04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 101:
<big>c) विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वम्— जुहोत्यादिगणे | दा‌ + अत्‌ → दा + श्लु + अत्‌ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → दादा + अत्‌ → '''ह्रस्वः''' इत्यनेन अभ्यासस्य ह्रस्वत्वम्‌ → ददा + अत्‌ → → ददत्‌</big>
 
<big>d) विकरणप्रत्ययस्य अपित्वात्‌ गुणनिषेधः— दिवादिगणे, स्वादिगणे, तुदादिगणे, क्र्यादिगणे | चि + श्नु + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्त-धातोः इकः गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → चिनु + अत्‌ → चिन्वत्‌ (पुंसि चिन्वन्‌)</big>
 
<big>e) तनादिगणे कृ + अत्‌ → '''तनादिकृञ्भ्यः उः''' (३.१.७९) → इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' ७.३.८४ इत्यनेन इगन्त-धातोः इकः गुणः → कर् + उ + अत्‌ → करु + अत्‌ → '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु + अत्‌ → यण्‌-सन्धिः → कुर्वत्‌ (पुंसि कुर्वन्‌)</big>
page_and_link_managers, Administrators
5,159

edits