मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 51:
 
 
<big>यथा - १) चन्द्रमुखी, चन्द्रमुखा |</big>
<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''न्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>
 
<big>२) अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला |</big>
 
 
सहनञ्विद्यमानपूर्वाच्च (४.१.५७)
 
 
<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''न्यतोअन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>
 
 
<big>यथा -</big>
 
<big>१) तुङ्गनासिकी, तुङ्गनासिका, २) तिलोदरी, तिलोदरा, ३) बिम्बोष्ठी, बिम्बोष्ठा, ४) दीर्घजङ्घी, दीर्घजङ्घा,५) समदन्ती, समदन्ता, ६) चारुकर्णी, चारुकर्णा, ७) तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा | '''पुच्छाच्चेति वक्तव्यम्''' | ८) कल्याणपुच्छी, कल्याणपुच्छा | '''कबरमणिविषशरेभ्यो नित्यम्''' | ९) कबरपुच्छी १०) मणिपुच्छी ११) विषपुच्छी १२) शरपुच्छी | '''उपमानात् पक्षात् च पुच्छात् च''' | १३) उलूकपक्षी सेना १४) उलूकपुच्छी शाला |</big>
 
 
'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७) = सह नञ् विद्यमान इत्येवंपूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४)''', नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः विद्यमानः इति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानापूर्वं, तस्मात् | सहनञ्विद्यमानापूर्वात् पञ्चम्यन्तं, चाव्ययम् | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | '''न क्रोडादिबह्वचः''' ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' न |</big>
 
<big>यथा - १) सकेशा ( सह केशा यस्याः सा) २) अकेशा ( अविद्यमानाः केशाः यस्याः सा), ३) विद्यमानकेशा (विद्यमाना नासिका यस्याः सा), ४) सनासिका (सह नासिका यस्याः सा), ५) अनासिका (अविद्यमाना नासिका यस्याः सा), ६) विद्यमाननासिका (विद्यमाना नासिका यस्याः सा) चेति |</big>
page_and_link_managers, Administrators
5,243

edits