मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् </span>}}
 
 
{| class="wikitable"
Line 11 ⟶ 12:
|3) [https://archive.org/download/samAsaH-pANini-dvArA/194_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_2024-06-15.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-15]
|}
 
 
 
Line 18:
 
<big>'''<u>उदाहरणानि</u>''' —</big>
 
 
 
Line 25 ⟶ 24:
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः '''इणो यण्''' ( ६.४.८१) इति सूत्रम् | यन्ति, यन्तु, आयन् चेत्यत्र इयङादेशं प्राबाध्य '''इणो यण्''' ( ६.४.८१) इत्यनेन यणादेशः भवति |</big>
 
 
 
Line 32 ⟶ 30:
 
<big>ण्वुल्प्रत्यये परे</big> <big>'''अचो ञ्णिति''' (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि '''इणो यण्''' ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा '''इणो यण्''' ( ६.४.८१) इति सूत्रम् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |</big>
 
 
 
Line 41 ⟶ 38:
 
 
<big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः अवगमनार्थं सूत्रक्रमः ज्ञातव्यः -</big>
 
 
<big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः अवगमनार्थं सूत्रक्रमः ज्ञातव्यः -</big>
 
{| class="wikitable"
Line 59 ⟶ 55:
|<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४)</big>
|}
 
 
 
<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''इणो यण्''' ( ६.४.८१) इति अपवादभूतसूत्रं यत् मध्ये वर्तते, तत् पूर्वान् विधीन् एव बाधन्ते नोत्तरान् इति कृत्वा '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशमेव बाधते न तु परसूत्राणां कार्यम् | इति कृत्वा '''इणो यण्''' ( ६.४.८१) इति विधिः परयोः गुणवृद्ध्योः न बाध्यते | अर्थात् '''इणो यण्''' ( ६.४.८१) इति विधिः '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपवादः नास्ति अतः एव ''अयनम्, आयकः'' इति रूपं लभ्यते |</big>
 
 
 
 
<big>'''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अचः अङ्गस्य''' नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | '''अलोऽन्तस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |</big>
 
 
 
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस् अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इक्‌''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
 
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |</big>
 
 
 
<big>'''अन्यत् उदाहरणम्'''</big> <big>—</big>
 
 
 
Line 86 ⟶ 77:
 
<big>यथा - १) चन्द्रः इव मुखं यस्याः सा= चन्द्रमुखी, चन्द्रमुखा | मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति, अतः सः शब्दः असंयोगोपधः | मुखम् इति शब्दः स्वाङ्गवाची शब्दः अस्ति | समासः अदन्तः च अस्ति | अत्र च '''प्रथमानिर्दिष्टम् उपसरजनम्''' ( १.२.४३ ) इत्यनेन मुखशब्दस्योपसर्जनसंज्ञा यतोहि समासः विधीयते '''अनेकमन्यपदार्थे''' (२.२.२४) इत्यनेन सूत्रेण | '''अनेकमन्यपदार्थे''' (२.२.२४) इति सूत्रं वदति यत् अनेकं सुबन्तमन्यपदार्थे वर्तमानं सह समस्यते, बहुव्रीहिश्च समासो भवति इति | अतः स्वाङ्गं यदुपसर्जनमसंयोगोपधं तददन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | अतः चन्द्रमुख इति प्रातिपदिकात् ङीष् इति प्रत्ययः विकल्पेन विधीयते, अपक्षे टाप् इति प्रत्ययः विधीयते | चन्द्रमुख + ङीष् = चन्द्रमुखी, चन्द्रमुख + टाप् = चन्द्रमुखा ( '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति) |</big>
 
 
<big>२) अतिक्रान्ता केशान् = अतिकेशी, अतिकेशा माला |</big>
 
 
 
 
Line 97 ⟶ 87:
 
<big>'''आद्ययोः नासिकोदरयोः बह्वज्लक्षणो निषेधो बाध्यते पुरस्तादपवादन्यायात् |''' नासिका-उदरयोः बह्वच्कत्वात् न क्रोडादिबह्वचः इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन विधीयते | ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गेभ्यः संयोगोपधत्वाद् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' (४.१.५४) इति सूत्रघटक-असंयोगोपधात् इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन ङीष् विधीयते |</big>
 
 
<big>'''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण नासिकोदरयोः ङीष्- प्रत्ययः विकल्पेन प्राप्तः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण पुनः विकल्पेन नासिकोदरयोः ङीष् इति प्रत्ययस्य विधानं क्रियते | '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषया '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति विधिः अव्यवहितं पूर्वविधिमेव, '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रमेव बाधते, अतः नासिकोदरयोः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इत्यनेन एव विकल्पेन ङीष् -प्रत्ययस्य विधानं क्रियते |</big>
Line 103 ⟶ 94:
<big>इदानीं नासिकोदरयोः '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यनेन क्रोडादेः बह्वचः च स्वाङ्गात् ङीष् न भवति | '''न क्रोडादिबह्वचः''' (४.१.५६) इति सूत्रस्य अपवादः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं यतोहि '''न क्रोडादिबह्वचः''' (४.१.५६) इति सूत्रेण यः निषेधः उक्तः तस्य बाधकः अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् | अत्र '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते न तु उत्तरान् | '''अर्थात् न क्रोडादिबह्वचः''' (४.१.५६) इति अनन्तरप्रतिषेधः, तस्य ङीष्-निषेधस्य बाधकं भवति प्रकृतभूतम् अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे | अत्र उत्तरविधिः अस्ति '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रम् | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति अपवादसूत्रेण '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरविधिं न बाध्यते, केवलं '''न क्रोडादिबह्वचः''' (४.१.५६) इति अनन्तरप्रतिषेधमेव बाधते |</big>
 
 
 
<big>ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनम् इदं मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः सन्ति, अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः, अतः एतेषां ङीष् अप्राप्तः अस्ति '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति प्रकृतभूतसूत्रेण | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण प्रकृतसूत्रम् अपवादसूत्रं सामान्यसूत्राणां मध्ये पठितं वर्तते इत्यतः '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | सहनञ्लक्षणः तु प्रतिषेधः परत्वात् अस्य प्रकृतसूत्रस्य बाधकः अस्ति | अर्थात् प्रकृतसूत्रस्य अपेक्षया अग्रे आगम्यमानं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं परशास्त्रम् अस्ति इत्यतः तत् प्रकृतसूत्रस्य बाधकम् अस्ति | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं परत्वात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्यापि बाधकं भवति |</big>
Line 129 ⟶ 118:
 
<big>८) कल्याणपुच्छी, कल्याणपुच्छा |</big>
 
 
 
Line 148 ⟶ 136:
 
<big>१४) उलूकस्य पुच्छम् इव पुच्छं यस्याः सा = उलूकपुच्छी (having the shape of the tail of an owl) शाला |</big>
 
 
 
<big>'''न क्रोडादिबह्वचः''' (४.१.५६) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् क्रोडादिबह्वचः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विक्लपेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>
 
 
<big>क्रोडा, खुरा, ऊखा, बाला, शफा , गुदा, घोणा, नखा, मुखा, सुभगा, सुगला इति शब्दाः क्रोडादिगणे सन्ति | क्रोडादिगणः आकृतिगणः अस्ति |</big>
Line 160 ⟶ 150:
 
<big>शोभने जघने ( hip) यस्याः सा = सुजघना |</big>
 
 
 
Line 178 ⟶ 167:
 
<big>५) अविद्यमाना नासिका यस्याः सा = अनासिका |</big>
 
 
 
<big>अत्र सूत्रक्रमः एवम् अस्ति -</big>
 
 
{| class="wikitable"
!सूत्रक्रमः
Line 193 ⟶ 183:
|'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७)</big>
|}
 
 
 
 
Line 201 ⟶ 189:
 
<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव सहनासिका ( सह नासिका यस्याः सा ) इति उदाहरणे '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाधते यतोहि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपवादः नास्ति |</big>
 
 
<big>सहनासिका इति समासे, नासिक इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाची तथा च असंयोगोपधः | अतः तदन्तात् सहनासिक इत्यस्मात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विकल्पेन ङीष् इति प्रत्ययः प्राप्तः अस्ति | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सूत्रेण ङीष् इति प्रत्ययस्य निषेधः कृतः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति | अतः सहनासिक इत्यत्र '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रेण ङीष् इति प्रत्ययस्य निषेधः क्रियते |</big>
 
 
 
<big>यथा पूर्वोक्तं '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''न क्रोडादिबह्वचः''' ( ४.१.५६) इति सूत्रस्य बाधकं भवति '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य बाधकं न भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन ङीषः विधानं निषिद्धियते | अतः पाक्षिकः ङीष् इति प्रत्ययः न भवितुम् अर्हति, अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति | सहनासिक इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते | एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते |</big>
 
 
 
 
Line 216 ⟶ 201:
 
<big>ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्थानि पदानि स्वाङ्गानि सन्ति | तदन्तात् प्रातिपादिकात् स्त्रियाम् इत्यस्मिन् अधिकारे ङीष् प्राप्तः विकल्पेन परन्तु '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रे असंयोगापधात् इति पर्युदासात्मकस्य निषेधस्य कारेण ङीष् इति प्रत्ययस्य प्राप्तिः न भवति यतोहि पूर्वोक्ताः ओष्ठादयः शब्दाः संयोगपधाः सन्ति | एतेषां पञ्चानां शब्दानां विषये '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रे उक्तस्य निषेधस्य बाधा अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः प्रवृत्तिः अस्ति | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः | अनेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रस्य बाधकं भवति न तु उत्तरस्य '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य | आहत्य '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४), '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) चेति सूत्रद्वयं बाधते |</big>
 
 
 
Line 226 ⟶ 210:
 
<big>अत्र स्पष्टं प्रतीयते  यद् अपवादसूत्रं '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं मध्ये पठितमस्ति | अतः अयमपवादः स्वस्मात् पूर्ववर्तिनः अर्थात् असंयोगोपधात् इत्यस्य बाधकः भवति | स्वस्माद् उत्तरवर्तिनः '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य बाधकः न भवति | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७)  इति सूत्रं परं भवति, अतः परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य बाधकं भवति |</big>
 
 
 
page_and_link_managers, Administrators
5,251

edits