02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH: Difference between revisions
02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH (view source)
Revision as of 04:29, 20 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |

Line 8:

<big

शप्-विकरणप्रत्यये शकारस्य इत्-संज्ञा, लोपः च इति कारणतः शप् "शित्" (यस्य शकरः इत्, सः शित्); '''तिङ्-शित्सार्वधातुकम्''' इत्यनेन सूत्रेण शप् सार्वधातुकम्; शप् सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात् '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |

अत्र केचन प्रश्नाः
Line 32 ⟶ 34:
२) विकरणप्रत्यये इत्-संज्ञक-पकारस्य कार्यं— तस्य पकारस्य अभावे गुणस्य अवरोधः भवति |

भ्वादिगणे, विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति— अतः सारल्यार्थं भ्वादिगणे पकार-संबद्ध-सूत्रसहित-चर्चा न जाता | परन्तु तुदादिगणे, पकारस्य अभावे गुणावरोधः | स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम् | ▼

लिख्-धातोः उदाहरणम् अत्र अवलोकयाम—
Line 46 ⟶ 48:
३. लिख् + अ + ति

श ('अ') शित् अस्ति अतः '''तिङ्-शित्सार्वधातुकम्''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुक-संज्ञकः अपि अस्ति | '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण लिख्-धातोः उपधायां ह्रस्व-इकारस्य गुण-प्रसक्तिः अस्ति | अतः अनेन “लेखति" इति स्यत् |

[विकरणप्रत्ययः श शित् अस्ति इति स्मरतु | नाम, यद्यपि शकारस्य लोपः जातः, तथापि शकारस्य प्रभावः अस्ति एव यतः लोपः इत्युक्ते अदृश्यः, न तु अपगतः | परन्तु तुदादिगणे, विकरणप्रत्ययस्य पकारः नासीत् एव | पकार-लोपः इति न; पकारः नास्ति एव | अतः श-विकरणप्रत्ययः अपित् इति उच्यते |]

अनुवृत्ति-सहितं सूत्रम्— '''सार्वधातुकम् अपित् ङित्''' | अर्थः एवम्— अपित् सार्वधातुकम् ङित् इव अस्ति | अयम् "अतिदेशः" इत्युच्यते | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः "तथा भवतु" इति विधानम् | यथा "सिंहो माणवकः"— माणवकः (बालकः) सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम् अध्यारोपितम् |

यस्मिन् प्रत्यये ङकारस्य इत्-संज्ञा अस्ति, सः प्रत्ययः ङित् (यस्य ङकारः इत्, सः ङित्) | ङित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति | तत् किं कार्यम् इति सम्प्रति उच्यते; अत्र तावदेव अवगच्छतु— '''सार्वधातुकमपित्''' इति सूत्रेण यः प्रत्ययः अपित्, सः यद्यपि साक्षात् ङित् नास्ति, तथापि ङित् इव भवति | अतः यथा ङित्-प्रत्ययः कार्यं करोति, तथा अपित्-प्रत्ययः अपि कार्यं करोतु | तच्च कार्यं किम् इति इदानीं पश्याम |

५. '''क्क्ङिति च''' (१.१.५) [गुण-बाधकं सूत्रम्]
अनुवृत्ति-सहितं सूत्रम्— '''क्क्ङिति च इकः गुणवृद्धी न''' | यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति | गुणस्य वृद्धेः च बाधकं सूत्रं इदम् | (सम्प्रति अस्माकम् अवधानं गुणे, न तु वृद्धौ |)

"क्क्ङिति" सप्तम्यन्तं हलन्तं पदम् | तस्य अर्थः एवम्— ग् च क् च ङ् च ते इत्-संज्ञक-वर्णाः यस्य सः प्रत्ययः क्क्ङित् | तस्मिन् इति | सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म; तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति |

६. '''सार्वधातुकमपित्''' इत्यनेन सूत्रेण यः प्रत्ययः अपित्, सः ङित् इव अस्ति | अतः यत् कार्यं ङित् प्रत्ययः करोति, तदेव कार्यं अपित् प्रत्ययः अपि करोति | तुदादिगणे श-विकरणप्रत्ययः अपित् अस्ति, अतः ङित् इव कार्यं करोति | नाम, गुण-बाधकं-कार्यं करोति |

तर्हि सारांशः एवं यत् यत्र विकरणप्रत्यये पकारः नास्ति, तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति | तुदादिगणे, विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत्-संज्ञक-पकारस्य अभावे गुणार्थं बाधा भवति |

पूर्णसूत्रार्थः

'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''क्क्ङिति च इकः गुणवृद्धी न''' |

पाणिनीयसूत्राणि षड्विधा—
संज्ञा च परिभाषा च विधिर्नियम एव च |
Line 91 ⟶ 98:
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् |

'''सार्वधातुकमपित्''' (१.२.४) कीदृशं सूत्रम् ?