संयोगनाशाको गुणो विभागः
10---nyAyashAstram/26---dalasArthakya-cintanam/sanyoganasakogunovibhagah
(७) तर्कसङ्ग्रहे मूलवाक्यं ‘संयोगनाशाको गुणो विभागः’ | संयोगनाशकत्वे सति गुणत्वं विभागस्य लक्षणम् |
पूर्वदेशसंयोगः → प्रथमक्रिया → विभागः → पूर्वदेशसंयोगनाशः → उत्तरदेशंयोगः → प्रथमक्रियानाशः → द्वितीयक्रिया
द्वे दले : १) संयोगनाशकत्वम् २) गुणत्वम्
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
संयोगनाशकत्वम् | अतिव्याप्तिः | प्रथमक्रियायाम् | गुणत्वम् |
गुणत्वम् | अतिव्याप्तिः | अन्येषु गुणेषु | संयोगनाशकत्वम् |
संयोगनाशकत्वे सति गुणत्वम् | नास्ति | नास्ति | नास्ति |