चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/tarkasangrahemulavakyamcurnadipindibhavaheturgunahsnehah
Jump to navigation Jump to search

(९) तर्कसङ्ग्रहे मूलवाक्यम् 'चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः' |

धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वं स्नेहस्य लक्षणम् |


द्वे दले :

१) धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वम् | विलक्षणसंयोगः अत्र पिण्डीभावः |

२) गुणत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
धारणाकर्षणनिष्ठकार्यता-निरूपितकारणताश्रय-विलक्षणसंयोगनिष्ठकार्यता-

निरूपित-कारणताश्रयत्वम्

अतिव्याप्तिः पिण्डीभावस्य

समवायिकारणे

चूर्णादौ

गुणत्वम्
गुणत्वम् अतिव्याप्तिः अन्येषु गुणेषु धारणाकर्षणनिष्ठकार्यता-निरूपित-कारणताश्रय-विलक्षणसंयोगनिष्ठकार्यता-

निरूपित-कारणताश्रयत्वम्

धारणाकर्षणनिष्ठकार्यता-निरूपित-कारणताश्रय-विलक्षणसंयोगनिष्ठकार्यता-

निरूपित-कारणताश्रयत्वे सति गुणत्वम्

नास्ति नास्ति नास्ति