सुखाद्युपलब्धिसाधनमिन्द्रियं मनः

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/sukhadyupalabdhisadhanamindriyammanah
Jump to navigation Jump to search

(६) तर्कसङ्ग्रहे मूलवाक्यं 'सुखाद्युपलब्धिसाधनमिन्द्रियं मनः' | सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसः लक्षणम् |


द्वे दले :  १) सुखाद्युपलब्धिसाधनत्वम्    २) इन्द्रियत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
सुखाद्युपलब्धिसाधनत्वम् अतिव्याप्तिः आत्मा, शरीरम्     इन्द्रियत्वम्
इन्द्रियत्वम् अतिव्याप्तिः अन्येषु इन्द्रियेषु सुखाद्युपलब्धिसाधनत्वम्
सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वम् नास्ति नास्ति नास्ति