घ्राणग्राह्यो गुणो गन्धः

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/ghrANagrAhyoguNogandhaH
Jump to navigation Jump to search


(५) तर्कसङ्ग्रहे मूलवाक्यं 'घ्राणग्राह्यो गुणो गन्धः' | घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वं गन्धस्य लक्षणम् |


घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे सति गुणत्वं गन्धस्य लक्षणम् |

द्वे दले :

१) घ्राणेन्द्रियग्राह्यत्वम् | घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयता |

२) गुणत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
घ्राणेन्द्रियग्राह्यत्वम् अतिव्याप्तिः गन्धत्वजात्याम्     गुणत्वम्
गुणत्वम् अतिव्याप्तिः अन्येषु गुणेषु घ्राणेन्द्रियग्राह्यत्वम्
घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वम् नास्ति नास्ति नास्ति

एवमेव रसनग्राह्यो गुणो रसः, श्रोत्रग्राह्यो गुणो शब्दः इति रसस्य च शब्दस्य लक्षणवाक्ये दलसार्थक्यं साधनीयम् |

घ्राणरसनश्रोत्रेन्द्रियाणां गुणमात्रग्राहकत्वात्, तदाश्रयद्रव्यस्य अग्राहकत्वात् च रूपस्य लक्षणवाक्यवत् गन्धरसशब्दानां लक्षणवाक्ये मात्र-शब्दस्य योजनं न आवश्यकम् |