मङ्गलं वेदबोधितकर्तव्यताकं अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवत्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/mangalamvedabodhitakartavyatakamalaukikavigitasistacaravisayatvatdarsadivat
Jump to navigation Jump to search


(११) तर्कसङ्ग्रहे मूलवाक्यं ‘मङ्गलं वेदबोधितकर्तव्यताकं अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवत्’ |

मङ्गलं = पक्षः      वेदबोधितकर्तव्यताकत्वं = साध्यम्      अलौकिकाविगीतशिष्टाचारविषयत्वं = हेतुः      दर्शादिः = उदाहरणम्

हेतौ “अलौकिकाविगीतशिष्टाचारविषयत्वम्” इत्यस्मिन् त्रीणि दलानि | तेषां दलानां व्यभिचारदोषनिवारणमेव प्रयोजनम् |


त्रीणि दलानि :

१) अलौकिकत्वम् |

२) अविगीतत्वम् |

३) शिष्टाचारविषयत्वम् |


अलौकिकत्वम् इत्युक्ते विधि/श्रुतिभिन्नप्रमाणागम्यत्वम् | अविगीतत्वम् इत्युक्ते धर्मशास्त्राविरुद्धं, स्मृतिना अनिन्दितम् |

“यत्र यत्र अलौकिकाविगीतशिष्टाचारविषयत्वं तत्र तत्र वेदबोधितकर्तव्यताकत्वम्” इति अन्वयव्याप्तिः |

हेतौ त्यक्तं दलम् एकस्मिन् दले त्यक्ते हेतुः अन्वयव्यभिचारः कुत्र ? व्यभिचारवारणम्
अलौकिकत्वम् अविगीतशिष्टाचारविषयत्वम् भोजनादौ | भोजनं न अलौकिकम् |


भोजने वेदबोधितकर्तव्यताकत्वं नास्ति |

हेतु-सत्वे साध्य-असत्वम् इति व्यभिचारः |

अलौकिकत्वे सति अविगीतत्वे सति शिष्टाचारविषयत्वम् इति हेतुः भवेत् |


भोजनादौ अलौकिकत्वं नास्ति इत्यतः तत्र हेतुः एव नास्ति |

अनेन हेत्वाभावे साध्याभावः इति भूत्वा व्यतिरेकसहचारः न तु अन्वयव्यभिचारः |

अविगीतत्वम् अलौकिकशिष्टाचारविषयत्वम् रात्रिश्राद्धादौ | रात्रिश्राद्धं न अविगीतम् |

धर्मशास्त्रे रात्रिश्राद्धं निन्दितं, विगीतम् |


श्राद्धं विधिबोधितम् इत्यस्मात् न लौकिकम् |

श्राद्धे विधिप्रमाणगम्यत्वम् | वेद-बोधितम् |

वेदबोधितकर्तव्यताकत्वम् अस्ति श्राद्धे |


किन्तु श्रुतौ (वेदे) रात्रिश्राद्धं न बोधितम् |

रात्रिश्राद्धे वेदबोधितकर्तव्यताकत्वं नास्ति |

हेतु-सत्वे साध्य-असत्वम् इति व्यभिचारः |

अलौकिकत्वे  सति अविगीतत्वे सति शिष्टाचारविषयत्वम् इति हेतुः भवेत् |




रात्रिश्राद्धादौ अविगीतत्वं नास्ति इत्यतः तत्र हेतुः एव नास्ति | अनेन हेत्वाभावे साध्याभावः इति भूत्वा व्यतिरेकसहचारः न तु अन्वयव्यभिचारः |

शिष्टाचारविषयत्वम् अलौकिकाविगीतत्वम् | यद्यपि शिष्टपदं स्पष्टार्थम् एव इति उक्तं जलताडनादौ व्यभिचारः इति पूर्वपक्षी वदति | जलताडनं शिष्टाचारः नास्ति |


जलताडनं न विधिबोधितम् | न अस्मिन् वेदबोधितकर्तव्यताकत्वम् | अनेन हेतु-सत्वे साध्य-असत्वम् इति व्यभिचारः |

अलौकिकत्वे  सति अविगीतत्वे सति शिष्टाचारविषयत्वम् इति हेतुः भवेत् |


‘न कुर्यान्निष्फलं कर्म’ इति धर्मशास्त्रे उक्तत्वात् शिष्टाः तद्विरुद्धं न आचरन्ति, न बालिशं कार्यं कुर्वन्ति इत्यतः अविगीतत्वं पर्याप्तम् इति वदति सिद्धान्ती |

बालानां सुखबोधाय एव शिष्टपदम् उपात्तं हेतुनिर्देशे इति सिद्धन्त्ती |

शिष्टपदं स्पष्टप्रतिपत्तये |

किमपि दलं न त्यक्तम् अलौकिकत्वे सति अविगीतत्वे

सति शिष्टाचारविषयत्वम्

कुत्रापि अन्वयव्यभिचारः नास्ति व्यभिचारवारणं कुत्रचिदपि न आवश्यकम्