सामान्यपक्षः तस्य च एकदेशदृष्टान्तः
रक्षाभगिन्या विरचितोपस्थापनम्—
सामान्यपक्षः तस्य च एकदेशदृष्टान्तः
सामान्यपक्षस्य आकृतिः का ? तस्मिन् विशिष्टपक्षाः कथं सिध्यन्ति ? सामान्यपक्षे विद्यमानः एकदेशः अथवा विशिष्टपक्षः अन्वयदृष्टान्तत्वेन कथं कार्यं करोति ? कस्मिन् प्रसङ्गे कार्यं करोति ? इत्येषां विषये लघूपस्थापनम् |
अनुमानवाक्ये अंशचतुष्टयं भवति | पक्षः, हेतुः, साध्यं च दृष्टान्तः | यत्र किमपि साधयितुम् इच्छामः तत् स्थलं पक्षः | अनुमानस्य प्रवर्तकः यः, यस्य द्वारा स्वार्थानुमानं वा परार्थानुमानं प्रवर्तेत, सः हेतुः | पक्षे हेतुना यत् साधनीयं तत् साध्यम् | उदाहरणत्वेन यत् हेतुमत्, साध्यवत् स्थलं स्वीक्रियते अनुमानवाक्ये, तत् स्थलं भवति दृष्टान्तः | पक्षे साध्यम् अस्ति इति साधयितुम् इच्छामः चेत् तस्मिन् पक्षे अनुमानजनकहेतुः सर्वदा स्यादेव | तेन साध्यं सिध्यति पक्षे | अतः पक्षः इति यं मन्यामहे सः स्वाभाविकतया हेतुमान् साध्यवान् च भवेत् | पक्षस्य इमं स्वभावं स्वीकृत्य सामान्यीकरणेनन विश्वे यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि लभ्यन्ते तानि सर्वाणि स्थलानि मिलित्वा एकः सामान्यपक्षः निर्मीयते | हेतुमतां साध्यवतां स्थालानां सङ्ग्रहः एव सामान्यपक्षः | हेतुमत्त्वे सति साध्यवत्त्वम् इति सामान्यपक्षस्य लक्षणम् | सामान्यपक्षरूपिणि सङ्ग्रहे अस्मिन् प्रत्येकं हेतुमत् साध्यवत् स्थलं विशिष्टपक्षः अथवा सामान्यपक्षस्य एकदेशः इत्युच्यते | अयं सामान्यपक्षस्यैव अन्यतमः सदस्यः |
स्वार्थानुमानस्य अथवा परार्थानुमानस्य पुनः द्वैविध्यं; पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति प्रथमविधम् अनुमानं, पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः इति द्वितीयविधम् | पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र साध्यं पक्षे सर्वत्र अस्ति इति साधनीयं भवति| पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः इत्यत्र साध्यं पक्षे कुत्रचित् एव अस्ति इति साधनीयं भवति | उभावपि स्वार्थानुमानस्य वा परार्थानुमानस्य उपगणौ, प्रभेदौ स्तः |
पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यस्मिन् साध्यं पक्षे सर्वत्र अस्ति इति अनुमितिज्ञानं लक्ष्यम् | लक्ष्यस्य साधनावेलायां एकस्य सामान्यपक्षस्य एकदेशः दृष्टान्तः भवति | नाम, सामान्यपक्षम् उद्दिश्य तस्मिन् पक्षे सर्वत्र साध्यम् अस्ति इति यदा साधयितुम् इच्छामः तदा सामान्यपक्षस्य एकदेशः यः हेतुमान् च साध्यवान्, सः दृष्टान्तत्वेन स्वीकार्यः | अयं एकदेशः सामान्यपक्षस्य प्रतिनिधिः भवति | पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र पक्षतायाः अवच्छेदकः पक्षे विद्यमानः कश्चन धर्मः न्यूनदेशवृत्तिः सन् व्याप्यः भवति | तस्य अपेक्षया साध्यः अधिकदेशवृत्तिः सन् व्यापकः भवति | उदाहरणत्वेन, "पर्वतः वह्निमान् धूमात्" इत्यस्मिन् प्रयोगे सर्वे धुमवह्निसहचारयुक्ताः पर्वताः सामान्यपक्षत्वेन स्वीकृताः चेत् पर्वतेषु विद्यमानः धर्मः पर्वतत्वं भवति पक्षतावच्छेदकं, व्याप्यम् | वह्निः व्यापकः | सर्वेषु पर्वतेषु वह्निरस्ति इत्यस्य साधनवेलायां धूमं दृष्ट्वा "यत्र यत्र धूमः तत्र तत्र वह्निः" इति प्रतीतिर्यथा जायते तद्वत् "यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः" इति प्रयोगः अपि युक्तः | यतोहि धूमस्य विद्यमानत्वम् अथवा धूमवत्त्वम् इति सर्वेषां सामान्यपक्षे अनर्भूतानां पर्वतानां स्वभावः | तेषु सर्वेषु धूमवत्सु पर्वतेषु पर्वतत्वं तु अस्तिरेव | नाम सामान्यपक्षे यथा सर्वत्र धूमः तथा सर्वत्र पर्वतत्वम् अपि | अतः यत्र धूमः , तत्र पर्वतत्वं, तत्रैव वह्निः | अनेन पर्वतत्वं व्याप्यं वह्निः व्याप्यः इति सुष्ठु प्रतिभाति | तस्मात् कारणात् "पर्वतः वह्निमान् पर्वतत्वात्" इति प्रयोगः आयाति | आहत्य पर्वतत्वं, "सर्वे धूमवन्तः वह्निमन्तः पर्वताः" इति सामान्यपक्षस्य धर्मः | अयमेव पक्षतावच्छेदकः | अस्य आधारेण पर्वतत्ववह्निस्थलम् इति सामान्यपक्षः सिध्यति | धूमवह्निस्थलम् इति सामान्यपक्षः इत्यपि वक्तुं शक्यते वह्निरूपसाध्यस्य साधनार्थं धूमस्य आधारेण |
पर्वतत्ववह्निस्थलम् इत्यस्मिन् सामान्यपक्षे यः कोऽपि पर्वतः इ-पर्वतः, उ-पर्वतः, ऋ-पर्वतः यत्र पर्वतत्वम् अपि अस्ति, वह्निरपि अस्ति, सः सामान्यपक्षस्य एकदेशः सन् दृष्टान्तः भवति | अनेन "पर्वतः वह्निमान् पर्वतत्वात् यथा इ-पर्वतः", "पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात् यथा इ-पर्वतः" इति अनुमानप्रयोगौ सिध्यतः | एवमेव "धूमवह्निस्थलं वह्निमान् धूमवह्निस्थलत्वात् यथा महानसं", "धूमवह्निस्थलं वह्निमान् धूमवह्निस्थलत्वात् यथा पर्वतः" इत्यादयः प्रयोगाः अपि शक्याः यतोहि धूमवह्निस्थलम् इत्यस्य सामान्यपक्षस्य सदस्याः महानसं, पर्वतः इत्यादयः दृष्टान्ताः येषु धूमः अपि अस्ति, वह्निः अपि अस्ति | धूमवह्निसहचारः विश्वे यत्र कुत्रापि भवति तादृशं स्थलं धूमवह्निस्थलम् इति सामन्यपक्षस्य सदस्यः, एकदेशः वा विशिष्टपक्षः | तादृशः एव सदस्यः पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यस्य साधनवेलायां दृष्टान्तः भवितुं शक्तः भवति | ध्येयं यत् एते प्रयोगाः येषु सामान्यपक्षस्य धर्मः हेतुरूपेण भवति ते "पर्वतः वह्निमान् धूमात्" इत्यस्मात् एव जाताः | आरम्भे पक्षे धूमेन हेतुना साध्यः वह्निः अस्ति इति स्वार्थानुमानं वा परार्थानुमानं जायेत | तदा सामान्यपक्षे सर्वत्र वह्निरस्ति व्यापकत्वेन इति साधनवेलायां "पर्वतः वह्निमान् पर्वतत्वात्", "पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात्", "धूमवह्निस्थलं वह्निमान् धूमवह्निस्थलत्वात्" इति विशिष्टाः प्रयोगाः आनीताः |
पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति प्रभेदः अन्व्यदृष्टान्तः एव | यद्यपि पक्षभिन्नस्थाले अन्वदृष्टान्तः भवति इति उच्यते तथापि दृष्टान्तः वस्तुतः सामान्यपक्षस्य एकदेशः एव इति ज्ञायते | तदा एव दृष्टान्तस्य बलं भवति पक्षे सर्वत्र साध्यस्य साधनार्थम् | "पर्वतः वह्निमान् पर्वतत्वात् यथा महानसं" इत्यत्रापि यद्यपि पर्वतः पक्षः, महानासं च पक्षभिन्नस्थलम् इति भासते तथापि पर्वतः च महानसम् उभावपि धूमवह्निस्थलम् इति सामान्यपक्षस्य सदस्यौ | महानसम् एकदेशः अस्मिन् सामान्यपक्षे | पर्वतः अपि एकदेशः | अतः एव महानसे यथा युगपत् धूमवह्न्योः विध्यमानत्वं तथा पर्वते अपि इति साधयितुं महानसम् इति एकदेशदृष्टान्तः उदाहरणं भवति | तथैव धूमवह्निस्थलम् इति सामान्यपक्षे सर्वत्र वह्निरस्ति इति एकदेशदृष्टान्तस्य बलेन साधयितुं प्रभवामः | इयमेव पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः | अत्र च संयोगः पक्षतावच्छेदकव्यापक-साध्यप्रतियोगिक-संयोगः येन संयोगसम्बन्धेन साध्यं पक्षे वर्तते | धूमवह्निस्थले धूमवह्निस्थलत्वम् इति पक्षतावच्छेदकः धर्मः व्याप्यः | वह्निः च वह्निप्रतियोगिकसंयोगः व्यापकौ | अतः धूमवह्निस्थले धूमवह्निस्थलत्वव्यापक-वह्निप्रतियोगिक-संयोगेन वह्निः वर्तते | एवमेव पर्वते पर्वतत्वव्यापक-वह्निप्रतियोगिक-संयोगेन वह्निः वर्तते |
पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः इत्यत्र पक्षे कुत्रचिदेव साध्यम् अस्ति इति अनुमितिज्ञानं लक्ष्यम् | अस्मिन् अनुमाने साध्यस्य पक्षतावच्छेदकेन सह सामानाधिकरण्यम् इष्यते, तावदेव | न तु साध्यस्य पक्षतावच्छेदकं प्रति व्यापकत्वम् | हेतुयुक्तस्थलं यदस्ति, तस्मिन् कुत्रचित् साध्यम् अपि अस्ति इति साधनीयम् | तत् स्थलम् एव पक्षः | अस्मिन पक्षे सर्वत्र साध्यम् अस्ति इति साधनीयं न भवति | अस्मिन् स्थले पक्षतावच्छेदकसाध्ये समानाधिकरणे स्तः इति प्रदर्शितं चेत् पर्याप्तम् | साध्यस्य पक्षताव्यापकत्वं अनिष्टम् | अतः अस्मिन् प्रसङ्गे सामन्यपक्षः न आवश्यकः यस्मिन् यः कोऽपि एकदेशः दृष्टान्तत्वेन कार्यं कुर्यात् | पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः इति प्रभेदः व्यतिरेकदृष्टान्तः |
Raksha – September 2017