02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/4---keShu-gaNeShu-guNaH-sambhavati-dhAtvaGge: Difference between revisions

no edit summary
No edit summary
No edit summary

(5 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणम्‌

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/16_keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30.mp3 keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30]

एतावता अस्माभिः दृष्टं यत्‌ भ्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथासङ्गम्‌ | तुदादिगणे गुणः नार्हः इत्यपि दृष्टम्‌ | अपरेषु गणेषु का गतिः ? तेषु गुणः अर्हः चेत्‌ किमर्थं; नार्हः चेत्‌ किमर्थमित्यपि प्रश्नः उदेति | तत्र स्थितिः कीदृशी इति अवलोकयाम | नाम आहत्य सर्वदशगणान्‌ मनसि निधाय किं वक्तुं शक्येत ?

१. प्रथमतया "गुणः सम्भवति न वा" इत्यनेन "धातौ गुणः सम्भवति न वा" इति अत्र आशयः | तिङन्तपदे भागत्रयं वर्तते— धातुः, विकरणप्रत्ययः, तिङ्‌-प्रत्ययः च | केषुचित्‌ गणेषु विकरणप्रत्यये अपि गुणः सम्भवति (शक्नु → शक्नोति); इदम् अग्रे, अपरस्मिन्‌ पाठे परिशीलयाम | अधुना केवलं धात्वङ्गे गुणः कुत्र-कुत्र सम्भवति इति प्रश्नः |
Line 11 ⟶ 14:

२. सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम्‌ अस्माभिः— '''सार्वधातुकार्धधातुकयोः''', '''पुगन्तलघूपधस्य च''' इति | अनुवृत्ति-सहितसूत्रे द्वयोः अपि 'सार्वधातुकार्धधातुकयोः' इति पदम्‌ आगच्छति |

'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य तात्पर्यं— सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्‌ |
Line 18 ⟶ 22:

तर्हि द्वयोः सूत्रयोः 'सार्वधातुकार्धधातुकयोः' इति पदं भवति | नाम अङ्गम्‌ इगन्तं चेदपि, अङ्गस्य उपधायां ह्रस्व-इक्‌-वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति | अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम्‌ | इदं संज्ञाद्वयं सम्प्रति पश्याम |

३. सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टम्‌ | '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति | भवति-भवतः-भवन्ति इत्यादिषु रूपेषु -ति, -तः, -अन्ति इति तिङ्‌-प्रत्ययाः | यस्मिन्‌ प्रत्यये शकारः इत्‌-संज्ञकवर्णः अस्ति, सः शित्‌ |

आर्धधातुकसंज्ञा का इति एतावता न उक्तम्‌ | वस्तुतः अतिसरलम्‌ अस्ति— सूत्रं '''आर्धधातुकं शेषः'''(३.४.११४) | धातुभ्यः ये प्रत्ययाः विहिताः, तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा‌ अथवा आर्धधातुकसंज्ञा भवति | अतः ये ये प्रत्ययाः धातोः परे सन्ति, ते सार्वधातुकसंज्ञकाः न सन्ति चेत्‌, अवश्यम्‌ आर्धधातुकसंज्ञकाः सन्ति एव | '''आर्धधातुकं शेषः'''(३.४.११४) इति सूत्रेण अयमेव सन्देशः— धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकम् नास्ति चेत्‌, आर्धधातुकः‌ अस्ति एव |

४. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः |
Line 53 ⟶ 60:

अधुना, प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयाम |

- यत्र यत्र प्रत्यये इत्‌-संज्ञकः शकारः वर्तते, तत्र तत्र सार्वधातुकसंज्ञा भवति | किमर्थम्‌ इति चेत्‌, '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण यः प्रत्ययः शित्‌, तस्य सार्वधातुकसंज्ञा भवति |
Line 70 ⟶ 78:

६. शित्त्वात्‌ सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत्‌, '''सार्वधातुकार्धधातुकयोः''', '''पुगन्तलघूपधस्य च''' इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्‌ | किन्तु गतपाठे अस्माभिः दृष्टं यत्‌ '''सार्वधातुकमपित्‌''' (१.२.४) इत्यनेन सूत्रेण यः प्रत्ययः अपित्‌, सः ङिद्वत्‌ | तथा च '''क्क्ङिति च''' (१.१.५) इति गुण-बाधक-सूत्रेण यः ङित्‌ (अथवा ङित्‌ इव) अस्ति, तस्य गुणकार्यं बाधितम्‌ | अतः येषु सार्वधातुकप्रत्ययेषु इत्‌-संज्ञक-पकारस्य अभावः, तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति | श्यन्‌, श्नु, श, श्नम्‌, श्ना इति प्रत्ययाः शितः तु सन्ति अतः शित्त्वात्‌ गुणकार्यस्य प्रसक्तिरस्ति, परन्तु पित्त्वस्य अभावात्‌ न गुणः | तर्हि दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च गुणकार्यस्य प्रसक्तिः आसीत्‌, किन्तु अपित्त्वात्‌ बाधितम्‌ |

सारांशः एवम्‌— सार्वधातुकसंज्ञक-विकरणप्रत्ययं निमित्तीकृत्य, भ्वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति |

Line 78 ⟶ 88:

७. तर्हि भ्वादौ, तनादौ, चुरादौ च धात्वङ्गे गुणः अर्हः | दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्‌, किन्तु अपित्त्वात्‌ बाधितम्‌ |

अधुना अदादिगणे जुहोत्यादिगणे च ? तयोः का गतिः ? तयोः विकरणप्रत्ययः नास्ति | अत्र '''अङ्गं''' नाम किमिति स्मर्यताम्‌ | अङ्गसिद्धान्तम्‌ अनुसृत्य प्रत्ययात्‌ प्राक्‌ यावत्‌ अस्ति, तत्‌ सर्वम्‌ अङ्गम्‌ इति उच्यते | अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम्‌ | १,४,५,६,७,८,९,१० इत्येषु गणेषु तिङ्‌-प्रत्ययान् निमित्तीकृत्य अङ्गम्‌ (कार्यक्षेत्रम्‌) अस्ति धातुः + विकरणप्रत्ययः (चुरादिगणे धातुः + णिच्‌ + विकरणप्रत्ययः) | किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ्‌-प्रत्ययानाम्‌ अङ्गम्‌ (कार्यक्षेत्रम्‌) अस्ति धातुः एव |

भवति-भवतः-भवन्ति इत्येषु रूपेषु -ति, -तः, -अन्ति इति तिङ्‌प्रत्ययाः इत्युक्तम्‌ | तेषां प्रत्ययानां मूलरूपाणि एवम्‌— तिप्‌, तस्‌, झि | तिप्‌ इत्यस्मिन्‌ पकार‌स्य इत्‌-संज्ञां कृत्वा लोपं कृत्वा 'ति' इति शेषः | तथा अन्येषामपि तिङ्‌-प्रत्ययानाम्‌ अनुबन्ध-लोपानन्तरं सिद्ध-रूपाणि सन्ति |
Line 86 ⟶ 99:

एवं च मूल-परस्मैपदिधातूनां तिङ्‌ प्रत्ययाः—

Line 108 ⟶ 122:
|मस्‌

एते सर्वे तिङः, अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः | एकवचने तिप्‌, सिप्‌, मिप्‌ इत्येते प्रत्ययाः पितः‌, अतः तत्र गुणः विहितः | द्विवचने बहुवचने च तिङ्‌प्रत्ययः सर्वत्र अपित्‌ इति कारणतः '''सार्वधातुकमपित्''', '''क्क्ङिति च‌''' इत्याभ्यां सूत्राभ्याम्‌ अङ्गे गुणः नार्हः |

यथा— अदादिगणे इ-धातुः गतौ, इ + तिप्‌, '''सार्वधातुकार्धधातुकयोः''' इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः, एति इति रूपं सिद्धम्‌ | किन्तु द्विवचने तस्‌ इति तिङ्‌-प्रत्ययः अपित्‌ अतः गुण-निषेधः, इ + तः → इतः इति रूपम्‌ |

विस्तरेण प्रदर्श्यते चेत्—

इ + तस्‌ → सकारस्य रुत्वविसर्गौ 'तः' इति सिद्धप्रत्ययः → इ + तः → तः इति तिङ्‌-प्रत्ययः सार्वधातुकसंज्ञकः अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रेण गुणस्य प्रसक्तिः → तः-प्रत्ययस्य अपित्त्वात्‌ '''सार्वधातुकमपित्‌''' (१.२.४) इत्यनेन तः ङिद्वत्‌; '''क्क्ङिति च''' (१.१.५) इत्यनेन ङिद्वत्त्वात्‌ गुणनिषेधः → इ + तः → इतः इति रूपं निष्पन्नम्‌ |

तथैव अदादिगणे रुद्‌-धातुः, रुद्‌ + तिप्‌, '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण एकवचने उपधायाम्‌ इकः गुणः, रोदिति इति सिद्धम्‌ | किन्तु द्विवचने तस्‌ इति तिङ्‌-प्रत्ययः अपित्‌ अतः गुण-निषेधः, रुद्‌ + तः → रुदितः इति रूपम्‌ | जुहोत्यादिगणे अपि तथा— हु-धातोः द्वित्वं कृत्वा जुहु इति अङ्गं; जुहु + ति → गुणकार्यं → जुहोति इति रूपं निष्पन्नम्‌ | परन्तु द्विवचने जुहु + तस्‌ → जुहुतः; अपित्त्वात्‌ गुणाभावः |
Line 122 ⟶ 143:
८. सारांशः कः इति चेत्‌, १,२,३,८,१० इत्येषु गणेषु धात्वङ्गे गुणः सम्भवः; ४,५,६,७,९ इत्येषु गणेषु धात्वङ्गे गुणः नार्हः |

धात्वङ्गे गुणः सम्भवः

भ्वादिगणः
Line 148 ⟶ 170:

९. अभ्यासः | एषां धातूनां लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तं रूपंं निर्मातु | गुणकार्यं भवति चेत्‌, केन सूत्रेण; सन्धिकार्यं भवति चेत्‌, केन सूत्रेण इति वक्तव्यम्‌ |

page_and_link_managers, Administrators
5,097

edits