02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 11:

एतावता अस्माभिः दृष्टं यत्‌ भ्वादिगणे धात्वङ्गस्य स्वरे गुणः भवति | केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम्‌ इत्यपि अस्माभिः दृष्टम्‌ | कानिचन उदाहरणानि अपि निरूपितानि आसन्‌ | इदानीं पुनः गुणविषये विचारयाम-- अस्मिन्‌ पर्याये सूत्रसहिता चर्चा करिष्यते |

पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्‌ | तत्र संस्कृतभाषायाः संपूर्णं मानचित्रं लभ्यते | एकैकं पदं कथं निर्मितम्‌ इति अनेन ग्रन्थेन ज्ञायते | इदं मानचित्रं सूत्ररूपेण विरचितम्‌ | तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम्‌ इच्छति, पाणिनीय-सूत्राधारेण प्रदर्शनीयं भवति | व्याकरणलोके सूत्रं प्रमाणम्‌ |

अतः एवं रीत्या धातुविषये अपि अवलोकनीयम्‌ | पद्धतिः अपि अत्यन्ता सुन्दरी | तर्हि अग्रे सरेम, धातुगण-व्यवस्थां, गुण-व्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम |

पूर्वम्‌ अस्माभिः दृष्टं यत्‌ भ्वादिगणे नियमद्वयस्य बलेन गुणः क्रियते | एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः; अपरनियमः यत्र धातोः उपधा स्वरः इति |

अधुना प्रथमं नियमम्‌ अवलोकयाम, भू-धातोः माध्यमेन—

Line 31 ⟶ 33:

अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः ?

Line 56 ⟶ 58:

२. '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३)

'''तिङ्‌शित्‌ सार्वधातुकम्‌''' इति संज्ञा-सूत्रम्‌ | अनेन यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | सार्वधातुकम्‌ एका संज्ञा, एकं नाम तावत्‌ एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |

Line 72 ⟶ 76:

३. शप्‌ प्रत्यये, शकारपकारयोः लोपः | अकारः एव अवशिष्यते |

शकारस्य इत्‌-संज्ञा, लोपश्च इत्युक्तम्‌ | पकारस्य '''हलन्त्यम्‌''' (१.३.३) इति सूत्रेण इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन इत्‌-संज्ञकस्य पकारस्य लोपः |

Line 85 ⟶ 90:

४. भू-धातुः अजन्तः (स्वरान्तः) धातुः, नाम अन्तिमवर्णः स्वरः इति | अच्‌-प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः | अतः अच्‌ इति कश्चन सङ्क्षेपः स्वराणां कृते | तथा हि अपरः प्रत्याहारः इक्‌ | इ, ई, उ, ऊ, ऋ, ॠ, ऌ, इत्येषां प्रत्याहारः इक्‌ इति उच्यते | भू-धातोः अन्तिमवर्णः ऊकारः, अतः भू-धातुः इगन्तः धातुः | इक्‌ अन्ते यस्य सः इगन्तः |

Line 93 ⟶ 99:

यत्र इत्‌-संज्ञां कृत्वा लोपः साध्यते, तत्र यस्य लोपः जातः, सः इत्‌-संज्ञावान्‌ | इत्‌-संज्ञावान्‌ इति कारणेन तस्य प्रभावः तिष्ठति | कुत्र तिष्ठति ? बहुव्रीहिसमासेन यस्य इत्‌-संज्ञकवर्णः, तस्मिन्‌ प्रभावः | यथा शप्‌-प्रत्यये शकारपकारयोः इत्‌-संज्ञां कृत्वा लोपः | इत्‌-संज्ञावान्‌ शकारः यस्य सः शित्‌ | शप्‌-प्रत्ययस्य इत्‌-संज्ञावान्‌ शकारः, अतः शप्‌-प्रत्ययः शित्‌ | शप्‌ शित्‌ अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शप्‌-प्रत्ययः सार्वधातुक-संज्ञकः | एतस्मात् कारणात्‌ नूतन-सूत्रस्य कार्यं भवति—

'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) |

Line 105 ⟶ 112:

'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इक्‌''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |

Line 117 ⟶ 125:

पाणिनिः सूत्राणां लघुत्वम्‌ इच्छति | तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारक-सन्देशः अपेक्ष्यते, तस्य वारं वारम्‌ आवृत्तेः स्थाने परिभाषासूत्रम्‌ पाणिनिना विरच्यते | इमानि सूत्राणि कस्यचित्‌ सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति |

Line 131 ⟶ 140:

'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्‌, अन्त्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात्‌ '''षष्ठी''', '''स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) |

६. भो + अ + ति

Line 157 ⟶ 168:

भू + शप्‌ + ति → '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्‌''' (१.३.३), '''तस्य लोपः''' (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌ → '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शप्‌-प्रत्ययस्य सार्वधातुक-संज्ञा → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति → वर्णमेलने → भवति |

८. भ्वादिगणे यत्र यत्र इगन्तधातुः, तत्र तत्र एतादृशः क्रमः |

page_and_link_managers, Administrators
5,097

edits