04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca: Difference between revisions

Removed text that was erroneously inserted
(Removed text that was erroneously inserted)
(Removed text that was erroneously inserted)
Line 78:
तयोः भेदः कः ? क्रियापदस्य निर्माण-क्रमे सर्वप्रथमम्‌ अस्माकं विवक्षानुगुणम्‌ धातुः आनीयते | यथा, वद्‌ इति धातुः | तदा पुनः विवक्षानुगुणं लकारः आनीयते, यथा लट्‌-लकारः | वद्‌ + लट्‌ | परं लाटः स्थाने तिबादयः आनीयन्ते यथेच्छम्, यथा प्रथमपुरुषैकवचने तिप्‌ | पकारस्य इत्‌-संज्ञा लोपश्च, ति अवशिष्यते | वद्‌ + ति | अत्र सर्वमहत्त्वपूर्णसिद्धान्तः—वद्‌ ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति | अत्र वदामः यत्‌ वद्‌-धातुना ति-प्रत्ययः "दृश्यते" | दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति | येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक-तिङ्‌प्रत्ययः दृश्यते, अपि च सः तिङ्‌प्रत्ययः कर्त्रर्थे अस्ति, तत्र सः लकारः सार्वधातुक-लकारः इति उच्यते | क्रियापदस्य निर्माणक्रमे धातुना तिङ्‌प्रत्ययः न दृश्यते चेत्‌, सः लकारः आर्धधातुक-लकारः |

सार्वधातुक-लकाराः— लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌
Line 84 ⟶ 83:
आर्धधातुक-लकाराः— लिट्‌, लुट्‌, लृट्‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌

९. अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना तिङ्प्रत्ययः दृश्यते चेत्‌, तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति | एकैकस्य गणस्य स्वस्य पृथक्‌ विकरणप्रत्ययः (विकरणलोपो वा) इति अस्माभिः प्रथमपाठे दृष्टम् | तेन विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते | तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन | गणस्य लक्षणं प्रत्ययेन ज्ञायते | अतः अत्र अवधेयम्‌—विकरणप्रत्ययाः यत्र आयान्ति, तत्र धातोः तिङन्तरूपस्य ज्ञानार्थम्‌, धातुः कस्मिन्‌ गणे अस्ति इति अवश्यं बोध्यम्‌ | केषु लकारेषु विकरणप्रत्ययाः आयान्ति ? यत्र कर्त्रर्थे धातुना तिङ्प्रत्ययः दृश्यते | तत्‌ कुत्र ? सार्वधातुकलकारेषु इति | आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, अतः विकरणप्रत्ययः नायाति | विकरणप्रत्ययः नायाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते | फलितार्थः एवं यत्‌ सार्वधातुकलकारेषु गणीया चर्चा करणीया; आर्धधातुकलकारेषु गणीया चर्चा नापेक्षिता | तत्र गणस्य विषयः नायाति एव |
Line 130 ⟶ 129:
<nowiki>*</nowiki> वदिष्यति

उपरितने क्रमे प्रथमं स्य प्रत्ययः आयाति, तदा एव ति आयाति | तत्र धातु-ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते (वद्‌ + स्यति) | मध्ये स्य अस्ति अतः बाधा अस्ति, व्यवधानम्‌ अस्ति | धातुः तिङ्प्रत्ययं "ति" द्रष्टुं न शक्नोति; धातुः केवलं "स्य" पश्यति | धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः '''कर्तरि शप्''' इत्यस्य प्रसक्तिः नास्ति (यदा हि ति दृश्यते तदा हि '''कर्तरि शप्'''), अतः मध्ये विकरण-प्रत्ययः नायाति | विकरण-प्रत्ययः न विहितः इति कारणेन गणीयः विचारः नापेक्षितः | धातुः यस्मिन्‌ कस्मिन्‌ अपि गणे भवतु, कार्यं समानमेव | अतः आर्धधातुकलकारेषु गणस्य ज्ञानं नापेक्षितम्‌ | किन्तु आर्धधातुकलकारेषु अन्यत्‌ कार्यम्‌ अस्ति | पश्यन्तु रूपं कथम्‌ अस्ति— "वदिष्यति" इति | अत्र मध्ये इकारः आगतः अस्ति वद्‌-इ-ष्यति | यद्यपि आर्धधातुकलकारेषु गणीयः विचारः नापेक्षितः, किन्तु इडागमस्य विचारः अपेक्षितः एव | स च विषयः अग्रे आयास्यति |
Line 138 ⟶ 137:

एवं च दीक्षितपुष्पायाः पाणिनीय-धातुपाठः अत्यन्तं शक्तिशाली | कश्चन बोधोऽस्ति चेत्‌, बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः | अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययाः कथं साधनीयाः, अपि च अङ्ग-तिङ्प्रत्यययोः मेलनं कथं कार्यते इत्येषु विषयेषु चर्चयिष्यामः |

ध्वनिमुद्रणानि -

Swarup - July 2013
teachers
279

edits