page_and_link_managers, Administrators
5,233
edits
No edit summary |
No edit summary |
||
Line 36:
<big>एवमुच्यते चेत् '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नः उदेति | अस्य समाधानम् अस्ति यत् '''लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्''' इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत् | अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य (सूत्रस्य) अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम् | लक्षणप्रतिपदोक्तयोः मध्ये
Line 60:
<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''इणो यण्''' ( ६.४.८१) इति अपवादभूतसूत्रं यत् मध्ये वर्तते, तत् पूर्वान् विधीन् एव बाधन्ते इति कृत्वा '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशमेव बाधते न तु परसूत्राणां कार्यम् | इति कृत्वा '''इणो यण्''' ( ६.४.८१) इति विधिः परयोः गुणवृद्ध्योः न बाध्यते | अर्थात् '''इणो यण्''' ( ६.४.८१) इति विधिः '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपवादः नास्ति अतः एव
Line 88:
<big>'''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण नासिकोदरयोः ङीष्- प्रत्ययः विकल्पेन प्राप्तः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति
<big>इदानीं नासिकोदरयोः '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यनेन क्रोडादेः बह्वचः च स्वाङ्गात् ङीष् न भवति | '''न क्रोडादिबह्वचः''' (४.१.५६) इति सूत्रस्य अपवादः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं यतोहि '''न क्रोडादिबह्वचः''' (४.१.५६) इति सूत्रेण यः निषेधः उक्तः तस्य बाधकः अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् | अत्र '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते न तु उत्तरान् | '''अर्थात् न क्रोडादिबह्वचः''' (४.१.५६) इति अनन्तरविधिः, तस्य ङीष्
<big>ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनं, मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः सन्ति, अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः, अतः एतेषां ङीष् अप्राप्तः अस्ति '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति
Line 103:
<big>१) तुङ्गे ( elevated) नासिके यस्याः सा = तुङ्गनासिकी, तुङ्गनासिका,</big>
<big>२) तिलम् उदरे यस्याः सा = तिलोदरी, तिलोदरा,</big>
<big>३) बिम्बम्( Red colored Bimba fruit ) इव ओष्ठौ यस्याः सा = बिम्बोष्ठी, बिम्बोष्ठा,</big>
Line 111:
<big>५) समाः दन्ताः यस्याः सा = समदन्ती, समदन्ता,</big>
<big>६)
<big>७) तीक्ष्णे शृङ्गे यस्याः सा = तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा |</big>
Line 121:
<big>'''
<big>९) कबरं (चित्रं) पुच्छं यस्याः सा = कबरपुच्छी( a peahen) | १०) मणिपुच्छी ( Having lumps on the tail) ,११) विषपुच्छी ( scorpion) , १२) शरपुच्छी ( tail like a reed, grass) |</big>
Line 134:
<big>'''न क्रोडादिबह्वचः''' (४.१.५६) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>
<big>क्रोडा, खुरा
<big>यथा -</big>
<big>कल्याणी ( good) क्रोडा ( chest) यस्याः सा =
<big>
'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७) = सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४)''', नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः ''विद्यमानः'' इति | ङीष् इति प्रत्ययस्य अभावे '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानपूर्वं, तस्मात् | सहनञ्विद्यमानपूर्वात् पञ्चम्यन्तं, चाव्ययम् | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | '''न क्रोडादिबह्वचः''' ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>
<big>यथा -</big>
<big>१) सह केशा यस्याः सा = सकेशा</big>
<big>२) अविद्यमानाः केशाः यस्याः सा = अकेशा</big>
<big>३) विद्यमाना नासिका यस्याः सा) = विद्यमाननासिका</big>
<big>४) सह नासिका यस्याः सा) = सनासिका</big>
<big>५) (अविद्यमाना नासिका यस्याः सा = अनासिका |</big>
<big>अत्र सूत्रक्रमः एवम् अस्ति -</big> ▼
{| class="wikitable"
!सूत्रक्रमः
Line 168 ⟶ 177:
'''<big>स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्</big>''' <big>( ४.१.५४), '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५),'''न क्रोडादिबह्वचः''' ( ४.१.५६), '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७)
<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव सहनासिका ( सह नासिका यस्याः सा ) इति उदाहरणे '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाधते यतोहि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपवादः नास्ति |</big>
<big>नासिका इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाची तथा च असंयोगोपधः | अतः तदन्तात् सहनासिका इत्यस्मात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विकल्पेन ङीष् इति प्रत्ययः प्राप्तः अस्ति | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सूत्रेण ङीष् इति प्रत्ययस्य निषेधः कृतम् अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति
<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''न क्रोडादिबह्वचः''' ( ४.१.५६) इति सूत्रस्य बाधकं भवितुम अर्हति यथा पूर्वचर्चितं '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य बाधकं न भवति | अतः पाक्षिकः ङीष् इति प्रत्ययः न भवितुम् अर्हति, अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति | सहनासिका इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते | एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते |</big>
Line 180 ⟶ 194:
<big>ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्थानि पदानि स्वाङ्गानि सन्ति |
Line 186 ⟶ 200:
'''<big>मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति परिभाषायाः अपेक्षया '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषा प्रबला अस्ति | अस्य प्रमाणमस्ति '''अष्टाभ्यः औश्''' ( ७.१.२९) इति सूत्रभाष्ये स्पष्टम् उक्तम् | यत्र अनयोः परिभाषायाः प्रयोगः अस्ति तत्र '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषायाः प्राबाल्यम् अस्ति | किमर्थं चेत् '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः प्रयोगे पूर्वसूत्रम् उत्तरसूत्रं च व्यवहितं भवितुम् अर्हति | समीपवर्तिनः भवेत् इति नियमः नास्ति इत्यतः पूर्वसूत्रम् उत्तरसूत्रं च भिन्ने अध्याये भवितुम्
|