चक्षुर्मात्रग्राह्यो गुणो रूपम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/caksurmatragrahyogunorupam
Jump to navigation Jump to search


(३) तर्कसङ्ग्रहे मूलवाक्यं ‘चक्षुर्मात्रग्राह्यो गुणो रूपम्’ | चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणम् |

चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे सति चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वाभाववत्त्वे सति गुणत्वं रूपस्य लक्षणम् |

त्रीणि दलानि :

१) चक्षुरिन्द्रियग्राह्यत्वम् | चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयता |

२) चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम् | चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपिताजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वाभावः |

३) गुणत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
चक्षुरिन्द्रियग्राह्यत्वम् अतिव्याप्तिः रूपस्य आश्रये द्रव्ये, घटपटादिषु च रूपत्वजात्याम्   चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्
चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम् अतिव्याप्तिः गुरुत्वे चक्षुरिन्द्रियग्राह्यत्वम्
गुणत्वम् अतिव्याप्तिः अन्येषु गुणेषु चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्
चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम् अतिव्याप्तिः रूपत्वजात्याम् गुणत्वम्
चक्षुरिन्द्रियग्राह्यत्वे सति गुणत्वम् अतिव्याप्तिः द्वीन्द्रियग्राह्येषु सङ्ख्यादिषु गुणेषु चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्
चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम् अतिव्याप्तिः गुरुत्वे चक्षुरिन्द्रियग्राह्यत्वम्
चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम् नास्ति नास्ति नास्ति

स्पर्शलक्षणे 'त्वगिन्द्रियमात्रग्राह्यो गुणो स्पर्शः' इत्यत्रापि त्रीणि दलानि सन्ति, त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रियाग्राह्यत्वं च गुणत्वम् | दलसार्थक्यम् एवमेव करणीयम्