02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH: Difference between revisions

no edit summary
(PDF uploaded)
No edit summary
Line 13:
<big><br />भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति, तस्य गुणस्य कारणम्‌ अस्माभिः ज्ञायते | इगन्तधातुः भवतु, लघूपधधातुः भवतु, उभयत्र गुणस्य निमित्तं शप्‌ इति विकरणप्रत्ययः |  </big>
 
<big><br />शप्‌-विकरणप्रत्यये शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः शप्‌ "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ सार्वधातुकम्‌; शप्‌ सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात्‌ '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |</big>
 
<big>अधुना तुदादिगणे विकरणप्रत्ययः श; स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः श "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुकसंज्ञ्कः; तर्हि तुदादिगणे अपि '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्‌, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च भवेत्‌ | इदं सर्वं सत्यं सत्यपि गुणः न भवति | तर्हि कः भेदः ? श-प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत्‌, किमर्थं भ्वादिगणे यत्र गुणः भवति, तत्र तुदादिगणे न भवति ?</big>
teachers
810

edits