नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणम्

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam/nityatvesatianekasamavetatvamsamanyasyalaksanam
Jump to navigation Jump to search

(१६) ‘नित्यत्वे सति अनेकसमवेतत्वं’ सामान्यस्य लक्षणम् |


द्वे दले :  १) नित्यत्वम्  २) अनेकसमवेतत्वम्

उपात्तं दलम् दोषः कुत्र ? निवारणम्
नित्यत्वम् अतिव्याप्तिः नित्यद्रव्येषु, गगनादिषु अस्ति नित्यत्वम् |

‘नित्यत्वे सति समवेतत्वम्’ इति कथनेन गगनगते महत्परिमाणे अस्य लक्षणस्य सत्त्वात् महत्परिमाणे अतिव्याप्तिः | परमाणुगते विशेषेऽपि इदं लक्षणं विद्यते | विशेषे अपि अतिव्याप्तिः | तद्वारणाय “अनेक” इत्यस्य पदस्य उपादानम् |

अनेकसमवेतत्वम्
अनेकसमवेतत्वम् अतिव्याप्तिः उभयद्रव्यसमवेते संयोगे | नाम एकः एव संयोगः उभयोः द्रव्ययोः समवेतः | अतः अनेकसमवेतः | तद्वत् उभयकपालसमवेते घटेऽपि अतिव्यप्तिः | तद्वारणाय नित्यत्वम् | नित्यत्वम्
नित्यत्वे सति अनेकसमवेतत्वम् नास्ति नास्ति नास्ति