३. विकरणं नाम किम् इति तु वयं जानीमः एव; प्रथमपाठे (धातुगण-परिचये) विस्तरेण चर्चितम् | तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित् ज्ञातम्; अस्मिन् पाठे बहु किमपि वक्ष्यते | भू + शप् + ति इत्यस्मिन् ति "तिङ्"-प्रत्ययः इति | सर्वेषां तिङ्प्रत्ययानां मूलरूपाम्मूलरूपम् अस्ति |

तयोः भेदः कः ? क्रियापदस्य निर्माण-क्रमे सर्वप्रथमम् अस्माकं विवक्षानुगुणम् धातुः आनीयते | यथा, वद् इति धातुः | तदा पुनः विवक्षानुगुणं लकारः आनीयते, यथा लट्-लकारः | वद् + लट् | परं लाटःलटः स्थाने तिबादयः आनीयन्ते यथेच्छम्, यथा प्रथमपुरुषैकवचने तिप् | पकारस्य इत्-संज्ञा लोपश्च, ति अवशिष्यते | वद् + ति | अत्र सर्वमहत्त्वपूर्णसिद्धान्तः—वद् ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति | अत्र वदामः यत् वद्-धातुना ति-प्रत्ययः "दृश्यते" | दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति | येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक-तिङ्प्रत्ययः दृश्यते, अपि च सः तिङ्प्रत्ययः कर्त्रर्थे अस्ति, तत्र सः लकारः सार्वधातुक-लकारः इति उच्यते | क्रियापदस्य निर्माणक्रमे धातुना तिङ्प्रत्ययः न दृश्यते चेत्, सः लकारः आर्धधातुक-लकारः |

१०. सार्वधातुकलकारः अस्ति चेत्, धातु-विकरणायोःविकरणयोः अङ्गं भवति; तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तम् | अस्मिन् पाठे सार्वधातुकलकाराः (लट्, लोट्, लङ्, विधिलिङ्) परिशीलयिष्यन्ते यत्र अङ्गम् अदन्तम् अस्ति | अङ्गम् अदन्तं केषु गणेषु ? भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च | यतः एषां चतुर्णां गणानाम् अङ्गम् अदन्तम्, अतः एषां सिद्ध-तिङ्प्रत्ययाः समानाः | अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति | अदन्तम् अङ्गम् + सिद्ध-तिङ्प्रत्ययः = तिङन्तपदं (क्रियापदम् इति) | यथा वद् + शप् → वद् + अ → वद इति अदन्तम् अङ्गम्; तिप् → पकारस्य इत्-संज्ञा लोपश्च → ति इति सिद्ध-तिङ्प्रत्ययः; वद + ति → वदति इति तिङन्तपदम् | तथैव वद + तः = वदतः, वद + अन्ति = वदन्ति इति | आहत्य भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च 1700 धातवः सन्ति | एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट्, लोट्, लङ्, विधिलिङ् इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते | अत्र अस्ति मातुः पाठस्य वैलक्षण्यम् !

एवं च दीक्षितपुष्पायाः पाणिनीय-धातुपाठः अत्यन्तं शक्तिशाली | कश्चन बोधोऽस्ति चेत्, बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः | अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययाः कथं साधनीयाः, अपि च अङ्ग-तिङ्प्रत्यययोः मेलनं कथं कार्यतेक्रियते इत्येषु विषयेषु चर्चयिष्यामः |

Swarup - July 2013