|
|
(2 intermediate revisions by the same user not shown) |
<big><br />
शपि इत्संज्ञकशकारपकारयोः आवश्यकता कथम् ? श्यन्, श्नु, श्नम्, श्ना एषां प्रत्ययानाम् अपित्वात् गुणनिषेधः | 'अपित्वात् गुणनिषधःगुणनिषेधः' इति तदा अर्थपूर्णः यदा कस्यचित् प्रत्ययस्य पित्वात् गुणसाधकसामर्थ्यम् | यदि अष्ठाध्याय्यां न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसाधकसामर्थ्यं, तर्हि 'अपित्वात् गुणनिषधःगुणनिषेधः' इत्यस्य कः अर्थः अभविष्यत् ? तस्य निरर्थकस्य निवारणार्थम् एकः प्रत्ययः प्रदर्शनीयः आसीत् यस्मिन् पित्वं तदधिकृत्य गुणसाधकसामर्थ्यमंगुणसाधकसामर्थ्यं; स च प्रत्ययः शप् |</big>
<big><br />
किन्तु अनावश्यकतायां गौरवं— यथा यदि उ-प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत्, तर्हि येन गुणकार्यस्य सामर्थ्यमंसामर्थ्यं स्यात् इत्संज्ञकशकारपकारयोः आवश्यकता इति कृत्वा शुप्; किन्तु तत्र गौरवं; गौरवं नाम मार्गः दीर्घः यतोहि द्वयोः वर्णयोः इत्संज्ञा करणीया, लोपश्च करणीयः | गुणसाधनार्थं तस्मिन् दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता | उ-प्रत्यये इत्संज्ञकशकारपकारयोः आवश्यकता नास्ति अतः आर्धधातुकत्वात् लाघवम् |</big>
<big><br />
<big><br />
अन्ते च लिट्, आशीर्लिङ् इत्यनयोः का गतिः ? तत्र आर्धधातुकत्वं साक्षात् विधीयते '''लिट् च''' (३.४.११५), '''लिङाशिषि''' (३.४.११६) इति सूत्राभ्याम् | किमर्थमिति चेत्, उभयत्र विकरणप्रत्ययः एव नास्ति | तादृशम् आर्धथातुकविधानंआर्धधातुकविधानं यदि नाभविषत्, तर्हि उभयत्र '''कर्तरि शप्''' (३.१.६८) भवति स्म | तस्य निवारणार्थम् आर्धधातुकत्वं साक्षात् विहितम् | (आशीर्लिङि सीयुट् विद्यते किञ्च सः तु आगमः न तु प्रत्ययः |)</big>
<big>---------------------------------</big>
|