आद्यपतनासमवायिकारणं गुरुत्वम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/adyapatanasamavayikaranamgurutvam
Jump to navigation Jump to search

(४) तर्कसङ्ग्रहे मूलवाक्यम् 'आद्यपतनासमवायिकारणं गुरुत्वम्' |

आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् |

त्रीणि दलानि : १) आद्यपतनत्वावच्छिन्नकार्यता    २) समवायसम्बन्धावच्छिन्नकार्यता * ३) समवायसम्बन्धावच्छिन्नकारणता

उपात्तं दलम् दोषः कुत्र ? निवारणम्
समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् अतिव्याप्तिः सर्वेषु असमवायिकारणेषु   आद्यपतनत्वावच्छिन्नकार्यता
आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम् अतिव्याप्तिः आद्यपतनस्य समवायिकारणे समवायसम्बन्धावच्छिन्नकारणता
आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् ** नास्ति नास्ति नास्ति

*  आद्यपतनासमवायिकारणं गुरुत्वम् इति तर्कसङ्ग्रहस्य मूलवाक्यम् | तस्मिन् असमवायिकारणम्‌ इति उल्लिखितम् | समवायिकारणे च निमित्तकारणे अतिव्याप्तिवारणाय असमवायिकारणम्‌ इत्यस्य वदनम् आवश्यकञ्च | समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति असमवायिकारणस्य लक्षणम् |


** तर्कसङ्ग्रहस्य मूलवाक्यम् अनुसृत्य यद्यपि आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति गुरुत्वस्य तटस्थलक्षणवाक्यस्य कथनावसरे दलत्रयं स्वाभाविकतया प्रविष्टं स्यात् तथापि कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वम् इति विशेषदलस्य उपादानेन सर्वेषु असमवायिकारणेषु अव्याप्तिदोषस्य वारणत्वात् समवायसम्बन्धावच्छिन्नकार्यता इत्यस्य दलस्य व्यर्थता सिध्यति | अतः तत् दलं त्यक्तव्यम् एव | कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति दलं न उपात्तं चेदपि आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इत्यनेन न क्वचित् दोषः |