मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 91:
 
 
<big>इदानीं नासिकोदरयोः '''न क्रोडादिबह्वचः''' (४.१.५५५६) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | '''न क्रोडादिबह्वचः''' (४.१.५५५६) इत्यनेन क्रोडादेः बह्वचः च स्वाङ्गात् ङीष् न भवति | '''न क्रोडादिबह्वचः''' (४.१.५५५६) इति सूत्रस्य अपवादः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् | अत्र '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५५५६) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते न तु उत्तरान् | '''अर्थात् न क्रोडादिबह्वचः''' (४.१.५५५६) इति अनन्तरविधिः, तस्य ङीष् -निषेधस्य बाधकं भवति प्रकृतभूतम् अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे | अत्र उत्तरविधिः अस्ति '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रम् | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५५५६) इति अपवादसूत्रेण '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरविधिं न बाध्यते |</big>
 
Line 132:
 
 
<big>'''न क्रोडादिबह्वचः''' (४.१.५५५६) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>
 
<big>क्रोडा, खुरा , ऊखा, बाला, शफा , गुदा, घोणा, नखा, मुखा, सुभगा, सुगला इति शब्दाः क्रोडादिगणे सन्ति | क्रोडादिगणः आकृतिगणः अस्ति |</big>
page_and_link_managers, Administrators
5,250

edits