04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca: Difference between revisions

no edit summary
(Added new pdf link)
No edit summary

(12 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च}}
ध्वनिमुद्रणानि -
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि -

|20142016 varga--

|1) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/38_kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--1__2016-08-03.mp3 kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--1__2016-08-03]

|2) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/39_kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--2__angam-it-viShayaH_2016-08-10.mp3 kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--2_+_angam-it-viShayaH_2016-08-10]

2016|2014 varga--

|1)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/13_kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_I_2014-08-20.mp3 kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_I_2014-08-20]

|2)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/14_kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_II_2014-09-03.mp3 kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_II_2014-09-03]

|3)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/15_kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_III_2014-09-10.mp3 kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_III_2014-09-10]

2016 varga--

1) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/38_kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--1__2016-08-03.mp3 kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--1__2016-08-03]

2) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/39_kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--2__angam-it-viShayaH_2016-08-10.mp3 kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--2_+_angam-it-viShayaH_2016-08-10]

2014 varga--

1)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/13_kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_I_2014-08-20.mp3 kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_I_2014-08-20]

2)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/14_kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_II_2014-09-03.mp3 kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_II_2014-09-03]

3)  [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/15_kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_III_2014-09-10.mp3 kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_III_2014-09-10]

पूर्वम्‌ अस्माभिः दृष्टं यत्‌ धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम् एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकः नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | पूर्वम्‌ इयं व्यवस्था अस्माभिः अवलोकिता तिङ्‌-प्रसङ्गे | अधुना अवलोकामहै कृत्‌-प्रसङ्गे |

[[File:VN dhAtubhyaH ting-kRut diagragm 4.jpg|center]]

कृत्‌ नाम किम्‌ ? यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | यः कोऽपि तिङ्‌-भिन्नः प्रत्ययः धातुतः विहितः, स च प्रत्ययः कृत्‌ इत्युच्यते | यस्य पदस्य अन्ते कृत्‌-प्रत्ययः अस्ति, तत्‌ पदं कृदन्तपदम्‌ | कृदन्तपदानि सर्वदा सुबन्तानि | इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि | यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्‌, प्रकाशमानम्— इमानि पदानि सर्वाणि कृदन्तानि | यतः एते प्रत्ययाः (तव्यत्‌, क्तिन्‌, तृच्‌, ण्वुल्‌, शतृ, शानच्‌) साक्षात्‌ धातुभ्यः विहिताः, तिङ्‌-भिन्नाः, पदान्ते च सन्ति |

एते सर्वे प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र '''धातोः''', '''प्रत्ययः''' इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत्‌ आरम्भे तिङ्‌-प्रत्ययाः सर्वे सार्वधातुकाः, '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम्‌ अवलोकयाम— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत्‌ प्रत्ययः धातुतः विहितः स्यात्‌ | (धातुतः विहितः नास्ति चेत्‌, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्‌, तिङ्‌ चेत्‌ सार्वधातुकम्‌ इति सामान्यतया निश्चितम्‌ | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत्‌ चेत्‌, किमपि नैश्चित्यं नास्ति‌ यत्‌ सार्वधातुकं भवेत्‌; कृत्‌ शित्‌ अस्ति चेदेव सार्वधातुकः | कृत्‌-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्‌, चानश्‌, शानन्‌, खश्‌, श, एश्‌, शध्यै, शधैन्‌ इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच्‌ च | अवशिष्टाः सर्वे कृत्‌ प्रत्ययाः आर्धधातुकाः, '''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रेण |

Line 45 ⟶ 50:

अदादौ वच्‌ + अत्‌ → '''कर्तरि शप्‌''' → (वच्‌ + शप्‌ + अत्‌ →) '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन शपः लुक्‌ (लोपः) → वच्‌ + अत्‌ → वचत्‌ (वचन्, वचन्तीवचती)

Line 69 ⟶ 74:

चुरादौ चुर्‍चुर् → चोरि इति धातुः + अत्‌ → '''कर्तरि शप्‌''' → चोरि + शप्‌ + अत्‌ → अनुबन्धलोपे → चोरि + अ + अत्‌ → → चोरयत्‌ (चोरयन्‌, चोरयन्ती)

Line 81 ⟶ 86:

१) प्रथमतया विकरणप्रत्ययभेदेन धातुगणम्‌ अनुसृत्य शत्रन्तपदे रूपभेदः | शप्‌ इत्यनेन "अ" संयुज्यते, श्यन्‌ इत्यनेन "य" संयुज्यते, श्नु इत्यनेन "नु" संयुज्यते, श्नम्‌ इत्यनेन "न" संयुज्यते, उ इत्यनेन "उ" संयुज्यते, श्ना इत्यनेन "ना" संयुज्यते | अत्र विकरणप्रत्ययानां स्थूलाकृत्तिस्थूलाकृति-भेदेन प्रभावः | अ, य, नु, न, उ, ना इत्येषाम्‌ रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति— प'''ठ'''न्‌, न'''श्य'''न्‌, आ'''प्नुव'''न्‌, भि'''न्द'''न्‌, कु'''र्व'''न्‌, क्री'''ण'''न्‌ |

२) विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात्‌ पूर्वं स्थितं यत्‌ धातुरूपि-अङ्गं, तस्मिन्‌ अपि रूपभेदः भवति | अदादिगणे जुहोत्यादिगणे च यत्र विकरणस्य लोपो भवति, तत्रापि लुक्‌, श्लु इत्याभ्यां विशिष्टकार्यं भवति |

अधः षट्‌ वृत्तान्ताः a-f इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात्‌ विकरणप्रत्ययेन कीदृशप्रभावः, इत्यस्य एका दृष्टिः भवति—

a) विकरणप्रत्ययेन गुणकार्यम्‌— भ्वादिगणे, चुरादिगणे च | भू + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → भो + अ + अत्‌ → भव + अत् → भवत्‌, पुंसि भवन्‌ | चुर्‍चुर् + इ → चोरि + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → चोरे + अ + अत्‌ → चोरय + अत्‌ → चोरयत्‌, पुंसि चोरयन्‌ |

b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्‌/उवङ्‌ आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत्‌ → शपः लुक्‌ (लोपः) → ब्रू + अत्‌ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ्‌ आदेशः → ब्र्‍ब्र्र् + उव + अत्‌ → ब्रुव्‌ + अत्‌ → ब्रुवत्‌ (पुंसि ब्रुवन्‌) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत्‌ → जिह्र्‍जिह्र् + इय्‌ + अत्‌ → जिह्रियत्‌

c) विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वम्— जुहोत्यादिगणे | दा‌ + अत्‌ → दा + श्लु + अत्‌ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → दादा + अत्‌ → '''ह्रस्वः''' इत्यनेन अभ्यासयअभ्यासस्य ह्रस्वत्वम्‌ → ददा + अत्‌ → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन श्ना इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपो भवति सार्वधातुके क्ङिति परतः ददत्‌

d) विकरणप्रत्ययस्य अपित्वात्‌ गुणनिषेधः— दिवादिगणे, स्वादिगणे, तुदादिगणे, क्र्यादिगणे | चि + श्नु + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्त-धातोः इकः गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → चिनु + अत्‌ → चिन्वत्‌ (पुंसि चिन्वन्‌)

e) तनादिगणे कृ + अत्‌ → '''तनादिकृञ्भ्यः उः''' (३.१.७९) → इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' ७.३.८४ इत्यनेन इगन्त-धातोः इकः गुणः → कर्‍कर् + उ + अत्‌ → करु + अत्‌ → '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु + अत्‌ → यण्‌-सन्धिः → कुर्वत्‌ (पुंसि कुर्वन्‌)

f) रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, '''श्नान्नलोपः''' (६.४.२३) इत्येनेनइत्यनेन सूत्रेण | यथा उन्द्‌ + श्नम्‌ + अत्‌ → उनन्द्‌ + अत्‌ | 'उनन्द्‌' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते अतः '''श्नान्नलोपः''' इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः | उनन्द्‌ + अत्‌ → उनद्‌ + अत्‌ → अपित्सु सार्वधातुकलकारेषु श्नम्‌-प्रत्यये स्थितस्य अकारस्य लोपो भवति '''श्नसोरल्लोपः''' (६.४.१११) इत्येनेनइत्यनेन सूत्रेण → उन्द्‌ + अत्‌ → वर्णमेलने → उन्दत्‌ (पुंसि उन्दन्‌)

Line 111 ⟶ 117:

आर्धधातुक-कृत्‌-प्रत्ययेषु परेषु, धातुः यस्मिन्‌ कस्मिनपिकस्मिन्नपि गणे भवतु नाम, गणं निमित्तीकृत्य रूपभेदः न भवति | ण्वुल्‌ इति प्रत्ययं पश्येम— अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ्‌ न वा शित्‌, अतः आर्धधातुकः | '''चुटू''' इत्यनेन णकारस्य इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन लकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन तयोः लोपः → वु अवशिष्यते | '''युवोरनाकौ''' (७.१.१) = अङ्गात्‌ उत्तरस्य यु, वु इत्यनयोः स्थाने क्रमशः अन अक चादेशौ भवतः | अतः वु-स्थाने अक-आदेशः सर्वत्र | यथा—

Line 138 ⟶ 144:
क्र्यादौ क्री + अक → क्रायक (क्रायकः)

चुरादौ चुर्‍चुर् → चोरि इति धातुः + अक → चोरक (चोरकः)

Line 211 ⟶ 217:
यथा—

क्तवतु— कृतवान्‌, गतवान्‌, परन्तु इडागमे सति प'''ठि'''तवान्‌, खा'''दि'''तवान्‌ |

क्तवतु— कृतवान्‌, गतवान्‌, परन्तु इडागमे सति प'''ठि'''तवान्‌, खा'''दि'''तवान्‌ |

तुमुन्‌— ज्ञातुम्‌‍, आप्तुं, परन्तु इडागमे सति क्री'''डि'''तुम्‌, जी'''वि'''तुम्‌ |
Line 233 ⟶ 238:

'''नेड्‌ वशि कृति''' (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''वशि कृति''' इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश्‌ स्यात्‌) | वश्‌-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडानुकूलःइडनुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् न इट्‌ वशि कृति''' |

सारांशः एवं यत्‌ आर्धधतुक-कृत्‌-प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः सदस्यः, श्‌, ष्‌, स्‌, ह्‌ च इत्येषु अन्यतमः चेत्‌, सः प्रत्ययः इडानुकूलःइडनुकूलः भवति | धातुः अपि सेट्‌ चेत्‌, सामान्यतया इडागमो भविष्यति |

यथा ण्वुल्‌ अनिट्‌; तृच्‌ सेट्‌ | ण्वुल्‌ धातोः परे चेत्‌, इडागमः न कदापि भवति | तृच्‌ सेट्‌ अस्ति, अतः धातुः अपि सेट्‌ चेत्‌, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति) |

अधुना चिन्तनं कुर्वन्तु, एते आर्धधतुक-कृत्‌-प्रत्ययाः सेट्‌ वा अनिट्‌ वा— अनीयर्‍, क्त, तव्यत्‌, क्त्वा, ल्युट्‌, क्तवतु, तुमुन्‌ |
Line 256 ⟶ 262:

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].

[https://static.miraheze.org/samskritavyakaranamwiki/29/2597/%E0%A5%A6%E0%A5%AC_-_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D_-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_%E0%A4%85%E0%A4%AA%E0%A4%BF_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%BE%E0%A4%83_%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%9A_9A.pdf ०६ - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च .pdf] (85k) Swarup Bhai, Aug 11, 2016, 1:46 PM v.1
page_and_link_managers, Administrators
5,097

edits