page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |

(7 intermediate revisions by 3 users not shown) | |||
Line 1:
{{DISPLAYTITLE:4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणम्

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/16_keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30.mp3 keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30]

Line 12:
१. प्रथमतया "गुणः सम्भवति न वा" इत्यनेन "धातौ गुणः सम्भवति न वा" इति अत्र आशयः | तिङन्तपदे भागत्रयं वर्तते— धातुः, विकरणप्रत्ययः, तिङ्-प्रत्ययः च | केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति (शक्नु → शक्नोति); इदम् अग्रे, अपरस्मिन् पाठे परिशीलयाम | अधुना केवलं धात्वङ्गे गुणः कुत्र-कुत्र सम्भवति इति प्रश्नः |

Line 22:
तर्हि द्वयोः सूत्रयोः 'सार्वधातुकार्धधातुकयोः' इति पदं भवति | नाम अङ्गम् इगन्तं चेदपि, अङ्गस्य उपधायां ह्रस्व-इक्-वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति | अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम् | इदं संज्ञाद्वयं सम्प्रति पश्याम |
Line 33 ⟶ 29:
आर्धधातुकसंज्ञा का इति एतावता न उक्तम् | वस्तुतः अतिसरलम् अस्ति— सूत्रं '''आर्धधातुकं शेषः'''(३.४.११४) | धातुभ्यः ये प्रत्ययाः विहिताः, तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति | अतः ये ये प्रत्ययाः धातोः परे सन्ति, ते सार्वधातुकसंज्ञकाः न सन्ति चेत्, अवश्यम् आर्धधातुकसंज्ञकाः सन्ति एव | '''आर्धधातुकं शेषः'''(३.४.११४) इति सूत्रेण अयमेव सन्देशः— धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकम् नास्ति चेत्, आर्धधातुकः अस्ति एव |
४. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः |
धातुगणम् अनुसृत्य विकरणप्रत्ययाः—

२. अदादिगणे नास्ति (शपः लुक्, नाम लोपः)
Line 61 ⟶ 58:
१०. चुरादिगणे शप्

अधुना, प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयाम |
Line 70 ⟶ 65:
- यः विकरणप्रत्ययः सार्वधातुक-संज्ञकः नास्ति, सः आर्धधातुक-संज्ञकः अस्ति एव |
अग्रे पठनात् पूर्वं, एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम् | (सार्वधातुक-संज्ञकः वा आर्धधातुक-संज्ञकः वा इति)
<br /
५. उत्तरम्
सार्वधातुक-संज्ञक-विकरणप्रत्ययाः = शप्, श्यन्, श्नु, श, श्नम्, श्ना
Line 81 ⟶ 76:
आर्धधातुक-संज्ञक-विकरणप्रत्ययाः = उ

सारांशः एवम्— सार्वधातुकसंज्ञक-विकरणप्रत्ययं निमित्तीकृत्य, भ्वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति |▼

६. शित्त्वात् सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत्, '''सार्वधातुकार्धधातुकयोः''', '''पुगन्तलघूपधस्य च''' इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम् | किन्तु गतपाठे अस्माभिः दृष्टं यत् '''सार्वधातुकमपित्''' (१.२.४) इत्यनेन सूत्रेण यः प्रत्ययः अपित्, सः ङिद्वत् | तथा च '''क्क्ङिति च''' (१.१.५) इति गुण-बाधक-सूत्रेण यः ङित् (अथवा ङित् इव) अस्ति, तस्य गुणकार्यं बाधितम् | अतः येषु सार्वधातुकप्रत्ययेषु इत्-संज्ञक-पकारस्य अभावः, तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति | श्यन्, श्नु, श, श्नम्, श्ना इति प्रत्ययाः शितः तु सन्ति अतः शित्त्वात् गुणकार्यस्य प्रसक्तिरस्ति, परन्तु पित्त्वस्य अभावात् न गुणः | तर्हि दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्त्वात् बाधितम् |
▲सारांशः एवम्— सार्वधातुकसंज्ञक-विकरणप्रत्ययं निमित्तीकृत्य, भ्वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति |
आर्धधातुक-विकरणप्रत्ययाः के ? केवलम् उ | स च कस्य गणस्य विकरणप्रत्ययः ? तनादिगणस्य | '''सार्वधातुकार्धधातुकयोः''' इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति, तत्र गुणः विहितः | अत्रापि '''क्क्ङिति च''' (१.१.५) इत्यनेन गित्त्वात्, कित्त्वात्, ङित्त्वात् च गुणकार्यं बाध्यते; अतः गित्, कित्, ङित् च नास्ति चेत् बाधा नास्ति | आर्धधातुकप्रत्ययस्य प्रसङ्गे '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्त्वात् न बाधा | तनादिगणे उ इति विकरणप्रत्ययः; गित्, कित्, ङित् च नास्ति अतः अत्रापि गुणः अर्हः | यथा— कृ + उ → '''कर्''' + उ → करु → करु + ति → करोति |

७. तर्हि भ्वादौ, तनादौ, चुरादौ च धात्वङ्गे गुणः अर्हः | दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्त्वात् बाधितम् |
अधुना अदादिगणे जुहोत्यादिगणे च ? तयोः का गतिः ? तयोः विकरणप्रत्ययः नास्ति | अत्र '''अङ्गं''' नाम किमिति स्मर्यताम् | अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् प्राक् यावत् अस्ति, तत् सर्वम् अङ्गम् इति उच्यते | अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम् | १,४,५,६,७,८,९,१० इत्येषु गणेषु तिङ्-प्रत्ययान् निमित्तीकृत्य अङ्गम् (कार्यक्षेत्रम्) अस्ति धातुः + विकरणप्रत्ययः (चुरादिगणे धातुः + णिच् + विकरणप्रत्ययः) | किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ्-प्रत्ययानाम् अङ्गम् (कार्यक्षेत्रम्) अस्ति धातुः एव |
भवति-भवतः-भवन्ति इत्येषु रूपेषु -ति, -तः, -अन्ति इति तिङ्प्रत्ययाः इत्युक्तम् | तेषां प्रत्ययानां मूलरूपाणि एवम्— तिप्, तस्, झि | तिप् इत्यस्मिन् पकारस्य इत्-संज्ञां कृत्वा लोपं कृत्वा 'ति' इति शेषः | तथा अन्येषामपि तिङ्-प्रत्ययानाम् अनुबन्ध-लोपानन्तरं सिद्ध-रूपाणि सन्ति |
एवं च मूल-परस्मैपदिधातूनां तिङ् प्रत्ययाः—

Line 128 ⟶ 121:
|वस्
|मस्

Line 139 ⟶ 130:
यथा— अदादिगणे इ-धातुः गतौ, इ + तिप्, '''सार्वधातुकार्धधातुकयोः''' इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः, एति इति रूपं सिद्धम् | किन्तु द्विवचने तस् इति तिङ्-प्रत्ययः अपित् अतः गुण-निषेधः, इ + तः → इतः इति रूपम् |
विस्तरेण प्रदर्श्यते चेत्—
इ + तस् → सकारस्य रुत्वविसर्गौ 'तः' इति सिद्धप्रत्ययः → इ + तः → तः इति तिङ्-प्रत्ययः सार्वधातुकसंज्ञकः अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रेण गुणस्य प्रसक्तिः → तः-प्रत्ययस्य अपित्त्वात् '''सार्वधातुकमपित्''' (१.२.४) इत्यनेन तः ङिद्वत्; '''क्क्ङिति च''' (१.१.५) इत्यनेन ङिद्वत्त्वात् गुणनिषेधः → इ + तः → इतः इति रूपं निष्पन्नम् |
तथैव अदादिगणे रुद्-धातुः, रुद् + तिप्, '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः, रोदिति इति सिद्धम् | किन्तु द्विवचने तस् इति तिङ्-प्रत्ययः अपित् अतः गुण-निषेधः, रुद् + तः → रुदितः इति रूपम् | जुहोत्यादिगणे अपि तथा— हु-धातोः द्वित्वं कृत्वा जुहु इति अङ्गं; जुहु + ति → गुणकार्यं → जुहोति इति रूपं निष्पन्नम् | परन्तु द्विवचने जुहु + तस् → जुहुतः; अपित्त्वात् गुणाभावः |

८. सारांशः कः इति चेत्, १,२,३,८,१० इत्येषु गणेषु धात्वङ्गे गुणः सम्भवः; ४,५,६,७,९ इत्येषु गणेषु धात्वङ्गे गुणः नार्हः |

भ्वादिगणः
Line 169 ⟶ 155:
चुरादिगणः
धात्वङ्गे गुणः असम्भवः
Line 184 ⟶ 168:
क्र्यादिगणः