विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम्
< न्यायशास्त्रम् | 26---dalasArthakya-cintanam10---nyAyashAstram/26---dalasArthakya-cintanam/vidyamanatvesativyavartakatvamvisesanasyalaksanam
Jump to navigation
Jump to search
(१२) विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम् |
द्वे दले : १) विद्यमानत्वम् २) व्यावर्तकत्वम्
उदाहरणम् :
१) इदं सुन्दरं गृहम् | अस्मिन् उदाहरणे “सुन्दरत्वम्” विशेषणं यत् इदं गृहम् अपरेभ्यः गृहेभ्यः व्यावर्तयति, पृथक् करोति |
२) यस्मिन् गृर्हे काकः तत् रामस्य गृहम् | अस्मिन् उदाहरणे “काकः” उपलक्षणं यत् रामस्य गृहम् अपरेभ्यः गृहेभ्यः व्यावर्तयति |
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
विद्यमानत्वम् | अतिव्याप्तिः | विशेष्ये विद्यमानायां जातौ | प्रथमे उदाहरणे विशेष्ये, नाम गृहे गृहत्वम् इति जातेः विद्यमानत्वात् | किन्तु जातिः इदं गृहम् अपरेभ्यः गृहेभ्यः न व्यावर्तयति |
जातौ व्यावर्तकत्वं नास्ति | सुन्दरत्वे व्यावर्तकत्वम् अस्ति | तत् विशेषणम् | |
व्यावर्तकत्वम् |
व्यावर्तकत्वम् | अतिव्याप्तिः | उपलक्षणेषु | द्वितीये उदाहरणे काकः इति उपलक्षणं रामस्य गृहम् अपरेभ्यः गृहेभ्यः व्यावर्तयति | उपलक्षणे व्यावर्तकत्वम् अस्ति एकदृष्ट्या |
किन्तु काकस्य सर्वदा विद्यमानत्वं नास्ति विशेष्ये, रामस्य गृहे | नाम, उपलक्षणस्य विशेष्ये सर्वदा विद्यमानत्वं न स्यात् | अविद्यमानत्वात् तन्न विशेषणम् | |
विद्यमानत्वम् |
विद्यमानत्वे सति व्यावर्तकत्वम् | नास्ति | नास्ति | नास्ति |