page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

(12 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE:4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणम्

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/16_keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30.mp3 keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30]

एतावता अस्माभिः दृष्टं यत् भ्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथासङ्गम् | तुदादिगणे गुणः नार्हः इत्यपि दृष्टम् | अपरेषु गणेषु का गतिः ? तेषु गुणः अर्हः चेत् किमर्थं; नार्हः चेत् किमर्थमित्यपि प्रश्नः उदेति | तत्र स्थितिः कीदृशी इति अवलोकयाम | नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत ?
१. प्रथमतया "गुणः सम्भवति न वा" इत्यनेन "धातौ गुणः सम्भवति न वा" इति अत्र आशयः | तिङन्तपदे भागत्रयं वर्तते— धातुः, विकरणप्रत्ययः, तिङ्-प्रत्ययः च | केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति (शक्नु → शक्नोति); इदम् अग्रे, अपरस्मिन् पाठे परिशीलयाम | अधुना केवलं धात्वङ्गे गुणः कुत्र-कुत्र सम्भवति इति प्रश्नः |
'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य तात्पर्यं— सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात् |
'''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रस्य तात्पर्यं— सार्वधातुकार्धधातुकयोः परयोः पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात् |
तर्हि द्वयोः सूत्रयोः 'सार्वधातुकार्धधातुकयोः' इति पदं भवति | नाम अङ्गम् इगन्तं चेदपि, अङ्गस्य उपधायां ह्रस्व-इक्-वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति | अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम् | इदं संज्ञाद्वयं सम्प्रति पश्याम |
Line 22 ⟶ 25:
३. सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टम् | '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इति सूत्रेण यः प्रत्ययः तिङ् वा शित् वा अस्ति, तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति | भवति-भवतः-भवन्ति इत्यादिषु रूपेषु -ति, -तः, -अन्ति इति तिङ्-प्रत्ययाः | यस्मिन् प्रत्यये शकारः इत्-संज्ञकवर्णः अस्ति, सः शित् |
आर्धधातुकसंज्ञा का इति एतावता न उक्तम् | वस्तुतः अतिसरलम् अस्ति— सूत्रं '''आर्धधातुकं शेषः'''(३.४.११४) | धातुभ्यः ये प्रत्ययाः विहिताः, तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति | अतः ये ये प्रत्ययाः धातोः परे सन्ति, ते सार्वधातुकसंज्ञकाः न सन्ति चेत्, अवश्यम् आर्धधातुकसंज्ञकाः सन्ति एव | '''आर्धधातुकं शेषः'''(३.४.११४) इति सूत्रेण अयमेव सन्देशः— धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकम् नास्ति चेत्, आर्धधातुकः अस्ति एव |
Line 27 ⟶ 32:
४. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः |
धातुगणम् अनुसृत्य विकरणप्रत्ययाः—

२. अदादिगणे नास्ति (शपः लुक्, नाम लोपः)
Line 51 ⟶ 58:
१०. चुरादिगणे शप्

- यत्र यत्र प्रत्यये इत्-संज्ञकः शकारः वर्तते, तत्र तत्र सार्वधातुकसंज्ञा भवति | किमर्थम् इति चेत्, '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इति सूत्रेण यः प्रत्ययः शित्, तस्य सार्वधातुकसंज्ञा भवति |
- यः विकरणप्रत्ययः सार्वधातुक-संज्ञकः नास्ति, सः आर्धधातुक-संज्ञकः अस्ति एव |
अग्रे पठनात् पूर्वं, एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम् | (सार्वधातुक-संज्ञकः वा आर्धधातुक-संज्ञकः वा इति)
<br /
५. उत्तरम्
सार्वधातुक-संज्ञक-विकरणप्रत्ययाः = शप्, श्यन्, श्नु, श, श्नम्, श्ना
Line 65 ⟶ 76:
आर्धधातुक-संज्ञक-विकरणप्रत्ययाः = उ

सारांशः एवम्— सार्वधातुकसंज्ञक-विकरणप्रत्ययं निमित्तीकृत्य, भ्वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति |
आर्धधातुक-विकरणप्रत्ययाः के ? केवलम् उ | स च कस्य गणस्य विकरणप्रत्ययः ? तनादिगणस्य | '''सार्वधातुकार्धधातुकयोः''' इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति, तत्र गुणः विहितः | अत्रापि '''क्क्ङिति च''' (१.१.५) इत्यनेन गित्त्वात्, कित्त्वात्, ङित्त्वात् च गुणकार्यं बाध्यते; अतः गित्, कित्, ङित् च नास्ति चेत् बाधा नास्ति | आर्धधातुकप्रत्ययस्य प्रसङ्गे '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्त्वात् न बाधा | तनादिगणे उ इति विकरणप्रत्ययः; गित्, कित्, ङित् च नास्ति अतः अत्रापि गुणः अर्हः | यथा— कृ + उ → '''कर्''' + उ → करु → करु + ति → करोति |

अधुना अदादिगणे जुहोत्यादिगणे च ? तयोः का गतिः ? तयोः विकरणप्रत्ययः नास्ति | अत्र '''अङ्गं''' नाम किमिति स्मर्यताम् | अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति, तत् सर्वम् अङ्गम् इति उच्यते | अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम् | १,४,५,६,७,८,९,१० इत्येषु गणेषु तिङ्-प्रत्ययान् निमित्तीकृत्य अङ्गम् (कार्यक्षेत्रम्) अस्ति धातुः + विकरणप्रत्ययः (चुरादिगणे धातुः + णिच् + विकरणप्रत्ययः) | किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ्-प्रत्ययानाम् अङ्गम् (कार्यक्षेत्रम्) अस्ति धातुः एव |
Line 77 ⟶ 95:
भवति-भवतः-भवन्ति इत्येषु रूपेषु -ति, -तः, -अन्ति इति तिङ्प्रत्ययाः इत्युक्तम् | तेषां प्रत्ययानां मूलरूपाणि एवम्— तिप्, तस्, झि | तिप् इत्यस्मिन् पकारस्य इत्-संज्ञां कृत्वा लोपं कृत्वा 'ति' इति शेषः | तथा अन्येषामपि तिङ्-प्रत्ययानाम् अनुबन्ध-लोपानन्तरं सिद्ध-रूपाणि सन्ति |
एवं च मूल-परस्मैपदिधातूनां तिङ् प्रत्ययाः—

Line 101 ⟶ 121:
|वस्
|मस्

एते सर्वे तिङः, अतः '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः | एकवचने तिप्, सिप्, मिप् इत्येते प्रत्ययाः पितः, अतः तत्र गुणः विहितः | द्विवचने बहुवचने च तिङ्प्रत्ययः सर्वत्र अपित् इति कारणतः '''सार्वधातुकमपित्''', '''क्क्ङिति च''' इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः नार्हः |
Line 118 ⟶ 140:
तथैव अदादिगणे रुद्-धातुः, रुद् + तिप्, '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः, रोदिति इति सिद्धम् | किन्तु द्विवचने तस् इति तिङ्-प्रत्ययः अपित् अतः गुण-निषेधः, रुद् + तः → रुदितः इति रूपम् | जुहोत्यादिगणे अपि तथा— हु-धातोः द्वित्वं कृत्वा जुहु इति अङ्गं; जुहु + ति → गुणकार्यं → जुहोति इति रूपं निष्पन्नम् | परन्तु द्विवचने जुहु + तस् → जुहुतः; अपित्त्वात् गुणाभावः |

धात्वङ्गे गुणः सम्भवः
भ्वादिगणः
Line 132 ⟶ 155:
चुरादिगणः
धात्वङ्गे गुणः असम्भवः
Line 146 ⟶ 168:
क्र्यादिगणः

|भ्वादौ

|ध्रु, नख्, चुप्, क्षि, पिठ्, कुच्, श्रि, गै, तॄ

|अदादौ

|वी, इ
Line 163 ⟶ 188:
|दिवादौ

|तप्, लुभ्, दस्, स्विद्,

|तुदादौ

|क्षिप्, कृष्, गुज्, मिल्, सृज्, स्पृश्,

|चुरादौ

|मुच्, तिज्,

इति गुणस्य परिचयः | अग्रे सार्वधातुकप्रकरणम् इत्यस्मिन् पाठे, इतोऽपि विस्तरेण वक्ष्यते |
Line 179 ⟶ 205:
Swarup – August 2012 (updated December 2015)▼
[https://static.miraheze.org/samskritavyakaranamwiki/5/5a/4_-_keShu_gaNeShu_guNaH_sambhavati_dhAtvaGge.pdf 4 - keShu gaNeShu guNaH sambhavati dhAtvaGge.pdf]
परिशिष्टम्▼
▲परिशिष्टम्
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या गुणकार्याणि चित्रत्वेन निरूपितवती—
[[File:गुणकार्यं FINAL 21 NOV.jpg|center|thumb|950x950px]]▼