01---dhAtugaNaparicayah/3---guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
ध्वनिमुद्रणानि - [[1 - धातुगणाः|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते
 
 
 
धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?
ध्वनिमुद्रणानि - [[1 - धातुगणाः|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते
 
 
धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?
 
१. प्रथमे गणे विकरण-प्रत्ययस्य 'अ' इति भागः अवशिष्यते | षष्ठे गणे अपि सा एव गतिः | तर्हि यत्र धातुः तिङ्‌-प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन्‌ गणे अस्ति ?
 
 
उत्तरम्‌— दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते | यत्र धात्वङ्गे गुणः दृश्यते, तत्र "प्रथमे गणे अस्ति" इति ज्ञायते | अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति |
Line 33 ⟶ 35:
 
लिख्‌ धातौ अन्तर्भूतः स्वरः 'इ' | इकारस्य गुणः एकारः | किन्तु लिख्‌-धातोः लटि "लिखति" इत्यस्ति, न तु "लेखति" | गुणः न जातः, अतः षष्ठे गणे अस्ति | लिख्‌-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि "लेखति" इति रूपम्‌ अभविष्यत्‌ | तथा नास्ति एव; तुदादिगणे अस्ति अतः "लिखति” इति रूपं भवति |
 
 
कृष्‌ इत्यस्य धातुद्वयम्‌ अस्ति | एकः कृष्‌-धातुः भ्वादिगणे अस्ति, अपरः कृष्‌-धातुः तुदादिगणे अस्ति | भ्वादिगणे कृष्‌-धातोः "कर्षति" इति रूपं लटि | ऋकारस्य गुणः अर्‌ किल, अतः कृष्‌ → कर्ष्‌ भ्वादिगणे | किन्तु तुदादिगणे अन्तर्भूतः कृष्‌-धातुः लटि "कृषति" इति | नाम ऋकारस्य गुणः तत्र न भवति |
 
 
 
४. भ्वादिगणे गुणः सर्वत्र न भवति | तर्हि कुत्र भवति, कुत्र न भवति इति प्रश्नः |
 
 
 
सरलतया उक्तं चेत्‌, कस्मिंश्चित्‌ धातौ इ/ई, उ/ऊ, ऋ/ॠ एषु स्वरेषु एकः अस्ति चेत्‌, तस्य स्वरस्य गुणः भवति | किन्तु तावत्‌ एव वदामः चेत्‌, कुत्रचित्‌ दोषः भवति |
 
 
अतः सम्यक्तया अवगमनार्थं किञ्चित्‌ इतोऽपि वक्तव्यम्‌ अस्ति | अत्र मुख्यतः नियमद्वयम्‌ अस्ति |
Line 57 ⟶ 65:
 
५. किमर्थं गुणः भवति भ्वादिगणे, न तु तुदादि गणे ?
 
 
पूर्वतने पाठे, अस्माभिः ज्ञातं यत्‌ विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति | न तिष्ठन्ति यतः तेषां वर्णानाम्‌ "इत्‌-संज्ञा" भवति, इत्‌-संज्ञा इति कारणतः तेषां लोपः भवति | एभिः इत्‌-संज्ञक-वर्णैः किञ्चित्‌ विशिष्टं कार्यं निर्दिष्टं भवति | कीदृशं कार्यम्‌ इति सम्प्रति पश्याम |
Line 67 ⟶ 76:
 
विकरणप्रत्यये प्‌ इत्यस्य कार्यं— प्‌ नास्ति चेत्‌, गुणस्य कृते अवरोधं करोति | (प्‌ अस्ति चेत्‌, गुणस्य न कोऽपि अवरोधः |)
 
 
भ्वादिगणे श्‌ अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति | प्‌ अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः | अतः गुणः भवति | कृष्‌ + शप्‌ + ति = कर्षति |
 
 
तुदादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातम्‌ | श नाम "श्‌ + अ" | तर्हि किं भवति‌ ? शकारः गुणस्य कृते प्रेरयति | परन्तु, तुदादिगणे विकरणप्रत्ययः केवलं श; नाम पकारः नास्ति | पकारः नास्ति चेत्‌, गुणस्य कृते अवरोधः इति उक्तम्‌ | अतः गुणः न भवति | कृष्‌ + श + ति = कृषति |
Line 74 ⟶ 85:
 
६. धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत्‌, गुणस्य प्रसक्तिः नास्ति | अतः तत्र भ्वादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः | उदाहरणार्थं पठ्‌ (पठति), पत्‌ (पतति), त्यज्‌ (त्यजति), वद्‌ (वदति) इत्यादीन्‌ धातून्‌ तु गुणाधारेण न ज्ञातुम्‌ अर्हामः | किन्तु लोके एकः मार्गदर्शकः अस्ति— आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत्‌, भ्वादिगणे अस्ति | नाम एतादृशः (अकारयुक्तः) धातुः परिचितः अस्ति चेत्‌, प्रायः भ्वादिगणे स्यात्‌ | (अपवादः अस्ति चल्‌-धातुः, लटि चलति; अयं धातुः प्रसिद्धः किन्तु तुदादिगणे न तु भ्वादिगणे |)
 
 
 
७. प्रश्नः उदेति यत्‌ येषां धातूनां गुण-प्रसङ्गः नास्त्येव, तेषां केन आधारेण भ्वादिगणे तुदादिगणे वा इति निर्णयः ? यथा पठ्‌-धातुः किमर्थं भ्वादिगणे ? चल्‌-धातुः किमर्थं तुदादिगणे ? प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे | भ्वादिगणे, शतृ-प्रत्ययस्य संयोजनेन, स्त्रियां नुमागमः (नकारः) सर्वत्र भवति | बालिका वदन्ती गच्छति; माता खादन्ती चिन्तयति | भ्वादिगणे, स्त्रियाम्‌ अयं नकारः सर्वदा भवति | परन्तु तुदादिगणे अयं नकारः वैकल्पिकः | बालिका चलती चिन्तयति, बालिका चलन्ती चिन्तयति वा | भ्वादौ तुदादौ च अयं भेदः सर्वत्र अस्ति; शत्रन्तपदेषु भ्वादौ नुमागमः नित्यः; तुदादौ च वैकल्पिकः |
 
 
 
८. उपर्युक्त-गुणकार्यस्य प्रक्रिया कीदृशी इत्यस्य ज्ञानार्थं, सूत्र-सहितं स्पष्टीकरणम्‌ अग्रे द्वितीय-पाठे पश्येम |
Line 82 ⟶ 97:
 
[https://static.miraheze.org/samskritavyakaranamwiki/1/18/3_-_guNaH.pdf 3 - guNaH.pdf]
 
 
Swarup – August 2012