तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम्
10---nyAyashAstram/26---dalasArthakya-cintanam/2tajjanyatvesatitajjanyajanakatvamvyaparasyalaksanam
(२) तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् |
द्वे दले : १) तज्जन्यत्वम् २) तज्जन्यजनकत्वम्
दण्डः → चक्रभ्रमणम् → घटः
क्रमे अस्मिन् चक्रभ्रमणं घटस्य जनने व्यापारः | चक्रभ्रमणस्य दण्डजन्यत्वे सति दण्डजन्यनकत्वम् इति लक्षणम् |
तत् इति दण्डः | तज्जन्यत्वं, तेन जन्यत्वम् | तेन दण्डेन जनयः तज्जन्यः, घटः | तज्जन्यत्वं, दण्डजन्यत्वं घटे विद्यते |
तेन दण्डेन जन्यं तज्जन्यं, चक्रभ्रमणम् | दण्डः चक्रभ्रमणं जनयति | तज्जन्यत्वं, दण्डजन्यत्वं चक्रभ्रमणे अपि विद्यते |
तज्जन्यजनकत्वं, तज्जन्यस्य जनकत्वम् | तज्जन्यः घटः | घटस्य जनकं, तज्जन्यजनकम् इति चक्रभ्रमणम् | तज्जन्यजनकत्वं चक्रभ्रमणे |
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
तज्जन्यत्वम् | अतिव्याप्तिः | घटः | तज्जन्यजनकत्वम् |
तज्जन्यजनकत्वम् | अतिव्याप्तिः | कपालः इत्यादिषु घटकारणेषु | तज्जन्यत्वम् |
तज्जन्यत्वे सति तज्जन्यजनकत्वम् | नास्ति | नास्ति | नास्ति |