04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH: Difference between revisions

no edit summary
(Changed the Font Size to Big)
No edit summary

(9 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः}}
ध्वनिमुद्रणानि -
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि -

|'''2016 वर्गः-'''

|1.१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/31_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__2016-06-15.mp3 ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__2016-06-15]

|2.२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/32_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--2__2016-06-22.mp3 ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--2__2016-06-22]

|'''2014 वर्गः-'''

|1.१) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/11_ting-siddheH_ca_lakArANaM_ca_samagradRuShTiH_2014-08-06.mp3 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_2014-08-06]

|2.२) [https://sites.google.com/site/samskritavyakaranam/08---vargasya-dhvanimudraNAni-karapatrANi-ca/goog_850824133 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_II_2014-08-13]

2016 वर्गः-

1. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/31_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__2016-06-15.mp3 ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__2016-06-15]
लट्‌-लकारे, भ्वादिगणे पा-धातुः → पिबति, जुहोत्यादिगणे दा-धातुः → ददाति, स्वादिगणे आप्‌-धातुः → आप्नोति | दश धातुगणाः सन्ति; गणम्‌ अनुसृत्य विकरणप्रत्ययस्य भेदेन लट्‌-लकारे रूपभेदः दृश्यते | पिबति, ददाति, आप्नोति इति प्रमाणम्‌ | परन्तु लृट्‌-लकारे पा-धातुः → पास्यति, दा-धातुः → दास्यति, आप्‌-धातुः → आप्स्यति | अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयः विकरणप्रत्ययः नास्ति | लट्‌-लकारः सार्वधातुकलकारः; लृट्‍-लकारः आर्धधातुकलकारः | अयं भेदः कथं निष्पन्नः ? अस्मिन्‌ पाठे परिशीलयाम |

2. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/32_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--2__2016-06-22.mp3 ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--2__2016-06-22]

धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम्‌ एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌सार्वधातुकञ्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकं नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | अयं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | प्रथमतया तिङ्‌-प्रसङ्गे अवलोकयाम, तदा कृत्‌-प्रसङ्गे |
2014 वर्गः-

1. [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/11_ting-siddheH_ca_lakArANaM_ca_samagradRuShTiH_2014-08-06.mp3 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_2014-08-06]

2. [https://sites.google.com/site/samskritavyakaranam/08---vargasya-dhvanimudraNAni-karapatrANi-ca/goog_850824133 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_II_2014-08-13]

लट्‌-लकारे, भ्वादिगणे पा-धातुः → पिबति, जुहोत्यादिगणे दा-धातुः → ददाति, स्वादिगणे आप्‌-धातुः → आप्नोति | दश धातुगणाः सन्ति; गणम्‌ अनुसृत्य विकरणप्रत्ययस्य भेदेन लट्‌-लकारे रूपभेदः दृश्यते | पिबति, ददाति, आप्नोति इति प्रमाणम्‌ | परन्तु लृट्‌-लकारे पा-धातुः → पास्यति, दा-धातुः → दास्यति, आप्‌-धातुः → आप्स्यति | अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयः विकरणप्रत्ययः नास्ति | लट्‌-लकारः सार्वधातुकलकारः; लृट्‍-लकारः आर्धधातुकलकारः | अयं भेदः कथं निष्पन्नः ? अस्मिन्‌ पाठे परिशीलयाम |

धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम्‌ एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकं नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | अयं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | प्रथमतया तिङ्‌-प्रसङ्गे अवलोकयाम, तदा कृत्‌-प्रसङ्गे |

तिङ्‌-प्रत्ययैः लकाराः निष्पन्नाः; अतः "तिङ्‌-प्रसङ्गः" इत्यस्य वदनेन लकाराणां विषयः आयाति एव | दश लकाराः मूलतः कथं निष्पद्यन्ते इत्यस्य परिशीलनेन बहुकिमपि प्रकाशते |
Line 28 ⟶ 31:

दशलकाराः सन्ति | आरम्भे विवक्षाम्‌ अनुसृत्य दश लकाराः गोचराः; तदा अष्टाध्याय्याः पद्धत्या लघुत्वार्थम्‌ सर्वे लकाराः "ल"-कारः [ल्‌] इत्येव भवन्ति; अत्र अभेदः एव दृश्यते | पश्चात्‌ ल्-स्थाने अष्टादश तिङ्‌-प्रत्ययाः; अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश तिङ्‌-प्रत्ययाः अतः तदानीमपि अभेदः एव | अन्ते तिङां सिद्धित्वेन पुनः दशानां भेदाः आयान्ति | अभेदत्वात्‌ भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः आर्धधातुकाः च इत्ययं विभागद्वयम्‌ अत्रैव सृष्टम्‌ |

<nowiki>***</nowiki> विवक्षाम्‌ अनुसृत्य दश लकाराः (भेदः) →
Line 124 ⟶ 128:

लँङ्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन ङकारस्य इत्संज्ञा, '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्संज्ञा → '''तस्य लोपः''' (१.३.९) इत्यनेन ङकार-अकारयोः लोपः → ल्‌ इति अवशिष्यते |

एवमेव सर्वेषां लकाराणामपि |
Line 132 ⟶ 137:

अतः एतत्‌ सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत्‌ यद्यपि दश लकाराः सन्ति, तथापि अनुबन्धलोपानन्तरं सर्वे "ल्‌" इत्येव भवन्ति |

'''लट्‌'''
Line 164 ⟶ 170:

'''लस्य''' (३.४.७७) = अधिकारसूत्रम्‌ इदम्‌ | षष्ठ्यन्तम्‌ | अकारः उच्चारणार्थः | ३.४.७८ - ३.४.११२ पर्यन्तम्‌ अस्य अधिकारः | प्रत्येकस्मिन्‌ सूत्रे उपविश्य वदति यत्‌ तत्तत्सूत्रे यः प्रत्ययः विहितः, सः लस्य (ल्‌ इत्यस्य) स्थाने विहितः |

'''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) = तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्‌ प्रत्ययाः भवन्ति | '''लस्य''' इत्यनेन ल्‌ इत्यस्य स्थाने एते अष्टादश विहिताः | '''तिप्‌ तस्‌ झि, सिप्‌ थस्‌ थ, मिप्‌ वस्‌ मस्‌‍, त आताम् झ, थास्‌ आथाम्‌ ध्वम्‌, इड्‌ वहि महिङ्‌''' इति अष्टादश तिङ्‌ प्रत्ययाः | '''ति‌'''प्‌ इत्यस्मात्‌ आरभ्य महि'''ङ्‌''' पर्यन्तम्‌, आहत्य '''तिङ्‌'''-प्रत्ययाः इत्युच्यते |
Line 172 ⟶ 179:

आरम्भे एते सर्वे अष्टादश तिङ्‌ परस्मैपदप्रत्ययाः भवन्ति, '''लः''' '''परस्मैपदम्‌''' (१.४.९९) इत्यनेन | तदा '''तङानावात्मनेपदम्‌''' (१.४.१००) इत्यनेन तङ्‌ ('''त''' इत्यस्मात्‌ आरभ्य महि'''ङ्‌''' पर्यन्तम्‌) आत्मनेपदप्रत्ययाः  |

परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः

तिप्‌     तस्‌     झि

तिप्‌     तस्‌     झि

सिप्‌    थस्‌      थ
Line 185 ⟶ 192:
आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः

त     आताम्     झ

त     आताम्     झ

थास्‌  आथाम्‌     ध्वम्‌
Line 195 ⟶ 201:
'''लः''' '''परस्मैपदम्‌''' (१.४.९९) = लस्य स्थाने ये प्रत्ययाः आयान्ति, ते सर्वे परस्मैपदसंज्ञकाः |

'''तङानावात्मनेपदम्‌''' (१.४.१००) = लस्य स्थाने ये तङ्‌ आनः (शानच्‌, कानच्‌) च प्रत्ययाः आयान्ति, ते सर्वे आत्मनेपदसंज्ञकाः | तङ्‌ आनश्च तयोः इतरेतरद्वन्द्वः, तङानौ | तङानौ प्रथमान्तम्‌, आत्मनेपदं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''लः''' '''परस्मैपदम्‌''' इत्यस्मात्‌ '''लः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''लः तङानौ आत्मनेपदम्‌''' |

'''तङानावात्मनेपदम्‌''' (१.४.१००) = लस्य स्थाने ये तङ्‌ आनः (शानच्‌, कानच्‌) च प्रत्ययाः आयान्ति, ते सर्वे आत्मनेपदसंज्ञकाः | तङ्‌ आनश्च तयोः इतरेतरद्वन्द्वः, तङानौ | तङानौ प्रथमान्तम्‌, आत्मनेपदं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''लः''' '''परस्मैपदम्‌''' इत्यस्मात्‌ '''लः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''लः तङानौ आत्मनेपदम्‌''' |

Line 219 ⟶ 224:

अत्र 'शेषात्‌' इत्यनेन 'ये धातवः अवशिष्यन्ते, ते सर्वे परस्मैपदसंज्ञकाः' इति पर्यवसितम्‌ | अत्र एतादृशी शैली किमर्थं, प्रत्ययानां विषये च अन्या शैली किमर्थम्‌ ?

उतरम्‌ एवं यत्‌ यथासङ्गं यस्य लघुत्वं, तदनुसृत्य शैली | अत्र धातूनां प्रसङ्गे धातवः बहुविधाः | यः कोऽपि धातुः ङित्‌ अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, सः धातुः कर्त्रर्थे चेत्‌ परस्मैपदी एव | तर्हि धातुः उदात्तेत्‌ अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत्‌ नास्ति चेदपि, यदि ङित्‌, अनुदात्तेत्, ञित्‌, स्वरितेत्‌ नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒— रिषँ इति उदात्तेत्‌; गै॒ इति उदात्तेत्‌ न; उभयत्र परस्मैपदित्वम्‌ इति कृत्वा 'शेषात्‌' इत्यनेन लघुत्वम्‌ | अत्र परस्मैपदिसंज्ञा केषाम्‌ इति वदनार्थं 'उदात्तेत्‌ अथवा इत्‌संज्ञकस्वरः नास्ति चेदपि तथा' इत्यस्मिन्‌ लघुत्वं नितरां नास्ति | तदर्थं 'शेषात्‌' इत्युक्तम्‌ |
Line 266 ⟶ 272:

(इयं पाणिनेः शैली— प्रथमं सर्वे समानाः इति वदति सः; तदा अन्यसूत्रेण अपवादः उक्तः येन भिद्यन्ते | प्रथमतया सामान्यं दीयते, तदा विशेषः | परस्मैपदम्‌ आत्मनेपदम्‌ अपि तथा, सार्वधातुकम्‌ आर्धधातुकम्‌ अपि तथा | अन्यत्‌ उदा० '''कर्तरि शप्‌''' इत्यनेन सर्वेभ्यः धातुभ्यः शप्‌; तदा अपवादत्वेन गणम्‌ अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः '''दिवादिभ्यः श्यन्‌''', '''स्वादिभ्यः श्नु''' इत्यादयः |)

एवं चेत्‌ कर्त्रर्थे '''कर्तरि शप्‌''' इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति |
Line 271 ⟶ 278:

'''कर्तरि शप्‌''' (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः शप्‌ प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |

'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = शपः लोपः
Line 312 ⟶ 320:

साक्षात्‌—
साक्षात्‌—

'''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३)
Line 349 ⟶ 358:
यथा— लृट्‌-लकारः

आप्‌ + लृट्‌ → अप्‌आप्‌ + ल्‌ → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लृटि परे धातुतः स्यः → आप्‌ + स्य + ल्‌ → धातोः परः स्य-प्रत्ययः आर्धधातुकः अतः '''कर्तरि शप्‌''', '''स्वादिभ्यः श्नुः''' इत्यनयोः प्रसक्तिर्नास्ति → आप्‌ + स्य + ल्‌ → प्रथमपुरुषैकवचने तिबादेशः → आप्‌ + स्य + तिप्‌ → अनुबन्धलोपे → आप्‌ + स्य + ति → वर्णमेलने → आप्स्यति

आप्‌ + लृट्‌ → अप्‌ + ल्‌ → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लृटि परे धातुतः स्यः → आप्‌ + स्य + ल्‌ → धातोः परः स्य-प्रत्ययः आर्धधातुकः अतः '''कर्तरि शप्‌''', '''स्वादिभ्यः श्नुः''' इत्यनयोः प्रसक्तिर्नास्ति → आप्‌ + स्य + ल्‌ → प्रथमपुरुषैकवचने तिबादेशः → आप्‌ + स्य + तिप्‌ → अनुबन्धलोपे → आप्‌ + स्य + ति → वर्णमेलने → आप्स्यति

Line 358 ⟶ 366:
कार्यं साक्षात्‌ पूर्वं परं च भवति इति किम्‌ ?

'''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) = सप्तमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ पूर्वं स्यात्‌ |

'''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) = सप्तमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ पूर्वं स्यात्‌ |

'''तस्मादित्युत्तरस्य''' (१.१.६७) = पञ्चमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ परे स्यात्‌ |
Line 368 ⟶ 375:

येषु लकारेषु कर्त्रर्थे धातुतः सार्वधातुकप्रत्ययः नास्त्येव अथवा यत्र अस्ति परन्तु साक्षात्‌ न (अतः न दृश्यते), तेषु तिङन्तपदेषु शप्‌ न भवति; स्थाने इडागमो विचारः | अत्र आर्धधातुकलकारः इत्युच्यते | लिट्‌, लृट्‌, लृङ्‌, लुट्‌, लुङ्‌, आशिर्लिङ्‌ इति |

अनेन चत्वारः सार्वधातुकलकाराः भवन्ति, षट्‌ च आर्धधातुकलकाराः भवन्ति |
Line 374 ⟶ 382:

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].

[https://docsstatic.googlemiraheze.comorg/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjY3M2ZlOTk4NjEwOTMyYmIsamskritavyakaranamwiki/4/41/%E0%A5%A6%E0%A5%A9_-_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D_-%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A5%87%E0%A4%83_%E0%A4%9A_%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%83.pdf ०३ - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः.pdf] (71k) Swarup Bhai, Oct 14, 2019, 6:32 PM v.1
page_and_link_managers, Administrators
5,097

edits