गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/gandhasamanadhikaranadravyatvaparajatimattvamprthivyahlaksanam
Jump to navigation Jump to search

(१८) ‘गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं’ द्रव्यस्य लक्षणम् | गुणसमानाधिकरणत्वे सति सत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् |


द्वे दले :  १) गुणसमानाधिकरणत्वम्   २) सत्ताभिन्नजातिमत्त्वम्


गुणाधिकरणत्वं वा गुणवत्त्वम् एव द्रव्यत्वम् अथवा द्रव्यस्य लक्षणम् इति कथ्यते चेत् अव्याप्तिदोषः इति दूषयति पूर्वपक्षी | अव्याप्तिः कुत्र ?


(१) उत्पनं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इत्यतः तादृशे द्रव्ये एव अव्याप्तिः अस्य लक्षणस्य | उत्पत्तेः प्रथमे क्षणे द्रव्ये इत्युक्ते पृथिवीजलेत्यादिषु नास्ति गुणः इत्यस्मात् तत्र अव्याप्तिः | तदा सिद्धान्ती उत्तरयति, कालावच्छेदेन गुणविद्यमानत्वम् अस्वीकृत्य लक्षणसमन्वयः करणीयः इति | यतः द्वितीये क्षणे गुणः उत्पद्यते द्रव्ये |


(२) तथापि पूर्वपक्षिणः आपादनम् अनुवर्तते यत् उत्पन्ने च तदनुक्षणमेव विनष्टे द्रव्ये गुणः नोत्पद्यते एव | अत्रास्ति अव्याप्तिः इति पूर्वपक्षिणः आपादनम् | तदा सिद्धान्ती उत्तरयति, यथाश्रुतं लक्षणं, गुणाधिकरणत्वं वा गुणवत्त्वं द्रव्यस्य लक्षणम् इति न स्वीकार्यम् | द्रव्यत्वम् इत्युक्ते गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वम् अथवा गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् इत्येव स्वीकार्यम् |


गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वम् इत्यस्मिन् द्वे दले | दलयोः सार्थक्यम् अधः |

उपात्तं दलम् दोषः कुत्र ? निवारणम्
गुणसमानाधिकरणत्वम् अतिव्याप्तिः गुणे च कर्मणि अतिव्याप्तिः | गुणस्य अधिकरणे विद्यामानायां सत्ताजात्यां गुणसमानाधिकरणत्वम् अस्ति, न तु केवलं द्रव्यत्वे | तदा सत्ताजातिमत्त्वं द्रव्यस्य लक्षणम् इति आपतति | सत्ता इति जातिः गुणे च कर्मणि विद्यते इत्यतः सत्ताजातिमत्त्वम् इति लक्षणम् अतिव्याप्तिदोषदुष्टम् |

अतः गुणसमानाधिकरणत्वम् इत्यस्य वदनेन गुणे च कर्मणि अतिव्याप्तिः स्यात् | तस्य दोषस्य वारणाय सत्ताभिन्नजातिमत्त्वम् इति दलम् आवश्यकम् |

सत्ताभिन्नजातिमत्त्वम्
सत्ताभिन्नजातिमत्त्वम् अतिव्याप्तिः

अव्याप्तिः

द्रव्यभिन्नस्थलेषु अतिव्याप्तिः | गुणत्वं, कर्मत्वं, पृथिवीत्वम् इत्यादिषु द्रव्यत्वभिन्न-सत्ताभिन्नासु जातिषु सत्ताभिन्नजातिमत्त्वम् अस्ति इत्यतः तासाम् अधिकरणेषु अतिव्याप्तिः | सत्ताभिन्नजातिमत्त्वं बहुत्र वर्तते | तन्निवरणाय गुणसमानाधिकरणत्वम् इति दलं निवेशनीयम् | द्रव्यत्वम् एव एका जातिः या गुणसमानाधिकरणा सत्ताभिन्ना च | गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वम् इति लक्षणस्य समन्वयः द्रव्यत्वे एव भवति |

“सत्ताभिन्न” इत्यस्य प्रयोजनं किम् ? केवलं “जाति” इति कुतः नोक्तम् ? गुणसमानाधिकरणजातिमत्त्वम् इति वदनेन सत्ता इत्यपि जातिः गुणसमानाधिकरणा इति कृत्वा सा स्वीकार्या भवति द्रव्यस्य लक्षणे | इयं सत्ताजातिः गुणे च कर्मणि विद्यते यथा पूर्वोक्तम् | गुणकर्मणोः अतिव्याप्तिः | “सत्ताभिन्नजातिः” इत्यस्य वदनम् आवश्यकम् अतिव्याप्तिवारणाय |  

सत्ताभिन्नजातयः बह्वयः स्युः गुणस्यैव अधिकरणे | यथा द्रव्यत्वं, तथा एव पृथिवीत्वं, घटत्वम् इत्यादयः जातयः सत्ताभिन्नाः च गुणसमानाधिकरणाः भवेयुः | आसु सत्ताभिन्नजातिमत्त्वं गुणसमानाधिकरणत्वञ्च अस्ति इत्यतः आसु जातिषु लक्षणसमन्वयः आपतति | तेन बहुत्र अव्याप्तिदोषः आगच्छति | तस्य निवारणार्थं परिष्कारः कः ? * उत्तरम् अधः |

सत्ताभिन्नजातिमत्त्वम् एव किमर्थम् ? जातिः इति पदस्य को विशेषः ? सत्ताभिन्नधर्मवत्त्वं किमर्थं न ? ** उत्तरम् अधः |

गुणसमानाधिकरणत्वम्
गुणसमानाधिकरणत्वे सति सत्ताभिन्नजातिमत्त्वम् नास्ति नास्ति नास्ति

* गुणस्य अधिकरणे सत्ता च द्रव्यत्वं विहाय अन्याः सत्ताभिन्नजातयः स्युः -- पृथिवीत्वं, जलत्वं, पटत्वं, घटत्वम् इत्यादयः | ताः अपि सत्ताभिन्नाः च गुणसमानाधिकरणाः इति कृत्वा इमाः जातयः द्रव्यलक्षणे आपतन्ति | गुणसमानाधिकरणत्वे सति सत्ताभिन्नजातिमत्त्वम् इति लक्षणं तु पृथिवीत्वे, जलत्वे च घटत्वे इत्यादिषु जातिषु वर्तते | तदा पृथिवीत्वं द्रव्यस्य लक्षणम् इति आपतति | तेन जले अव्याप्तिः | जलं अपि द्रव्यम् किन्तु जले जलत्वं विद्यते, न तु पृथिवीत्वम् इति अव्याप्तिदोषः | कथं निवारणीयः अयं दोषः ? तद्वारणाय कैश्चित् नैय्यायिकैः केवलं सप्त पदार्थविभाजकाः उपाधयः ये सन्ति, द्रव्यत्वं, गुणत्वं, कर्मत्वं, सामान्यत्वं, विशेषत्वं, समावायत्वं च अभावत्वम् इति, ते एव लक्षणे दलरूपेण स्वीक्रियन्ते | तैः इमे जातिरूपेण न स्वीक्रियन्ते | तदा गुणसमानाधिकरणपदार्थविभाजकोपाधिमत्त्वम् इति लक्षणं भवति | गुणसमानाधिकरणत्वे सति पदार्थविभाजकोपाधिमत्त्वम् इति लक्षणं गुणाधिकरणे विद्यमाने द्रव्यत्वे एव अस्ति इत्यतः केवलं द्रव्यत्वस्य ग्रहणं | तस्मात् अव्याप्तिदोषरहितं निष्कृष्टं द्रव्यस्य लक्षणं सिध्यति गुणसमानाधिकरणपदार्थविभाजकोपाधिमत्त्वम् इति |


** सत्ताभिन्नधर्मवत्त्वं किमर्थं न ? द्रव्यगुण-अन्यतरत्वम् इति एकः धर्मः गुणे च द्रव्ये विद्यते | अयं सत्ताभिन्नधर्मः | अतः सत्ताभिन्नधर्मवत्त्वम् इति लक्षणं द्रव्यगुण-अन्यतरत्वे अस्ति | गुणस्य अधिकरणे द्रव्ये द्रव्यगुण-अन्यतरत्वम् इति सत्ताभिन्नधर्मः | अस्मिन् धर्मे गुणसमानाधिकरणत्वम् अपि अस्ति | गुणसमानाधिकरणसत्ताभिन्नधर्मवत्त्वं द्रव्यस्य लक्षणम् इति उक्तं चेत् द्रव्यगुण-अन्यतरत्वम् इति धर्मः स्वीकार्यः भवेत् द्रव्यलक्षणत्वेन | द्रव्यगुण-अन्यतरत्वं द्रव्यस्य लक्षणम् इति आपत्तिः | किन्तु द्रव्यगुण-अन्यतरत्वं गुणेऽपि अस्ति इत्यतः गुणे अतिव्याप्तिः | सत्ताभिन्नधर्मवत्त्वम् इति कथनम् अतिव्याप्तिदोषदुष्टम् | तन्निवरणाय सत्ताभिन्नजातिमत्त्वम् इति उक्तं, न तु सत्ताभिन्नधर्मवत्त्वम् | धर्मपदस्य स्थाने जातिः इत्यस्य पदस्य वदनेन द्रव्यगुण-अन्यतरत्वम् इत्यस्य निराकरणं भवति | यतः द्रव्यगुण-अन्यतरत्वम् इति धर्मः, न तु जातिः | तेन अतिव्याप्तेः निवारणम् |


*** “एकं रूपम्” इति प्रतीतिबलात् एकत्वं रूपे, नाम गुणे गुणः इति आक्षेपे कृते रूपम् इति गुणः अधिकरणम् | तस्मिन् गुणत्वम् अस्ति | अपरः गुणः एकत्वम् इति तस्मिन्नेव अधिकरणे विद्यते इति आक्षेपः | एकस्मिन्नेव अधिकरणे गुणः च सत्ताभिन्नाजाति-गुणत्वम् उभयोः विद्यमानत्वम् इति स्तिथिः | अनेन गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वम् इति लक्षणं गुणे आपतति, द्रव्ये अपि अस्ति इति पूर्वपक्षिणः आक्षेपः | अनेन इदं लक्षणम् अतिव्याप्तिदोषदुष्टम् इति पूर्वपक्षी वदति | सिद्धान्ती उत्तरयति यत् गुणः द्रव्यसापेक्षः इति कृत्वा एकत्वं च रूपम् इति गुणद्वयम् अपि एकस्मिन् अर्थे, एकस्मिन् द्रव्ये समावयेन वर्तते | एकार्थसमवायेन द्वयोः गुणयोः विद्यमानत्वात्, गुणे गुणानङ्गीकारः, गुणः गुणे न वर्तते | अस्मात् गुणे अस्य लक्षणस्य न अतिव्याप्तिः | “एकं रूपम्” इति प्रतीतिः तु परम्परासम्बन्धेन समर्थनीया | एकत्वं रूपे स्वाश्रयसमवेतत्वेन विद्यते, न तु समवायेन |