ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/dhvansabhinnatvesatidhvansapratiyogitvamnityatvamathavanityasyalaksanam
Jump to navigation Jump to search

(२०) ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम् |


द्वे दले :  १) ध्वंसभिन्नत्वम् इति विशेषणदलम्    २) ध्वंसाऽप्रतियोगित्वम् इति विशेष्यदलम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
ध्वंसाऽप्रतियोगित्वम् अतिव्याप्तिः ध्वंसे अतिव्याप्तिः | ध्वंसे ध्वंस-अप्रतियोगित्वम् अस्ति |

अनेन ध्वंसाऽप्रतियोगित्वं ध्वंसस्य लक्षणम् इति आपतति |  

ध्वंसः, नाम प्रध्वंसाभावः नित्यः | एकस्य पदार्थस्य ध्वंसे जाते सः एव पदार्थः पुनः न उत्पद्यते |

ध्वंसस्य ध्वंसः न कदापि जायते | यस्य ध्वंसः एव न भवति तस्य ध्वसं प्रति प्रतियोगित्वं नैव भवति |

अतः ध्वंसस्य ध्वसं प्रति अप्रतियोगित्वम् इति कृत्वा ध्वंसे ध्वंसाऽप्रतियोगित्वम् इति अनिष्टापत्तिः |

घटध्वंसे जाते पुनः सः एव घटः नैव उत्पद्यते | अतः अयं घटध्वंसः सर्वदा भवति |

पुनः नूतनः घटः | घटध्वंसस्य अथवा घटप्रध्वंसाभावस्य ध्वंसः न कदापि जायते |

ध्वंसे ध्वंसाऽप्रतियोगित्वम् इति न इष्टम् | तन्निवरणाय विशेषणदलम् उपात्तं ध्वंसभिन्नत्वम् इति |

ध्वंसभिन्नत्वम् इति विशेषणदलम्
ध्वंसभिन्नत्वम् अतिव्याप्तिः सर्वेषु ध्वंसभिन्नपदार्थेषु, घटपटादिषु अतिव्याप्तिः | ध्वंसभिन्नेषु अस्ति ध्वंसभिन्नत्वम् | तन्नेष्टम् |

तन्निवरणाय विशेषणदलम् उपात्तं ध्वंसाऽप्रतियोगित्वम् इति | ध्वंस-अप्रतियोगित्वं केवलं नित्ये वर्तते |

यस्य ध्वंसः न भवति तादृशः पदार्थः ध्वंसस्य प्रतियोगी नैव भवति | यथा आकाशः, न ध्वंसप्रतियोगी | आकाशे ध्वंसाऽप्रतियोगित्वम् अस्ति | आकाशः ध्वंसभिन्नः च | आकाशे ध्वंसभिन्नत्वम् अस्ति |

अतः ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वम् इति दलद्वयोपादानेन न कुत्रापि कोऽपि दोषः |

ध्वंसाऽप्रतियोगित्वम् इति विशेष्यदलम्
ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वम् नास्ति नास्ति नास्ति

* ध्वंसप्रतियोगित्वम् अथवा प्रागभावप्रतियोगित्वम् अनित्यत्वम् | ध्वंसप्रतियोगित्वप्रागभावप्रतियोगित्वाऽन्यतरत्वम् अनित्यत्वम् इति उच्यते |

* प्रागभावस्य अपि ध्वंसः भवति | प्रागभावे अपि ध्वंसप्रतियोगित्वम् अस्ति | अतः प्रागभावः अनित्यः | घटे जाते घटप्रागभावस्य ध्वंसः जायते |