्येधत्यूठ्सु (६.१.८९) इति विशेषसूत्रम् स्वस्मात् अव्यवहितस्य परस्य एङि पररूपं (६.१.९४) इति सामान्यसूत्रस्य बाधां करोति न तु व्यवहितस्य ओमाङोश्च (६.१.९५) इति सूत्रस्य कार्यम् | पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति पारिभाषायाः बलेन अत्र ओमाङोश्च (६.१.९५) इत्यनेन पररूपमेव भवति न तु वृद्धिः एत्येधत्यूठ्सु (६.१.८९) इति सूत्रेण | अतः अवेहि इति रूपं लभ्यते |
पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति अनया परिभाषया सूत्रपाठक्रमे पूर्वं पठितानि विशेषसूत्राणि स्व-अव्यवहितानि एव सामान्यशास्त्राणि बाधन्ते, न तु व्यवहितानि इति परिभाषार्थः | प्रकृते सूत्रपाठक्रमे एत्येधत्यूठ्सु ( ६.१.८९) इति विशेषशास्त्रं, तदव्यवहितसामान्यशास्त्रम् = एङि पररूपम् ( ६.१.९४) इति सामान्यशास्त्रम्, अतः तदेव सूत्रं बाधते नतु व्यवहितम् ओमाङोश्च ( ६.१.९५) इति पररूपम् । तेन अव + एहि ( आ+ इहि) इत्यत्र ओमाङोश्च इति पररूपमेव भवति, न तु वृद्धिः |
बाधकशास्त्रस्य ( विशेषशास्त्रस्य) आकाङ्क्षा जायते मम बाध्यं किम् इति ? तदा प्रथमोपस्थितत्वाद् अनन्तरं शास्त्रमन्वेति | अतः आकाङ्क्षा शान्ता | तदनन्तरं विद्यमानं शास्त्रं न बाधते आकाङ्क्षायाः अभावात् | किञ्च व्यवहितस्यापि बाधे विप्रतिषेधे परं कार्यम् (१.४.२) इति शास्त्रस्य बाधकल्पना वक्तव्या यतोहि तेन सूत्रेण परशास्त्रस्य प्राबल्यं बोध्यते, अनेन बाधकशास्त्रस्य पूर्वशास्त्रस्य प्राबल्यबोधेन विरोधः स्पष्टः एव |
२) रात्राह्नाहाः पुंसि ( २.४.२९)
सूत्रक्रमः | |
---|---|
स नपुंसकम् ( २.४.१७) (अपवादसूत्रम्) | समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् | यस्य अयम् एकवद्भावः विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च | परवल्लिङ्गपवादः | यथा पञ्चगवं, दन्तोष्ठम् | |
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) | परस्य यल्लिङ्गं तद् भवति द्वन्द्वस्य तत्पुरुषस्य च | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वाद् इतरेतरयोगद्वन्द्वस्य इदं ग्रहणम् | यथा कुक्कुटमयूर्यौ इमे, मयूरीकुक्कुटौ इमौ | |
रात्राह्नाहाः पुंसि ( २.४.२९) | रात्र अह्न अह इत्येते पुंसि भाष्यन्ते | परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः इदं वचनम् | यथा अहोरात्रः, पूर्वरात्रः, पूर्वाह्णः, द्व्यहः | परवल्लिङ्गपवादः; परत्वात् सं नपुंसकम् इत्यस्य समाहारनपुंसकतां बाधते | संङ्ख्यापूर्वं रात्रं क्लीबम् - द्विरात्रं, त्रिरात्रं, गणरात्रम् | |
यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र, अहन्, अह च भवति तत्र युगपत् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६), रात्राह्नाहाः पुंसि ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | समाहारद्वन्द्वः वा समाहारद्विगुः चेत् सः नपुंसकम् ( २.४.१७) इति अपवादसूत्रस्यापि प्रसक्तिः भवति |
अत्र पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषा प्रवर्तते | अर्थात् पूर्वमेव यः अपवादः अस्ति सः अनन्तरस्य विधिं बाधते न तु उत्तरस्य | अपवादसूत्रं समीपवर्तिनं बाधते | सः नपुंसकम् ( २.४.१७) इति अपवादसूत्रं पूर्वमस्ति, अतः तत् समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन सः नपुंसकम् ( २.४.१७) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति परसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | सः नपुंसकम् ( २.४.१७) इति सूत्रं रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रस्य अपवादः नास्ति यतोहि तत् समीपवर्ति नास्ति | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसि (पुंलिङ्गे) इत्यर्थः | रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रम् अनन्तरत्वात् परवल्लिङ्गतापवादः अपि परत्वात् समाहारनपुंसकतां बाधते, अर्थात् सः नपुंसकम् ( २.४.१७) इति सूत्रमपि बाधते | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, तां बाधित्वा रात्राह्नाहाः पुंसि ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | रात्राह्नाहाः पुंसि ( २.४.२९) इति अनन्तरविधिः समीपवर्तिनं बाधते अतः परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रमेव बाधते | अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः बलेन रात्राह्नाहाः पुंसि ( २.४.२९) इति अनन्तरविधिः समीपवर्तिनं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रमेव बाधते |
अहश्च रात्रिश्च इति इतरेतरद्वन्द्वे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तम् अस्ति, तत् बाधित्वा रात्राह्नाहाः पुंसि ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अत्रः समाहारे नास्ति इत्यतः सः नपुंसकम् ( २.४.१७) इति सूत्रस्य प्रसक्तिः एव नास्ति |
अहश्च रात्रिश्च अनयोः समाहारः इति समाहारद्वन्द्वे स नपुंसकम् ( २.४.१७) इति अपवादसूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रं बाधते पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन, न तु रात्राह्नाहाः पुंसि ( २.४.२९ इति उत्तरसूत्रम् | अतः अत्र समासः नपुंसकलिङ्गे स्यात् | किन्तु अत्र रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रमपि प्राप्तम् अस्ति | स नपुंसकम् ( २.४.१७), रात्राह्नाहाः पुंसि ( २.४.२९) च इति अनयोः द्वयोः अपि अन्यत्रान्यत्रलब्धावकाशः वर्तते इत्यतः विप्रतिषेधे परं कार्यम् ( १.४.२) इत्यनेन परत्वात् रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रेण समासस्य पुंस्त्वं भवति | अतः अहोरात्रः इति समासः पुंलिङ्गे भवति | समाहारद्वन्द्वे रात्राह्नाहाः पुंसि ( २.४.२९) इति अनन्तरविधिः स नपुंसकम् ( २.४.१७) इति सूत्रं न बाधते अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः बलेन यतोहि स नपुंसकम् ( २.४.१७) इति सूत्रं समीपवर्तिनं नास्ति | अत्र समीपवर्तिसूत्रं तु परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इति सूत्रमेव इत्यतः तदेव सूत्रं बाधते रात्राह्नाहाः पुंसि ( २.४.२९) इति अनन्तरविधिः | रात्राह्नाहाः पुंसि ( २.४.२९) इति परसूत्रम् अस्ति स नपुंसकम् ( २.४.१७) इत्यस्य अपेक्षया, इत्यतः समाहारद्वन्द्वे रात्राह्नाहाः पुंसि ( २.४.२९) इति सूत्रमेव प्रवर्तते परत्वात् विप्रतिषेधे परं कार्यं (१.४.१) इत्यस्य आधारेण |
रात्राह्नाहाः पुंसि ( २.४.२९) = यदा समासस्य उत्तरपदं रात्र, अहन्, अह च अस्ति, तथा च समासान्तप्रत्ययः कृतः, तदा द्वन्द्वतत्पुरुषसमासः पुंलिङ्गे भवति | एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव | रात्र, अह्न, अह इत्येतानि उत्तरपदानि चेत् अपि च समासान्तं कृत्वा निर्मिताः द्वन्द्वतत्पुरुषाः चेत् पुंलिङ्गे भवन्ति | परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम् | द्वन्द्वतत्पुरुषाः इति विशेषणत्वात् येन विधिस्तदन्तस्य (१.१.७२) इति परिभाषासूत्रं प्रवर्तते | अतः तदन्तविधिः भवति | द्वन्द्वतत्पुरुषयोः इत्यनुवृत्तं, प्रथमाबहुवचनेन विपरिणतं , रात्रादिभिः विशेष्यते, तदन्तविधिः | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | फलितमाह — एतदन्ताविति | परवल्लिङ्गतापवादः | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ( २.४.२६) इत्यस्मात् सूत्रात् द्वन्द्वतत्पुरुषयोः इत्यस्य अनुवृत्तिः, बहुवचने परिणामं कृत्वा द्वन्द्वतत्पुरुषाः इति भवति | अनुवृत्ति-सहितसूत्रम्— द्वन्द्वतत्पुरुषाः रात्राह्नाहाः पुंसि | यथा - पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः |
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति | उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते | स नपुंसकम् ( २.४.१७) इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे | द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वतत्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः | परवत् अव्ययं, लिङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् |
स नपुंसकम् ( २.४.१७) = समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् | परवल्लिङ्गपवादः इदं सूत्रम् | पञ्चगवम् । दन्तोष्ठम् | स प्रथमान्तं, नपुंसकं प्रथमान्तम् | सः इति पदस्य द्वारा द्विगुरेकवचनम् (२.४.१) इत्यस्मात् द्विगुः, तथा द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इत्यस्मात् द्वन्द्वः इत्यस्य परामर्शः क्रियते | द्विगुरेकवचनम् (२.४.१) इत्यस्मात् सूत्रात् विभाषा समीपे ( २.४.९६) इति पर्यन्तं एकवद्भावप्रकरणम् अस्ति | द्विगुरेकवचनम् (२.४.१) इत्यस्मात् एकवचनम् इत्यस्य अनुवृत्तिः | प्रकृतसूत्रे सः इति पदेन एकवद्भावप्रकरणस्थेभ्यः सूत्रेभ्यः एकवद्भावस्य ग्रहणं क्रियते | अनुवृत्ति-सहित-सूत्रं— स एकवचनं नपुंसकम् |
पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः मानचित्रणम् एकेन छात्रेण अतीव सुन्दररीत्या चित्रितं वर्तते |

