मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by the same user not shown)
Line 191:
 
 
<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव सहनासिकासहौष्ठा ( सह नासिकाऔष्ठौ यस्याः सा ) इति उदाहरणे '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाधते यतोहि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपवादः नास्ति |</big>
 
 
<big>सहनासिकासहौष्ठा इति समासे, नासिकओष्ठ इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाची तथा च असंयोगोपधःसंयोगोपधः | अतः तदन्तात् सहनासिकसहौष्ठ इत्यस्मात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विकल्पेन ङीष् इति प्रत्ययः प्राप्तःअप्राप्तः अस्ति संयोगोपधात् इत्यनेन | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सूत्रेण ङीष् इति प्रत्ययस्य निषेधः कृतः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति | अतः सहनासिकसहौष्ठ इत्यत्र '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रेण ङीष् इति प्रत्ययस्य निषेधः क्रियते, अतः सहौष्ठा |</big>
 
 
<big>यथा पूर्वोक्तं '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''न क्रोडादिबह्वचः''' ( ४.१.५६) इति सूत्रस्य बाधकं भवति '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य बाधकं न भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन ङीषः विधानं निषिद्धियतेनिषिद्धयते | अतः पाक्षिकः ङीष् इति प्रत्ययः न भवितुम् अर्हति, अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति | सहनासिक इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते | एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते |</big>
 
 
page_and_link_managers, Administrators
5,251

edits