तत्पुरुषसमासाभ्यासः

From Samskrita Vyakaranam
14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH
Jump to navigation Jump to search



एतेषां समस्तपदानां विग्रहवाक्यं विलिख्य, समासनाम, सूत्रञ्च निर्दिशत –

१)      मन्दिरगता बालिका भोजनम् अकरोत् |

२)      पुत्रीप्राप्तं पारितोषिकं माता च पिता च अभिनन्दतः |

३)      पुत्रीसमा छात्रा गुरुं नमति |

४)      कृष्णश्रितः भक्तः सन्तुष्टः जातः |

५)      मध्याह्ने सूर्यस्य आतपः तीक्ष्णः |

६)      अनुजा शालाप्राप्ताभिः सखीभिः सह क्रीडति |

७)      उत्तमा बालिका गृहपाठं पूर्वाह्णे एव कृतवान् |

८)       चोराः मध्यरात्रे आगच्छन्ति |

९)      कष्टातीतस्य जनस्य सुखं मधुरतरं भाति |

१०)     विषादयुक्तः अर्जुनः युद्धं कर्तुं नोत्सहते |

११)     नगरप्राप्तः ग्रामीणः विस्मयान्वितोऽभवत् |

१२)     अपराह्ने वयं क्रीडाम |

१३)     संशयापन्ना छात्रा अध्यापकं पृष्टवती |

१४)     लक्षमणप्रयुक्तः बाणः मेघनादं व्यदारयत् |

१५)     सीता रामस्य प्राणसमा आसीत् |

१६)     मध्याह्नस्य भोजनं सम्यगासीत् |

१७)     सर्वाः महिलाः मातृसदृश्यः माननीयाः |

१८)     विद्याविहीनः पशुः इति सुभाषितं सूचयति |

१९)     रज्जुबद्धान् काष्ठान् ग्रामम् आनय |

२०)     सीतानुगतः रामः वनं प्राविशत् |

२१)     लक्ष्मीसहितायाः नारायणाय नमः |

२२)     अर्जुनः युद्धे शिवदत्तस्य अस्त्रस्य प्रयोगं कृतवान् |

२३)     दुःखातीतः वृद्धा ततः निर्गता |

२४)     विष्णुप्रयुक्तं चक्रं राक्षसं समहरत् |

२५)     दण्डताडितः सर्पः निर्गच्छति |

२६)     पुरुषोत्तमः रामः अयोध्यायाः राज्यम् अपालयत् |

२७)     पुस्तकपठनादौ अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः |

२८)     मातृसदृशी शिक्षिका छात्रान् पाठयति |

२९)     दुर्योधनः अहं युधिष्ठिरम् अर्धराज्यं/ राज्यार्धं न दास्यामि इति उक्तवान् |

३०)     हरित्रातः भक्तः नमस्कृतवान् |

३१)     रोगतप्तः औषधं स्वीकरोति |

३२)     तस्य अर्धकायस्य स्रसाः बृहत्यः सन्ति |

३३)     गर्तपतिता बालिका उच्चैः नर्दति |

३४)     कार्यालप्राप्तः कर्मकरः कार्यम् अकरोत् |

३५)     कालिदासविरचितानि काव्यानि सर्वे पठेयुः |

३६)     छात्राः व्यासरचितं महाभारतं पठान्ति |

३७)     गुरुदेवाय नमः |

३८)     न सुखप्रति संसारे |

३९)     तारकः ब्रह्मदत्तेन वरेण देवान् पराजितवान् |

४०)     शबरी दशरथपुत्रस्य रामस्य भक्ता आसीत् |

४१)     प्रेमपूर्णे परिसरे संभाषणस्य अभ्यासं करवाम |

४२)     गुडमिश्रितं भोजनं सम्यग्भवति |

४३)     अश्वपतितः सैनिकः व्रणयुक्तः अभवत् |

४४)     भगवदधीनं जगत् वर्तते |

४५)     यत् प्रमाणसिद्धं वर्तते तत्र इदम् इति वदामः |

४६)     शरणम् आगतः तु सदैव रक्षणीयः |

४७)     ग्रामं गमी बालकः शालां प्रविशति |

४८)     तस्मै इदं पुस्तकं दातव्यम् |

४९)     धनाशा त्यक्ता चेत् पुरुषः वैराग्यं प्राप्नोति |

५०)     विद्यया हीनः छात्रः न शोभते |

५१)     न दोषप्रति वेदान्तदर्शने |

५२)     भवतः कार्यं निर्विघ्नं समापयेत् |

५३)     शरविद्धः हंसः भूमौ पतितः |

५४)     गङ्गाजलं सर्वपापं हरति |

५५)     सिंहात् भीतः व्याधः अरण्यात् पलायते |

५६)     सभायां पण्डितः कार्यक्रमे सम्भाषाणं करोति |

५७)     शङ्कराचार्यः बाल्यकाले एव शास्त्रेषु प्रवीणः आसीत् |

५८)     माता मन्दिरं गतवती पूजार्थम् |

५९)     धनहीनाः जनाः बहुदुखम् अनुभवन्ति अस्मिन् लोके |

६०)     शिवेन मन्मतः अग्निना दग्धः|

६१)     माया ईश्वराधीना वर्तते इति अद्वैतिनः मतम् |

६२)     अध्यापकाधीनाः छात्राः वर्तन्ते |

६३)     स्नानाय इदं चूर्णम् अस्ति |

६४)     सर्पदृष्टः मूषकः |

६५)     ज्ञानव्यवधाने ज्ञानं न जायते |

६६)     दशरथः युद्धे निपुणः आसीत् |

६७)     आकाङ्क्षा तु पदधर्मः ज्ञातव्यः भवति |

६८)     महाभारते युद्धे अन्ते दुर्योधनः जले मग्नः आसीत् |

६९)     रोगान्मुक्तः वृद्धः अत्यन्तं सन्तुष्टः आसीत् |  

७०)     सुखप्राप्ताः जनाः मन्दिरात् गच्छन्ति |

७१)     हरिः लतयाः वर्षेण पूर्वः |

७२)     भूतेभ्यः बलिः सर्वैः दातव्यः |

७३)     गुडेन सम्मिश्रिताः धानाः सर्वैः इच्छन्ति |

७४)     गुर्वाधीनः छात्रः गुरुकुले पठति स्म |

७५)     भूतपूर्वः प्रधानमन्त्री विदेशं गतवान् |

७६)     सामिकृतात् अध्ययनात् न कोपि फलं भवति |

७७)     सर्वैः प्रजाहितं करणीयम् |

७८)     छात्राः परीक्षाभयं प्राप्नुवन्ति |

७९)     मध्याह्ने सूर्यस्य तापः अधिकः भवति |

८०)     भवदर्था समासकक्षा प्रवर्तमाना अस्ति |

८१)     स्थालीपक्वेभ्यः फलेभ्यः रसं अनुभूतवान् बालकः |

८२)     अधरहिमालये बहवः योगिनः वसन्ति |

८३)     दुष्टजनानां कुकर्मभ्यः भीतिः नास्ति कलियुगे |

८४)      गुरुसुश्रुषाम् अकृत्वा एव विद्यानदीं पारयितुं न शक्यते |

८५)     मन्दिरे देवार्थं नैवेद्यम् अस्ति |

८६)     अन्तिकात् आगता राजकुमारी सभायाम् उपविष्टान् सर्वान् अपश्यत् |

८७)     गोविन्दात् रामः मासावरः |

८८)     वातेन छेद्यं तृणं गृहीत्वा ऋषिः गच्छति यागार्थम् |

८९)     हरित्रातः भक्तः संसारसागरं पारयति |

९०)     तिरुपत्यां देवालये दध्योदनं प्रसादरूपेण दीयते |

९१)     गङ्गात्यस्ताः सीतारामलक्ष्मणाः भरद्वाजाश्रमं प्राप्तवन्तः |

९२)     राजधानीप्राप्तः मन्त्रिगणः प्रधानमन्त्रिणा अमिलत् |

९३)     अधरहिमालये कस्मिंश्चित् आश्रमे अयं योगी वसति |

९४)     प्रीतिबन्धः ईश्वरः भक्तानां साहाय्यं करोति |

९५)     दूरादागतः योगी ग्रामम् अप्रविशत् |

९६)     पुरुषाधीना प्रकृतिः जगत्कारणं नास्ति इति वेदान्तिनां मतम् |

९७)     जन्ममरणचक्रात् बहिर्गमनं मोक्षः |

९८)     एकः छात्रः तीर्थे वायसः इव गच्छन् आसीत् |

९९)     रमेशः सुरेशात् मासपूर्वः|

१००)     उत्तरभारते बहूनि सुन्दराणि मन्दिराणि सन्ति |

१०१)     तेन यत् न साधितं, तत् अस्माभिः अर्धवर्षेण साधितम् |

१०२)     कालः सर्वोपि सूर्याधीनः एव इति भाति |

१०३)    अस्मद्पिता अस्य नगरस्य अधिकारी इति उक्तं कैश्चित् बालकैः|

१०४)    गोहितार्थं यजमानः नितरां कार्यं करोति |

१०५)   बालकेन स्वयंकृतं कार्यं दृष्ट्वा माता सुन्तुष्टा जाता |

१०६)   अक्षक्षौण्डः शकुनिः पाण्डवान् धूर्तेन पराजितवान् |

१०७)   बालकार्थं माता अन्नं परिवेषितवती |

१०८)   स्वर्गपतितः त्रिशङ्कुः भूमौ अपि स्थातुम् अशक्तः आसीत् |

१०९)   मूर्खशतम् जनाः तस्यां सम्भायाम् आसन् |

११०)    युधिष्ठिरः पाण्डवेषु ज्येष्ठः आसीत् |

१११)    दासीपुत्रः विदुरः नीतिनिपुणः आसीत् |

११२)    दूरादागतः यात्रिकः रमेशगृहं प्रविष्टवान् |

११३)    देवालये मन्त्राः हृदि स्पृशन्ति |

११४)    अभिवृक्षं ( वृक्षम् अभि) गच्छति |

११५)    पूर्वाह्णे आरब्धं कार्यं दिनस्य अन्ते अपि न समापितम् |

११६)    केचन पूर्वसंस्कारात् स्तोकात् मुक्ताः भवन्ति |

११७)   अनुज्येष्ठं  प्रविशन्तु  भवन्तः |

११८)    आतपे शुष्कानि वस्त्राणि ग्रहीत्वा माता गृहे गतवती |

११९)    काराबन्धः पुरुषः दुःखेन जीवनं अयापयत् |

१२०)   तस्मात्ते वितराम्यद्य पुत्रमात्मसमं गुणैः |

१२१)    तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् |

१२२)    श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः |

१२३)    क्षीरौदनेन साज्येन सम्पूज्य च भवं प्रभुम् |

१२४)    पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् |

१२५)    ज्येष्ठो भ्राता पितृतुल्यो मृते पितरि शौनकः |

१२६)     ईश्वरः कालातीतः अस्ति |

१२७)     अपूर्वः कोऽपि कामान्धः दिवा नक्तं न पश्यति |

१२८)     रामबाणहतो वीरश्चचाल च मुमोह च |

१२९)     लोकहितं मम करणीयम् |

१३०)     प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् |

१३१)     न दोषप्रति बौद्धदर्शने |

१३२)     ब्रह्मविद्या किमर्थेयं नान्यन्मुक्ते फलं ततः |

१३३)     रक्षिता भवभीतानां भवः परमपावनः |

१३४)     दुष्टभीति-महाभीति भञ्जनायै नमो नमः |

१३५)     नृपहतपुत्रं पश्यति क्रुद्धब्राह्मणः |

१३६)     शिष्यपठितपुस्तकानि न कदापि पठ्यन्ते अन्यैः जनैः |

१३७)    अद्यत्वे बहवः युवकाः आत्महत्यां कुर्वन्ति |

१३८)     मूर्खराजा एकदा राज्यं अपालयत् |

१३९)     उपजरसं भवन्ति रोगाः|

१४०)    अध्युपानहं ( inside the shoe) सूक्ष्मः कण्टकः तुदति पादम् | A little thorn inside the shoe pricks the foot.

१४१)     ब्रह्मवित् गुणातीतः भवति |

१४२)    मध्येगङ्गात् आनय| गङ्गामध्यात् आनय|

१४३)    वाक्यं वक्त्राधीनम् एव |

१४४)    आमूलाच्छ्रोतुमिच्छामि |

१४५)    मौल्ययुक्ता माला ग्रीवायाः अपगच्छति |

१४६)    चुल्लीपक्वं वृन्ताकं पश्य |

१४७)     तत्त्वम् अंशः असि |

१४८)     त्वदधीना हि सिद्धयः |

१४९)    देवदत्तः विष्णुमित्रात् मासावरः |

१५०)    जीवन्मुक्तः यः सः बन्धमुक्तः भवति |

१५१)    न सुखप्रति संसारे |

१५२)    विकारहेतौ सति ये बहिर्विकारं समासते ते यमिनः |  Those who remain unruffled even in the presence of temptations are the self restrained.

१५३)    दुहितरः मातृसदृश्यो जायन्ते, पुत्राश्च पितृसदृशा इति प्रायिकम् |

१५४)    वणिजां प्रायेण वाक्कलहाः भवन्ति |

१५५)    अपराह्णकृतं कार्यं दृष्ट्वा अधिकारी सन्तुष्टः |

१५६)    तिलमिश्रिताः तण्डुलाः श्राद्धे प्रयुज्यन्ते |

१५७)   आचारणश्लक्ष्णान् सर्वे इच्छन्ति |

१५८)   समुद्रमात्रं न सरो अस्ति किञ्चन |

१५९)   विश्वनाथः सर्वान् रक्षति | 

१६०) घटेन वयं जलाहरणं कुर्मः |

१६१) देवदत्तः रामान्मासपूर्वः, विष्णुमित्रात् |

१६२) वणीजां प्रायेण वाक्कलहा भवन्ति नासिकलहाः |

१६३) रावणनीतायाः सीतायाः अन्वेषणं हनूमान् कृतवान् |

१६४) प्रतिप्रश्नस्योत्तरे द्वे संभवतः पक्षविपक्षसमाश्रयेण |

१६५) प्रेम्णा शरीरार्धहरां हरस्य |


समस्तपदं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -

१)       भवते इयम् =

२)       बलिभिः पुष्टः =

३)       निसर्गेण निपुणः =

४)       वेदे पण्डितः =

५)       अहिना हतः =

६)       गुरुणा ईक्षिता =

७)     अन्यैः पुष्टाः =

८)      राज्यात् भ्रष्टः =

९)      कार्ये रतः =

१०)     पराभवात् भीतिः =

११)     गिरेः नदी =

१२)     नित्यं प्रहसितः =

१३)     आत्मनः संयमः =

१४)     गोभ्यः बलिः =

१५)     रणे संवितः =

१६)     सूर्येण ऊढः =

१७)     देवेन खातः =

१८)     मम पुस्तकम् =

१९)     गुहं निर्गतः =

२०)     सर्वेभ्यः इयम् =

२१)     खट्वाम् आरूढः =

२२)     त्वां श्रितः =

२३)     चौरैः हृतः =

२४)     संस्कृतस्य अध्यापकः =

२५)     तव अपेक्षा =

२६)     भवता श्रुतम् =

२७)     धर्मस्य क्षेत्रम् =

२८)     दन्तानां राजा =

२९)     कस्मै इदम् =

३०) मम पुत्रः

३१)     रोगात् मुक्तः =

३२)     देवेन खातः =

३३)     पाण्डवानाम् अनीकम् =

३४)     तव दासः =

३५)     ब्राह्मणानां याजकः =

३६)     देवानां पूजकः =

३७)     कूपं पतितः =

३८)     स्वस्य जनाः =

३९)     वृकात् भयम् =

४०)     दाने शौण्डः =

४१)     सुहृद्भ्यः अयम् =

४२)     गवे हितम् =

४३)     कुलस्य क्षयः =

४४)     व्यवहारे पटुः =

४५)     वनेऽन्तर् =

४६)     द्विजाय अयम् =

४७)     वृकात् त्रासः =

४८)     सर्वश्वेतः =

४९)     सर्वमहान् =

५०)     सुखात् आपेतः =

५१)     अक्षेषु कितवः

५२)     पित्रे सुखम् =

५३)     प्रसादात् पतितः =

५४)     पूर्वः कायस्य =

५५)     खट्वाम् आरूढः =

५६)     मूहूर्तं सुखम् =

५७)     वाचि पटुः=

५८)     गवां कृष्णा सम्पन्नक्षीरतमा =

५९)     भगवता गीता =

६०)     शास्त्रे निपुणः =

६१)     अस्मभ्यं भीतः =

६२)     युष्माकम् अपेक्षा =

६३)     युष्माभिः भुक्तम् =

६४)     वाक्निपुणः =

६५)     योगे रतः =

६६)     मम निवासः =

६७)     काव्ये कुशलः =

६८)     अक्षेषु शौण्डः =

६९)     धर्मे प्रवीणः =

७०)     धर्मात् च्युतः =

७१)     कार्ये कुशलः =

७२)     परशुना छिन्नवान् =

७३)     अस्माकं कर्तव्यम् =

७४)     मम कर्तव्यम् =

७५)     मनुष्याणां क्षत्रियः शूरतमः =

७६)     द्यूते कितवः =

७७)     आवयोः मैत्री =

७८)     वृक्षात् पतितः =

७९)     शास्त्रे धूर्तः =

८०)     योगे सिद्धः =

८१)     आतपे शुष्कः =

८२)     क्रियायां धूर्तः =

८३)     ग्रामाद् आगतः =

८४)     देवैश्वर्यम् =

८५)     स्थाल्यां पक्वः =

८६)     योगे सिद्धः =

८७)     शास्त्रे पण्डितः =

८८)     धर्मकुशलः =

८९)     चक्रमुक्तः =

९०)     दाने शौण्डः =


विग्रहवाक्यं विलिख्य समासनाम, सूत्रञ्च निर्दिशत -

९१)     लक्ष्मीच्छाया =

९२)     अहिहतः =

९३)     मरुद्गणः =

९४)     अर्धग्रामः =

९५)     मरुत्पतिः =

९६)     आस्यप्रत्यनः =

९७)     मनोगतम् =

९८)     स्वर्गपतितः =

९९)     राजेश्वरः =

१००)    सर्पिष्कुण्डिका =

१०१)        श्रीशः =

१०२)        सुखापेतः =

१०३)        गङ्गोदकम् =

१०४)        गवाग्रम् =

१०५)        वाङ्मुखम् =

१०६)        वाक्पारुष्यम् =

१०७)        नृत्यकुशलः =

१०८)        व्याघ्रभीतः =

१०९)        नखभिन्नः =

११०)        वृश्चिकात् भीतिः =

१११)        गवे सुखम् =

११२)        कल्पनापोढः =

११३)        विद्याविहीनः =

११४)        एकोन =

११५)        मद्भक्तः =

११६)        त्वद्भयम् =

११७)        दैत्यारिः =

११८)        तत्कृतम् =

११९)         भूतबलिः =

१२०)        लोकहितम् =

१२१)        वृक्षच्छाया =

१२२)        मध्वरिः =

१२३)        वृक्षमूलम् =

१२४)        वनगतः =

१२५)        गृहरक्षणम् =

१२६)        रणशूरः =

१२७)        परभृतः =

१२८)        अस्मिन्मित्रम् =

१२९)        युष्मद्धितम् =

१३०)        भवन्नाम =

१३१)        कष्टाश्रतः =

१३२)        स्वर्गगता =

१३३)        भार्यासदृशः =

१३४)        सुखप्रातः =

१३५)        श्वलेह्यः कूपः =

१३६)        गोशाला =

१३७)        वचःसन्तुष्टः =

१३८)        यूपदारुः =

१३९)        राष्ट्रहितम् =

१४०)        शूर्पनिष्पावः =

१४१)        काकबलि =

१४२)        परशुच्छिन्नः =

१४३)        सर्वोदयः =

१४४)        तत्रभुक्तम् =

१४५)        देवपरिचारकः =

१४६)        दुःखापन्नः =

१४७)        वैदेहीभर्ता =

१४८)        अभ्यासपटुः =

१४९)        रात्रिसङ्क्रान्ताः मूहूर्ताः =

१५०)        हिमलयङ्गतः =

१५१)        अहः सङ्क्रान्ताः मूहूर्ताः =

१५२)   मन्दिरगतः =

१५३)        तिलामिश्राः =

१५४)        सुवर्णहारः =

१५५)        पादोनं =

१५६)        माषविकलं =

१५७)        अर्धपिप्पली =

१५८)        आचारश्लक्ष्णः =

१५९)        किरिकाणः =

१६०)        ग्रामार्धः =

१६१)        बलिपुष्टः =

१६२)        चोरहतः =

१६३)        अर्थगतः =

१६४)        गोरक्षितम् =

१६५)        तक्रौदनम् =

१६६)        पाणिनिप्रणीतम् =

१६७)        कृच्छ्राल्लब्धः =

१६८)        प्रतिशब्ददीर्घः=

१६९)        अभ्यासपटुः =

१७०)        सख्यभिहितम् =

१७१)        द्व्यूनम् =

१७२)        मनोनिर्मितम् =

१७३)        धनवत्तुल्या =

१७४)        वचस्सन्तुष्टा/वचःसन्तुष्टा =

१७५)        घटमृत्तिका =

१७६)        मूर्तिपाषाणः =

१७७)        कुण्डलहिरण्यम् =

१७८)        सुखार्थः =

१७९)        सुखार्था =

१८०)        सुखार्थम् =

१८१)        भूतबलिः =

१८२)        जनहितम् =

१८३)        धेनुरक्षितम् =

१८४)        दैवरक्षितः =

१८५)        शर्करामिश्रितः =

१८६)         ऊर्ध्वदेहः =

१८७)         सितेतरः =

१८८)         कन्याप्रियः =

१८९)         ग्रामनिर्गतः =

१९०)         परश्शताः =

१९१)         परस्सहस्राः पुरुषाः =

१९२)         खड्गहतः =

१९३)         तत्पुरुषः =

१९४)         मासपूर्वः =

१९५)     राजधानी =

१९६)     सक्तुधानी =

१९७)     भिक्षामात्रम् =

१९८)     छात्रप्रियः =

१९९)     मषीधानी =

२००)     गोलवणम् =

२०१)     अश्वलवणम् =

२०२)     शोकवशः =

२०३)     विद्यायुक्तः =

२०४)     अश्वघासः =

२०५)     वासभवनम् =

२०६)     शयनागारम् =

२०७)     लीलाम्बुजम् =

२०८)     बुद्धिहीनः =

२०९)     गुरुसमः =

२१०)     पितृतुल्यः =

२११)     कृष्णाश्रितः =

२१२)     सुखापन्नः =

२१३)     कल्पनातीतः =

२१४)     यानप्राप्तः =

२१५)     गृहगतः =

२१६)     जलपतिता =

२१७)     देवमित्रम् =

२१८)     निद्राबाधितः =

२१९)     नृपहतः =

२२०)     मरणभयम् =

२२१)     वनवासः =

२२२)     जलक्रीडा =

२२३)     पादोदकम् =

२२४)     स्वर्गगतः =

२२५)     नृपवचनम् =

२२६)     नृपोक्तम् =

२२७)     हनुमत्सन्देशः =

२२८)     रामहतः =

२२९)     भगवद्गीता =

२३०)     मन्मनः =

२३१)     तत्पतिः =

२३२)     तद्रतः =

२३३)     अस्मद्वियोगः =

२३४)     युष्मन्मित्रम् =

२३५)     त्वत्कृते =

२३६)     त्वत्स्नेहः =

२३७)     राजशत्रवः =

२३८)     आत्मनः ज्ञानम् =

२३९)     रामरतः =

२४०)     तत्वचनम् =

२४१)     जनकतनयास्नानपुण्योदकम् =

२४२)     हस्तिनासा =

२४३)     राजराजः =

२४४)     तत्पुरुषः =

२४५)     सङ्कटात्यस्तः =

२४६)     शस्त्रच्छिन्नः =

२४७)     क्रममुक्तः =

२४८)     क्रोधसमः =

२४९)     वाक्कलहः =

२५०)     जलमिश्रितः =

२५१)     ज्ञानशून्यः=

२५२)     अग्निदग्धः =

२५३)     धनहीनः =

२५४)     आत्मपरित्यक्तः =

२५५)     बुद्धिरहितः =

२५६)     चौरहृतम् =

२५७)     सर्पदृष्टः =

२५८)     चन्दनयुक्तः =

२५९)     विद्यानिपुणः =

२६०)     कालिदासेन कृतम् =

२६१)     वस्त्रावृतः =

२६२)     मेघाच्छन्नः =

२६३)     गुरुदक्षिणा =

२६४)     कुण्डलहिरण्यम् =

२६५)     राजपुरुषागमनम् =

२६६)     जन्मजातः =

२६७)     देशभक्तिः =

२६८)     युद्धभूमिः =

२६९)     मदान्धः =

२७०)     अन्नदाता =

२७१)     नीतिनिपुणः =

२७२)     आत्मविश्वासः =

२७३)     पुरुषोत्तमः =

२७४)     पापविमुक्तः =

२७५)     रामकृतः =

२७६) स्वकार्यकुशलाः =

२४४ ) यथासुखम् =

     


अस्मिन् श्लोके समासानां विग्रहवाक्यं, समासस्य नाम च वक्तव्यम् ।

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।

नास्ति येषां यशःकाये जरामरणजं भयम् ।।


अस्मिन् परिच्छेदे समासानां विग्रहवाक्यं, समासस्य नाम च वक्तव्यम् ।

सत्स्वपि महाभाष्यकैयटाद्याकरग्रन्थेषु परिभाषार्थतत्त्वप्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्तिसौकर्यायेमं ग्रन्थमारभमाणोत्र श्रोत्रॄणां प्रवृत्तये अनुबन्धचतुष्ट्यं प्रदर्शयन् विघ्नोच्छेदपूर्वकसमाप्तये कृतं शिष्टाचारनुमितश्रुतिभाष्यादिबोधितेतिकर्तव्यताकं मङ्गलं शिष्यशिक्षायै अभ्यासशालिनामनुषङ्गतो मङ्गलाय च रचयति ।


सत्सु अपि महाभाष्य-कैयटादि-आकर-ग्रन्थेषु परिभाषा-अर्थ-तत्त्व-प्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्ति-सौकर्याय इमं ग्रन्थम् आरभमाणः अत्र श्रोत्रॄणां प्रवृत्तये अनुबन्ध-चतुष्ट्यं प्रदर्शयन् विघ्न-उच्छेद-पूर्वक-समाप्तये कृतं शिष्टाचार-अनुमित-श्रुति-भाष्यादि-बोधित-इतिकर्तव्यताकं मङ्गलं शिष्य-शिक्षायै अभ्यासशालिनाम् अनुषङ्गतः मङ्गलाय च रचयति ।