page_and_link_managers, Administrators
5,097
edits
No edit summary |
No edit summary |
||
Line 8:
<big>एतावता अस्माभिः दृष्टं यत् भ्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथासङ्गम् | तुदादिगणे गुणः नार्हः इत्यपि दृष्टम् | अपरेषु गणेषु का गतिः ? तेषु गुणः अर्हः चेत् किमर्थं; नार्हः चेत् किमर्थमित्यपि प्रश्नः उदेति | तत्र स्थितिः कीदृशी इति अवलोकयाम | नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत ?</big>
Line 22 ⟶ 23:
<big>तर्हि द्वयोः सूत्रयोः 'सार्वधातुकार्धधातुकयोः' इति पदं भवति | नाम अङ्गम् इगन्तं चेदपि, अङ्गस्य उपधायां ह्रस्व-इक्-वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति | अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम् | इदं संज्ञाद्वयं सम्प्रति पश्याम |</big>
Line 29:
<big>३. सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टम् | '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इति सूत्रेण यः प्रत्ययः तिङ् वा शित् वा अस्ति, तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति | भवति-भवतः-भवन्ति इत्यादिषु रूपेषु -ति, -तः, -अन्ति इति तिङ्-प्रत्ययाः | यस्मिन् प्रत्यये शकारः इत्-संज्ञकवर्णः अस्ति, सः शित् |</big>
|