02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary

(6 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:3 - तुदादिगणे न गुणः}}

{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि

Line 8 ⟶ 9:

भ्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध-लोपानन्तरम्, 'अ' एव अवशिष्यते इति अस्माभिः दृष्टम्‌ | तयोः गणयोः तिङन्तपदानां साम्यम्‌ अपि अस्ति— यथा भ्वादौ 'भवति', तुदादौ 'लिखति'— उभयत्र 'ति' इत्यस्मात्‌ पूर्वम्‌ अकारः | तर्हि किमर्थं गणद्वयम्‌ ? एतावता प्रायः सर्वे जानीयुः यत्‌ भ्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते | अस्मिन्‌ पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः |

दृष्टान्ते, भू-धातुः इगन्तः अस्ति | शप्‌-प्रत्यये परे इगन्त-भू-धातोः ऊकारस्य गुणादेशो भवति, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रेण | बुध्‌-धातोः उपधायां लघु इक्‌-वर्णः अतः शप्‌-प्रत्यये परे तस्य बुध्‌-धातोः उकारस्य गुणादेशो भवति '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रेण | आहत्य भ्वादिगणे इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः; उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः च | अधुना तुदादिगणे तत्‌ अवस्थाद्वयम्‌ अस्ति चेदपि गुणः न | इत्युक्तौ, (१) इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः न; (२) तथा हि उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः न | यद्यपि तुदादिगणे श-विकरणप्रत्ययः शित्‌ अस्ति (भ्वादिगणस्य शप्‌ इव), तथापि तुदादौ गुणः न भवति |

भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति, तस्य गुणस्य कारणम्‌ अस्माभिः ज्ञायते | इगन्तधातुः भवतु, लघूपधधातुः भवतु, उभयत्र गुणस्य निमित्तं शप्‌ इति विकरणप्रत्ययः |

शप्‌-विकरणप्रत्यये शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः शप्‌ "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ सार्वधातुकम्‌; शप्‌ सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात्‌ '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |

अधुना तुदादिगणे विकरणप्रत्ययः श; स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः श "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुकसंज्ञ्कः; तर्हि तुदादिगणे अपि '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्‌, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च भवेत्‌ | इदं सर्वं सत्यं सत्यपि गुणः न भवति | तर्हि कः भेदः ? श-प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत्‌, किमर्थं भ्वादिगणे यत्र गुणः भवति, तत्र तुदादिगणे न भवति ?

अत्र केचन प्रश्नाः
Line 32 ⟶ 35:
२) विकरणप्रत्यये इत्‌-संज्ञक-पकारस्य कार्यं— तस्य पकारस्य अभावे गुणस्य अवरोधः भवति |

इत्‌-संज्ञक-शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः | सूत्र-दृष्ट्या पकारस्य कार्यं कथं भवति ?

भ्वादिगणे, विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम्‌ अनुमतिः अस्ति— अतः सारल्यार्थं भ्वादिगणे पकार-संबद्ध-सूत्रसहित-चर्चा न जाता | परन्तु तुदादिगणे, पकारस्य अभावे गुणावरोधः | स च अवरोधः कथम्‌ इति अवश्यं द्रष्टव्यम्‌ |

लिख्‌-धातोः उदाहरणम्‌ अत्र अवलोकयाम—
Line 46 ⟶ 49:
३. लिख्‌ + अ + ति

श ('अ') शित्‌ अस्ति अतः '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुक-संज्ञकः अपि अस्ति | '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण लिख्‌-धातोः उपधायां ह्रस्व-इकारस्य गुण-प्रसक्तिः अस्ति | अतः अनेन “लेखति" इति स्यत्‌ |

किन्तु श-विकरणप्रत्ययः न केवलं शित्‌, अपि तु '''अपित्‌''' |

'''अपित्‌''' = यस्मिन्‌ इत्‌-संज्ञकः पकारः नास्ति, सः अपित्‌ इति उच्यते |

[विकरणप्रत्ययः श शित्‌ अस्ति इति स्मरतु | नाम, यद्यपि शकारस्य लोपः जातः‌, तथापि शकारस्य प्रभावः अस्ति एव यतः लोपः इत्युक्ते अदृश्यः, न तु अपगतः | परन्तु तुदादिगणे, विकरणप्रत्ययस्य पकारः नासीत्‌ एव | पकार-लोपः इति न; पकारः नास्ति एव | अतः श-विकरणप्रत्ययः अपित्‌ इति उच्यते |]

४. '''सार्वधातुकमपित्‌''' (१.२.४) [अपित्‌ = ङित्‌]

अनुवृत्ति-सहितं सूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' | अर्थः एवम्‌— अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | अयम्‌ "अतिदेशः" इत्युच्यते | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः "तथा भवतु" इति विधानम्‌ | यथा "सिंहो माणवकः"— माणवकः (बालकः) सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम्‌ अध्यारोपितम्‌ |

यस्मिन्‌ प्रत्यये ङकारस्य इत्‌-संज्ञा अस्ति, सः प्रत्ययः ङित्‌ (यस्य ङकारः इत्‌, सः ङित्‌) | ङित्‌ प्रत्ययानां किञ्चन विशिष्टं कार्यम्‌ अस्ति | तत्‌ किं कार्यम्‌ इति सम्प्रति उच्यते; अत्र तावदेव अवगच्छतु— '''सार्वधातुकमपित्‌''' इति सूत्रेण यः प्रत्ययः अपित्‌, सः यद्यपि साक्षात्‌ ङित्‌ नास्ति, तथापि ङित्‌ इव भवति | अतः यथा ङित्‌-प्रत्ययः कार्यं करोति, तथा अपित्‌-प्रत्ययः अपि कार्यं करोतु | तच्च कार्यं किम्‌ इति इदानीं पश्याम |

५. '''क्क्ङिति च''' (१.१.५) [गुण-बाधकं सूत्रम्‌]

५. '''क्क्ङिति च''' (१.१.५) [गुण-बाधकं सूत्रम्‌]

अनुवृत्ति-सहितं सूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' | यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्य प्रत्ययस्य कारणात्‌ अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति | गुणस्य वृद्धेः च बाधकं सूत्रं इदम्‌ | (सम्प्रति अस्माकम्‌ अवधानं गुणे, न तु वृद्धौ |)

"क्क्ङिति" सप्तम्यन्तं हलन्तं पदम्‌ | तस्य अर्थः एवम्‌— ग्‌ च क्‌ च ङ्‌ च ते इत्‌-संज्ञक-वर्णाः यस्य सः प्रत्ययः क्क्ङित्‌ | तस्मिन्‌ इति | सप्तम्यन्तं यतः कार्यं तस्मात्‌ पूर्वं भवति स्म; तस्मात्‌ प्रत्ययात्‌ पूर्वम्‌ इकः गुणः च वृद्धिः च न भवति |

६. '''सार्वधातुकमपित्‌''' इत्यनेन सूत्रेण यः प्रत्ययः अपित्‌, सः ङित्‌ इव अस्ति | अतः यत्‌ कार्यं ङित्‌ प्रत्ययः करोति, तदेव कार्यं अपित्‌ प्रत्ययः अपि करोति | तुदादिगणे श-विकरणप्रत्ययः अपित्‌ अस्ति, अतः ङित्‌ इव कार्यं करोति | नाम, गुण-बाधकं-कार्यं करोति |

७. गुणाभावे, वर्णमेलने लिख्‌ + अ + ति → लिखति इति भवति |

तर्हि सारांशः एवं यत्‌ यत्र विकरणप्रत्यये पकारः नास्ति‌, तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति | तुदादिगणे, विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत्‌-संज्ञक-पकारस्य अभावे गुणार्थं बाधा भवति |

पूर्णसूत्रार्थः

'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |

'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |

पाणिनीयसूत्राणि षड्‌विधा—

पाणिनीयसूत्राणि षड्‌विधा—

संज्ञा च परिभाषा च विधिर्नियम एव च |
Line 91 ⟶ 99:
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌ |

'''क्क्ङिति च''' (१.१.५) निषेधकं सूत्रम्‌; नाम अनेन कार्यं निषिध्यते | निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति |

'''सार्वधातुकमपित्‌''' (१.२.४) कीदृशं सूत्रम् ?
page_and_link_managers, Administrators
5,097

edits