04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH

Revision as of 20:47, 10 May 2021 by VNatarajan (talk | contribs) (Changed the Font Size to Big)

04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH

ध्वनिमुद्रणानि -


2016 वर्गः

१) prakriyA-prakaraNaM-ca_2016-05-18

२) prakriyA-prakaraNa-bhedaH_+_it-sangyA-prakaraNam_+_dvitvaprakaraNam_2016-05-25

३) prakaraNa-cintanam-Natvam_+_aShTAdhyAyyAH-mAnacitram---adhyAyAH-1-2-3_2016-06-01

४) aShTAdhyAyyAH-samagra-dRuShTiH---sarve-adhyAyAH_2016-06-08


2014 वर्गः

aShTAdhyAyyAH_samagradRuShTiH_ 2014-06-25


समग्रसंस्कृतभाषायाः मानचित्रम्‌ एकस्मिन्‌ लघु-ग्रन्थे—अभूतपूर्वम्‌ ! पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात्‌, अपि च स्वयं संस्कृतस्स्यात्‌ | अष्टाध्याय्याः मूलबीजं प्रकरणम्‌ | यदा वयं सूत्राणि क्रमेण पठामः, तदा पश्यामः यत्‌ सूत्राणि प्रकरणेषु—लघुषु उपभागेषु—आयोजितानि |

अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्ययीम्‌ अपठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति | सिद्धान्तकौमुदी प्रक्रियायाम्‌ आधारिता |


A. प्रकरणं प्रक्रिया च


प्रकरणं प्रक्रिया चेत्यनयोर्भेदः कः इति अस्माभिः बोध्यम्‌ | माता पुष्पादीक्षिता सदा पाकशालायाः उदाहरणं ददाति | भोजनस्य निर्माणार्थं सामग्री आवश्यकी | तण्डुलः, जलम्‌, शाकः, पिष्टम्‌, हरिद्रा, आर्द्रकम् इत्यादिकम्‌—इदं सर्वं भोजनस्य सामग्री | पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते; पृथक्‌-पृथक्‌ कोशेषु भवति | शाकः पृथक्‌ कोशे, पिष्टं पृथक्‌ कोशे, तण्डुलः पुनः पृथक्‌ कोशे | सर्वा सामग्री एकस्मिन्‌ एव कोशे एकत्र स्थाप्यते चेत्‌, अव्यवस्था भवति खलु; अतः सम्यक्तया, सावधानतया पृथक्‌ पृथक्‌ कोशेषु एकैकं वस्तु स्थाप्यते |

अष्टाध्यायी अपि तथा—भाषायाः पाकशाला | यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं, सर्वं अस्मिन्‌ ग्रन्थे अस्ति | परन्तु एकत्र न; श्रेणीम्‌ अनुसृत्य पृथक्‌ पृथक्‌ कोशेषु स्थाप्यते | प्रत्येकं कोशस्य नाम 'प्रकरणम्‌' | णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम्‌ इत्यादिकम्‌ |

भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न; मार्गनिर्देशोऽपि आवश्यकः | ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्— एतादृशी सूचना अपेक्षिता | इयं पाककृतिः इति वदामः |

भाषाक्षेत्रे प्रक्रिया तथैव भवति | पदस्य निर्माणार्थं (१) कानि सोपानानि सन्ति, अपि च (२) केन क्रमेण, इति सूचना 'प्रक्रिया' इत्युच्यते | जि + अ + ति → जयति— अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति 'प्रक्रिया' |


जि + लट्‌ इति विवक्षा;     लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)

जि + तिप्‌                  हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९)

जि + ति                   कर्तरि शप्‌ (३.१.६८)

जि + शप्‌ + ति            लशक्वतद्धिते (१.३.८), हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९)

जि + अ + ति             तिङ्‌-शित्‌सार्वधातुकम्‌ (३.४.११३), सार्वधातुकार्धधातुकयोः (७.३.८४)

जे + अ + ति              एचोऽयवायावः (६.१.७७) (एकारस्य स्थाने अय्‌)]

ज्‌ + अय्‌ + अ + ति → वर्णानां मेलने → जयति इति क्रियापदं निष्पन्नम्‌ |


अत्र एका प्रक्रिया प्रदर्शिता | जयति इति पदं कथं निर्मीयते इति प्रदर्शितम्‌ | सूत्राणां सङ्ख्याः दृश्यन्ताम्‌; इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि | अनेन कारणेन कस्माच्चित्‌ सूत्रात्‌ प्राक्‌ कानि सूत्रणि वर्तन्ते, केषां च पदानाम्‌ अनुवृत्तिः इति न ज्ञायते | तस्य फलम्‌ इदं यत्‌ प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः नैव अवगम्यते अस्माभिः |

प्रक्रियायाः किञ्चन फलं तु अस्त्येव; अनेन पदनिर्माणक्रिया बुद्धा | परन्तु सूत्रस्य अवगमनार्थं, यत्र सूत्रबोधः लक्ष्यं, तत्र अस्माकं क्लेशो भवति यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न | सूत्रस्य पूरणार्थं वाक्यम्‌ अपेक्षितम्‌; तच्च वाक्यं न प्राप्यते प्रक्रियायाम्‌ अपि तु प्रकरणे एव |

पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः | यदा अष्टाध्यायी-क्रमेण सूत्राणि पठामः, तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात्‌ | अनेन सूत्रार्थः मनसि स्फुरितो विद्यते |

एकस्मिन्‌ प्रकरणे वारं वारम् एकं कार्यं भवति | यत्‌ पदं दत्तम्‌ एकस्मिन्‌ सूत्रे, तत्‌ पुनः अग्रिमे सूत्रे साक्षात्‌ न दीयते; पाठकैः अवगम्यते यत्‌ सः अर्थः पुनः आयाति तस्मिन्‌ सूत्रेऽपि | इयम्‌ अनुवृत्तिः इति वदामः | अत्र अयं विषय इतोऽपि विस्तारितः—

पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतं भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते, तथापि पुनः साक्षात्‌ न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अनुवृत्तयः इत्युच्यन्ते |


प्रकरणम्‌

अत्र प्रथमम्‌ उदाहरणम्‌ अस्माकम परिचितम्‌, इत्संज्ञाप्रकरणम्‌ | अस्मिन्‌, क्रमेण अष्ट सूत्राणि सन्ति, यस्मिन्‌ प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम्‌ अपेक्षा | अनेन प्रकटं भवति यत्‌ एषां अष्टानां सूत्राणाम्‌ अवगमने, मनसि दृढीकरणे च अष्टाध्यायाम्‌ एव पठनेन सौकर्यं, यत्र क्रमेण सूत्रेण प्राप्यन्ते |

अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि, प्रत्ययेषु अपि—

१. उपदेशेऽजनुनासिक इत् (१.३.२) | सूत्रं स्वयं सम्पूर्णम्‌— उपदेशे अच्‌ अनुनासिकः इत् |

२. हलन्त्यम्‌ (१.३.३) | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम्‌ हल्‌ इत् | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ 'उपदेशे', 'इत्‌' इत्यनयोः अनुवृत्तिः |

३. न विभक्तौ तुस्माः (१.३.४) | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ सूत्रात्‌ 'उपदेशे', 'इत्‌' इत्यनयोः अनुवृत्तिः; हलन्त्यम्‌ (१.३.३) इत्यस्मात्‌ अन्त्यम्‌ हल्‌ इत्यनयोः अनुवृत्तिः |

४. आदिर्ञिटुडवः (१.३.५) | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ सूत्रात्‌ 'उपदेशे', 'इत्‌' इत्यनयोः अनुवृत्तिः; भूवादयो धातवः (१.३.१) इत्यस्मात्‌ 'धातोः' इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) |

तदा अग्रे, क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव—

५. षः प्रत्ययस्य (१.३.६) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् | तत्र आदिर्ञिटुडवः (१.३.५) इत्यस्मात्‌ 'आदिः', उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ 'उपदेशे', 'इत्‌' |

६. चुटू (१.३.७) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ | तत्र षः प्रत्ययस्य (१.३.६) इत्यस्मात्‌ "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात्‌ 'आदिः', उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ 'उपदेशे', 'इत्‌' |

७. लशक्वतद्धिते (१.३.८) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते | तत्र षः प्रत्ययस्य (१.३.६) इत्यस्मात्‌ 'प्रत्ययस्य', आदिर्ञिटुडवः (१.३.५) इत्यस्मात्‌ 'आदिः', उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ 'उपदेशे', 'इत्‌' |

अन्ते इत्‌-लोप-विधिः—

८. तस्य लोपः (१.३.९) | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः |

                                                                      किं सूत्रपर्यन्तं स्थूलाक्षराणाम्‌ अनुवृत्तिः

१. भूवादयो धातवः (१.३.१)                                                     ९३

२. उपदेशेऽजनुनासिक इत् (१.३.२)                                          ९

३. हलन्त्यम्‌ (१.३.३)                                                              ४

४. न विभक्तौ तुस्माः (१.३.४)

५. आदिर्ञिटुडवः (१.३.५)                                                       ८

६. षः प्रत्ययस्य (१.३.६)                                                         ८

७. चुटू (१.३.७)

८. लशक्वतद्धिते (१.३.८)

९. तस्य लोपः (१.३.९)

अत्र, सङ्क्षेपे प्रकरणस्य अन्यत्‌ उदाहरणद्वयं दीयते, येन प्रकरण-सम्बद्ध-अनुवृत्तिः स्पष्टतया दृश्येत |


द्वित्वप्रकरणम्‌ (६.१.१ – ६.१.१२)

अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव, संपूर्णतया संस्कृतभाषायां, कुत्र कुत्र द्वित्वम्‌ अपेक्षते इति सूच्यते, अपि च यत्र कुत्रापि द्वित्वम्‌ अपेक्षते, तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र |

१. एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं, द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | सूत्रं स्वयं सम्पूर्णम्‌ | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ |

२. अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रं, द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | सूत्रं स्वयं सम्पूर्णम्‌ | ऊर्णु → ऊर्णु नु |

३. न न्द्राः संयोगादयः (६.१.३) | अजादेः द्वितीयस्य न न्द्राः संयोगादयः द्वे | ऊर्णु → ऊर्णु नु | (उन्द्‌ + सन्‌ →) उ +न्दि + ष → उ +न्दि +दि + ष → उन्दिदिष |

४. पूर्वोऽभ्यासः (६.१.४) | पूर्वः अभ्यासः द्वयोः | संज्ञासूत्रम्‌ |

५. उभे अभ्यस्तम् (६.१.५) | उभे द्वे अभ्यस्तम् | संज्ञासूत्रम्‌ |

६. जक्षितादयः षट्‌ (६.१.६) | जक्षित्यादयः षट्‌ अभ्यस्तम्‌ | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | तेषां द्वित्वाभावेऽपि अभ्यस्त-संज्ञा |

७. तुजादीनां दीर्घोऽभ्यासस्य (६.१.७) | सूत्रं स्वयं सम्पूर्णम्‌ | तुज्‌ इव धातूनाम्‌ अभ्यासस्य स्वरः दीर्घः | वेदे एव | तुज्‌ + कानच्‌ → लिटः कानज्वा (३.२.६) इत्यनेन वेदे लिटः स्थाने कानच्‌ विकल्पेन → तूतुजानः (ऋग्वेदे १.३.६)

८. लिटि धातोरनभ्यासस्य (६.१.८) | लिटि धातोः अनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य | वच्‌ → वच्‌ वच्‌ (→ उवाच) |

९. सन्यङोः (६.१.९) | सन्यङोः धातोः अनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य | सनि पठ्‌ → पठ्‌ पठ्‌ (→ → पिपठिषति) |

१०. श्लौ (६.१.१०) | श्लौ धातोः द्वे | धातोः इत्यस्य अनुवृत्तिः भवति लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ सूत्रात्‌ | एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य इत्यनयोः अधिकारः अत्रापि, किन्तु जुहोत्यादिगणे अनेकाच्‌ धातुः एकः अपि नास्ति | दा → दादा (→ ददाति) |

११. चङि (६.१.११) | चङि धातोः अनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य | लुङ्‌-लकारे कम्‌ → कम्‌ कम्‌ (→ → अचकमत) |

१२. दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२) | द्वित्व-निषेधक-सूत्रम्‌ | छन्दसि, क्वसुश्च (३.२.१०७) इत्यनेन लिटः स्थाने विकल्पेन क्वसु इति प्रत्ययः भवति | तत्र त्रिषु धातुषु द्वित्वं निषिद्धं— दाशृ + क्वसु → दाश्वान्‌, सह्‌ + क्वसु → साह्वान्‌, मिष्ठ्‌ + क्वसु → मीढ्वान्‌ च एतेषां द्वित्वं न भवति |


णत्वप्रकरणम्‌ (८.४.१ - ८.४.३९)

१. रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः | पूर्णम्‌; तिसृणाम्‌ |

२. अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपदे | अनुवृत्ति-सहितसूत्रम्— अट्कुप्वाङ्‌नुम्व्यवायेऽपि रषाभ्यां नो णः समानपदे | करणम्‌; मार्गेण |

३. प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११) = समास-प्रसङ्गे पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अनुवृत्ति-सहितसूत्रम्— पूर्वपदात्‌ रषाभ्यां अट्कुप्वाङ्‌नुम्व्यवायेऽपि नो णः प्रातिपदिकान्तनुम्‌विभक्तिषु वा | व्रीहिवापिणौ / व्रीहिवापिनौ |


तर्हि आहत्य, पाणिनेः प्रकरण-रीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम्‌ आयोजनम्‌ अतिस्पष्टम्‌ | अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्र-नैपुण्यं जायते अपि च सामग्री कुत्र स्थिता इति ज्ञायते | अष्टाध्यायी-क्रमस्य पठनेन अनेके महान्तो लाभाः |

प्रक्रिया-ग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति | अनेन कारणेन सूत्रक्रमः भग्नो भवति | अनुवृत्तिः नैव प्रकटा | सूत्राणां बोधार्थं महान्‌ सङ्घर्षः |

सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः | तस्य मार्गचयनस्य किञ्चन कारणं स्यात्‌ ! तर्हि पाणिनेः पद्धतेः लाभम्‌ आस्वादयाम |


B. अष्टाध्याय्याः मानचित्रम्‌

अधः अष्टाध्याय्याः मानचित्रं किमिति अवलोकयाम |

अष्टाध्याय्याम्‌ अष्टौ अध्यायाः सन्ति; प्रत्येकस्मिन्‌ अध्याये चत्वारः पादाः | पादेषु सूत्राणि क्रमेण भवन्ति | प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या | सङ्ख्यायां भागत्रयम्— प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य | यथा इको यणचि (६.१.७६); इदं सूत्रं षष्ठे अध्याये, तत्र प्रथमे पादे, सूत्रसङ्ख्या ७६ |

एकैकस्मिन्‌ अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः, तदा कस्यचित्‌ सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात्‌ इति अनुमानं कर्तुं अर्हामः | अधः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः | सर्वं ज्ञात्वा नोक्तम्‌; किञ्च अधः यत्‌ दत्तं बुद्धं चेत्‌, मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति |


प्रथमः अध्यायः =

संज्ञासूत्राणि


द्वितीयः अध्यायः =

१. समासाधिकारः— सर्वे समासाः विहिताः (अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः) |

२. विभक्तीनां विधानम्‌— क्रमेण द्वितीया, चतुर्थी, तृतीया, पञ्चमी, सप्तमी, प्रथमा, षष्ठी इति विभक्तयः |


तृतीयः चतुर्थः पञ्चमः च अध्यायाः प्रत्ययाध्यायाः इत्युच्यन्ते | अत्र धातुभ्यः प्रातिपदिकेभ्यश्च सर्वे प्रत्ययाः विहिताः भवन्ति |


तृतीयः अध्यायः =

धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः

१. सनादयः प्रत्ययाः

२. विकरण-प्रत्ययाः

३. कृत्‌-प्रत्ययाः [भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च]

४. लकार-प्रत्ययाः [भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च]

५. कर्मणि भावे च कृत्‌-प्रत्ययाः, लकार-प्रत्ययाः

६. स्त्रियां कृत्‌-प्रत्ययाः


चतुर्थः अध्यायः =

प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः

       स्त्रियां ये प्रत्ययाः

       तद्धिताधिकारः


पञ्चमः अध्यायः =

१. तद्धितप्रत्ययाः

           विभक्तिसंज्ञकाः प्रत्ययाः

            अव्ययसंज्ञकाः प्रत्ययाः

२. समासान्ताधिकारः | उत्तरपदस्य प्रत्ययाः | दीर्घः पन्थाः → दीर्घपथः | सर्वा रात्रिः → सर्वरात्रः |


षष्ठाध्यायः =

१. द्वित्वप्रकरणम्‌ | दा → दादा → → ददाति

२. सम्प्रसारणम्‌

३. सन्धिः - संहिताधिकारः | अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति | (यण्‌सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः)

४. चतुर्थः पादः - अङ्गाधिकारः ६.४.१ - ७.४.९७ [अङ्गं किम्‌ इति न ज्ञायते चेत्‌, इदं करपत्रं पठ्यताम्‌ | अङ्गकार्यं कीदृशम्‌ इत्यस्य कृते अग्रे अस्मिन करपत्रे विषयः इतोऽपि विस्तारितः |]


सप्तमाध्यायः =

अङ्गकार्यम्‌

१. अङात्‌ परस्य प्रत्ययादेशः

२. इडागम-प्रकरणम्‌ | यथा “खादितवान्‌" इत्यस्मिन्‌ खाद्‌-धातु + इ [इडागमः] + क्तवतु |

३. सार्वधातुकप्रत्यये परे अङ्गकार्यम्‌ | सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६)

४. वृद्धि-प्रकरणम्‌ (ञ्णिति, किति, तद्धितेषु)

५. अभ्यासकार्य-प्रकरणम्‌ (यत्‌ कार्यं भवति द्वित्वानन्तरम्‌) | यथा—दा → दादा → ददा → ददाति


अष्टमाध्यायः

१. पदस्य इत्यधिकारः ८.१.१३ – ८.३.५५

२. पूर्वत्रासिद्धत्वाधिकारः

३. हल्‌-सन्धिः

४. विसर्ग-सन्धिः

५. णत्वप्रकरणम्‌ | फलम्‌ → फलानि किन्तु पुष्पम्‌ → पुष्पाणि |


मातुः अष्टाध्यायीसूत्रपाठ-पुस्तकस्य पृष्ठसङ्ख्याः ११ – २८, प्रत्येकम् अध्यायस्य पादस्य च सारांशः इतोऽपि विस्तारेण उक्तः |


C. अधिकारसूत्राणि


केषाञ्चित्‌ मुख्य-अधिकारसूत्राणां कार्यक्षेत्रं जानीमश्चेत्‌, सर्वाष्टाध्यायी-आकृतिः सौकर्येणे मनसि तिष्ठति | अधिकारसूत्रम्‌ इत्युक्तौ तादृशं सूत्रं यस्य पूर्ण-रूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु | अधः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि; तेषां कार्यक्षेत्रम्‌ अपि सूचितम्‌, नाम कस्मात्‌ सूत्रात्‌ आरभ्य किं सूत्र-पर्यन्तं तस्य प्रभावः |


१. प्रत्ययः (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र प्रत्ययः आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |

३.१.१ – ५.४.१६० इत्येषु यत्र यत्र विधानम्‌ अस्ति, तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम्‌ अन्वयः यत्‌ यत्‌ विहितं, तस्य प्रत्यय-संज्ञा भवति | यथा वर्तमाने लट्‌ (३.२.१२३); अस्मिन्‌ सूत्रे प्रत्ययः इति सूत्रम्‌ उपविश्य वदति यत्‌ लट्‌ विहितः अस्ति अतः तस्य प्रत्यय-संज्ञा भवति |


२. परश्च (३.१.२) = [अधिकारः ३.१.१ - ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र परश्च इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |

यथा वर्तमाने लट्‌ (३.२.१२३) = वर्तमानार्थे धातुतः लट्‌ भवति [अग्रिमाधिकारसूत्रं धातोः], अपि च लटः प्रत्यय-संज्ञा भवति प्रत्ययः इत्यनेन | धातोः परे एव आयाति परश्च इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— धातोः वर्तमाने लट्‌ प्रत्ययः परश्च | -- यदि लटः प्रत्यय-संज्ञा नाभविष्यत्‌, तर्हि परश्च नागमिष्यत्‌ | तस्यां दशायां लट्‌ तु आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः प्राक्‌ अभविष्यत्‌ | भू‌ + लट्‌ इति न, अपि तु लट्‌ + भू अभविष्यत्‌ !


३. धातोः (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन्‌ तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत्‌ यः को‍पि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः | [३.१.२२ – ३.१.९० अन्यत्‌ सूत्रं तदेव समानं कार्यं करोति धातो-रेकाचो-हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) |]

यथा निष्ठा' (३.२.१०२) = निष्ठा एका संज्ञा अस्ति, क्त क्तवतु इत्यनयोः प्रत्यययोः कृते | सूत्रसङ्ख्यां पश्य— सूत्रसङ्ख्या-द्वारा बुद्धं यत्‌ अस्मिन्‌ सूत्रे प्रत्ययः, धातोः, परश्च इत्येषाम्‌ अधिकारः | तर्हि अनेन सूत्रेण क्त क्तवतु च भवतः, तयोश्च प्रत्यय-संज्ञा स्तः | अपि च परश्च इत्यनेन धातोः परं वहितौ | भूते (३.२.८४) इत्यस्यापि अधिकारः, अतः भूतार्थे भवति | अनुवृत्ति-सहित-सूत्रमेवम्‌— 'धातोः निष्ठा भूते प्रत्ययः परश्च | उदा० कृ + क्तवतु → कृतवत्‌; पुंसि कृतवान्‌ |


४. ङ्याप्प्रातिपदिकात्‌ (४.१.१) = [अधिकारः ४.१.१ – ५.४.१६०] चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, प्रत्ययः इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |


५. संहितायाम्‌ (६.१.७१, ६.३.११४) = [अधिकारः ६.१.७१ – ६.१.१५६, अपि च ६.३.११४ – ६.३.१३९] अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति— यथा यण्‌सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः | प्रत्येकस्मिन्‌ सन्धि-विधायकसूत्रे संहितायाम्‌ उपविश्य वदति यत्‌ तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यवहिता स्थितिः |

यथा गुणसन्धिः | विधायकसूत्रम्— आद्‌गुणः (६.१.८७) | अनुवृत्ति-सहित-सूत्रमेवम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |

हल्‌-सन्धिः अष्टमाध्याये भवति | तत्रापि सन्धिः इत्यस्य कृते संहितायाम्‌ अपेक्षते एव | परञ्च अत्र संहितायाम्‌ षष्ठाध्यायस्य संहितायाम्‌ (६.१.७१, ६.३.११४) इति ना | अष्टमाध्याये एव अन्यत्‌ सूत्रं वर्तते तयोर्व्यावचि संहितायाम्‌ (८.२.१०८) | अस्मात्‌ सूत्रात्‌ संहितायाम्‌ इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम्‌ |


६. अङ्गस्य (६.४.१) = [अधिकारः ६.४.१ - ७.४.९७] षष्ठाध्यायस्य चुतुर्थपादस्य आरम्भात्‌ सप्तमाध्यायस्य अन्तपर्यन्तं यत्‌ किमपि कार्यं विधीयते, तत्‌ कार्यम्‌ अनेन सूत्रेण अङ्गे एव भवति अतः अङ्गकार्यम्‌ इत्युच्यते | यदा प्रत्ययः विधीयते, तदा तस्मात्‌ प्रत्ययात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वंम्‌ अङ्गम्‌ इति |

उदाहरणार्थं भू + अ + ति → भव + ति → भवति | "भवति" इत्यस्य निर्माणसमये, "ति" इत्यस्य दृष्ट्या अङ्गं "भव" इति | "ति" इत्यस्मात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वं "ति" इत्यस्य कृते "अङ्गम्‌" | तर्हि अत्र अङ्गं नाम धातु-विकरणप्रत्यययोः संयुक्तरूपम्‌‌ | यथा वद्‌ + अ → वद, भू + अ → भव इत्यादीनि अङ्गानि | "भवति" इति उदाहरणे आरम्भे भू + अ (शप्‌) इति स्थितौ, "अ" (शप्‌) प्रत्ययस्य द्रुष्ट्या भू इति अङ्गम्‌ | भू पूर्वम्‌ अस्ति किल | शप्‌-प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति | भू + अ → भो + अ | इदं कार्यम्‌ शप्‌-विकरणप्रत्ययं निमित्ती कृत्य भू इति अङ्गे भवति अतः इदम्‌ अङ्गकार्यम्‌ | सूत्रम्‌ अस्ति सार्वधातुकार्धधातुकयोः (७.३.८४); अत्र अङ्गस्य इति सूत्रस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमिदम्— सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य | सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति चेत्‌, अङ्गस्य गुणः भवति |


७. पदस्य (८.१.१६) = [अधिकारः ८.१.१६ – ८.३.५५] ८.१.१६ इत्यस्मात्‌ आरभ्य ८.३.५५ पर्यन्तम्‌ इदं सूत्रं एकैकस्मिन्‌ विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र अलोऽन्त्यस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति "पदान्तस्य" | अतः यत्‌ कार्यं विशेषतः पदान्ते भवति, तदस्य सूत्रस्य अधिकारे आयाति |

यथा रुत्वप्रकरणम्‌ (८.३.१ - ८.३.१२) | अस्मिन्‌ प्रकरणे वारं वारं रुत्वं (रु) विहितं भवति, सर्वत्र पदान्ते | तदा रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स्‌ | अनेन सम्‌ + कृ‌ + घञ्‌ → सँस्कारः / संस्कारः | सम्‌ इति उपसर्गः; उपसर्गः स्वयं पदम्‌ | अतः सम्‌ इत्यस्य म्‌ → रु → ः → स्‌ | अस्मिन्‌ प्रकरणे रु इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं | तथैव कस्मिन्‌ + चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌ | कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌

अस्य पाठस्य सारांशः अयं यत्‌ अस्माकं मनसि कानिचन मुख्याधिकार-सूत्राणि सन्ति चेत्‌, तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः | अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धि-ग्रहणे आगच्छति |

Swarup – June 2014 (updated May 2016)

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].


०२ - अष्टाध्याय्याः समग्रदृष्टिः.pdf (85k) Swarup Bhai, Aug 8, 2019, 6:53 AM v.1