मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 16:
 
 
<big>ण्वुल्प्रत्यये परे</big> <big>'''अचो ञ्णिति''' (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि '''इणो यण्''' ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा '''इणो यण्''' ( ६.४.८१) इति सूत्रम् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |</big>
 
<big>यदि एवमुच्यते यत् '''इणो यण्''' ( ६.४.८१) '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) '''अचो ञ्णिति''' (७.२.११५),तथा च '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्येतेषां सर्वेषां सूत्राणाम् अन्यत्रान्यत्रलब्धकाशः अस्ति इत्यतः '''विप्रतिषेधे परं कार्यम्''' (१.४.१) इत्यनेन परसूत्रस्य कार्यं स्यात् इति | तर्हि '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः एव स्यात् , किन्तु '''अचो ञ्णिति''' (७.२.११५) इति सूत्रं तु '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य अपवादः इति कृत्वा तस्यैव कार्यं प्रथमतया स्यात् इति |</big>
 
<big>एवमुच्यते चेत् '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नः उदेति | अस्य समाधानम् अस्ति यत् '''लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌''' इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्‌ | अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य (सूत्रस्य) अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम्‌ | लक्षणप्रतिपदोक्तयोः मध्ये साक्षातदुच्चारितत्त्वेन प्रतिपदोक्तत्वस्य एव शीघ्रोपस्थितिः भवति, अतः '''इणो यण्''' ( ६.४.८१) इति सूत्रे इण् -धातोः प्रतिपदोक्तत्त्वात् तस्य बलवत्त्वं स्यात् अन्येषां सूत्राणाम् अपेक्षया | एवं चेत् समस्या जायेत, अतः '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन निर्णयः शक्यते यत् प्रतिपदोक्त्तत्वं चेदपि पूर्वस्य विधिन् एव बाधते न तु उत्तरस्य इति |</big>
 
 
 
Line 51 ⟶ 56:
 
 
<big>यथा - १) चन्द्रः इव मुखं यस्याः सा= चन्द्रमुखी, चन्द्रमुखा | चन्द्रमुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति, मुखम् इति शब्दः स्वाङ्गवाची शब्दः अस्ति, मुख|अत्र इति शब्दः`प्रथमानिर्दिष्टम्` समासस्य अन्ते१.२.४३ चे वर्ततेइत्यादिना मुखशब्दस्योपसर्जनसंज्ञाते, समासः अदन्तः च अस्ति, चन्द्रमुख इति शब्दः उपसर्जनीभूतः यतोहि अन्यपदार्थप्राधान्यम् वर्तते | अतः ङीष् इति प्रत्ययः विकल्पेन विधीयते, अपक्षे टाप् इति प्रत्ययः भवति | चन्द्रमुख + ङीष् = चन्द्रमुखी, चन्द्रमुख + टाप् = चन्द्रमुखा ( '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति |</big>
 
<big>२) अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला |</big>
page_and_link_managers, Administrators
5,233

edits